ननु साध्यविकलो दृष्टान्तो विपक्ष एवेति ..
अथ साध्यसाधनवैकल्ययोर्दृष्टान्तदोषत्वसमर्थनम् ।। २५ ।।
तर्कताण्डवम्
ननु साध्यविकलो दृष्टान्तो विपक्ष एवेति तत्र वर्तमानो हेतुः सपक्षान्तरवृत्तौ सत्यां पक्षत्रयवृत्तित्वात्साधारणः । असत्यां तु सपक्षवृत्तौ पक्षविपक्षयोरेव वर्तमानत्वाद्विरुद्धः । साध्यधर्मवति दृष्टान्ते साधनविकले हेतुर्व्याप्यत्वासिद्ध इति दृष्टान्ताभासो हेत्वाभासान्तर्गत एवेति चेन्न । बाधादेः पक्षाश्रिततयेवाव्याप्त्यादेर्हेत्वाश्रिततयेव च साध्यवैकल्यादेर्दृष्टान्ताश्रिततयैव प्रतिभासात् । प्रतिभासानुसारेण चोद्भाव्यत्वात् । उद्भाव्यस्य चैव व्युत्पाद्यत्वात् ।।
किञ्चोपजीव्यत्वेनानुमानाङ्गदृष्टान्तदोषेणैवानुमाने दुष्टे कथं पिष्टपेषकहेत्वाभासप्रतीक्षा । अन्यथा बाधे पक्षस्यैव विपक्षत्वात् बाधो व्यभिचारेऽन्तर्भूतः स्यात् । सव्यभिचारविरुद्धौ च व्याप्तिहीनत्वा-द्व्याप्यत्वासिद्धेऽन्तर्भूतौ स्याताम् । असाधारणे च सपक्षस्य साधन-वैकल्यावश्यम्भावात्सोऽपि साधनवैकल्येऽन्तर्भूतः स्यात् । अनुप-संहारिणि च दृष्टान्ताभाव आवश्यक इति सोऽपि दृष्टान्ताभासेऽन्तर्भूतः स्यात् ।।
किञ्च जीवच्छरीरजातं सात्मकं प्राणादिमत्त्वात् घटवदित्यत्र शब्दोऽभिधेयः प्रमेयत्वाद्व्यतिरेकेण घटवदित्यत्र च क्रमेण व्यतिरेक-व्याप्तेरन्वयव्याप्तेश्च सत्त्वेन हेतुदोषाभावेऽपि धूमानुमानेऽपि ह्रदे दृष्टान्तिते हेतुदोषाभावेऽपि दृष्टान्तो दुष्ट इति तद्दोषः पृथगेव । तत्राप्यनुपदर्शितव्याप्तिकत्वाद्व्याप्यत्वासिद्धिरेवेति चेन्न । तथाप्यर्थ दोषाभावात् । तत्रैव महानसे दृष्टान्तिते व्याप्यत्वासिद्धिर्नेति तस्या नित्यदोषत्वापाताच्च । हृदे दृष्टान्तितेऽपि यत्र धूमस्तत्राग्निरिति पूर्वभागेन व्याप्तेरुपदर्शितत्वाच्च ।।
उभयवैकल्यं तु न पृथग्दोषः । एकवैकल्येनैव दुष्टत्वसिद्धेरितर-वैकल्यस्य वैयर्थ्यात् । सम्भवमात्रेण पृथग्वचने अनैकान्तिक-कालातीतत्वं असिद्धकालातीतत्वमित्याद्यपि हेत्वाभासान्तरं स्यात् । १आश्रयहीनत्वाव्याप्त्यभिधानाद्युदाहरणाभासस्यान्तर्भावः पद्धत्यादौ द्रष्टव्यः ।।
या तु ‘‘साध्यस्य साधनस्य वाऽननुगमो दृष्टान्तविरोध’’ इति प्रमाणलक्षणव्याख्यावसरे टीकाकारीया ‘‘उभयोर्वेति ग्राह्य’’मित्युक्तिः सा यथा मनोऽनित्यं मूर्तत्वात्परमाणुवत् कर्मवत् इत्यत्र क्रमेण साध्यवैकल्यं साधनवैकल्यं च दोषः तथा गगनवदित्यादौ उभय-वैकल्याख्यौ दोषौ स्त इत्यभिप्रेत्यैव । न तूभयवैकल्यदूषणस्य पृथग्दोषत्वमित्यभिप्रेत्य । अन्यथैकैकवैकल्येन दृष्टान्तस्य दुष्टत्वे समुदितकल्पनावैयर्थ्यादित्यादि सुधयोभयवैकल्यं न पृथग्गणनीयमिति प्रमाणपद्धत्या च विरोधात् ।।
न्यायदीपः
साध्यवैकल्यादेर्हेतुदोषत्वेन२ पार्थक्यं प्रागुक्तमयुक्तमित्याशङ्क्य निराह– नन्वित्यादिना ।।
‘‘साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे’’ ।
इति भक्तिपादीयानुव्याख्यानसुधोक्तरीत्या दृष्टान्तदोषत्वमुपपादयति– बाधादेरिति । ननु साध्यवैकल्यादिस्थले व्यभिचारादेरपि सामग्रीबलेन स्फुरणसम्भवात् व्यभिचारादिरप्युद्भाव्य इति हेत्वाभासत्वेन व्युत्पादनं युक्तमिति चेत्तदाऽप्युपजीव्यत्वाद्द्रष्टान्तदोष एवेत्याह– किञ्चेति । विपक्षेऽनेकबाधकसत्त्वाच्च दृष्टान्तदोषत्वमेव युक्तमित्याह– अन्यथेति । हेतुदोषसाङ्कर्यमात्रेण हेतुदोषत्व इत्यर्थः । अनुपसंहारिणि चेति । सव्यभिचारस्त्रिविधः साधारणोऽसाधारणोऽनुपसंहारीत्युक्ते र्व्यभिचारभेदभिन्ने सर्वमनित्यं कार्यत्वादित्यादावित्यर्थः । हेतुदोषासङ्कीर्णत्वाच्च दृष्टान्तदोषः पृथगित्याह– किञ्च जीवच्छरीरेति । ‘‘सपक्षान्तरे वर्तमानस्य साधनस्य दृष्टान्तीकृते सपक्षेऽवृत्तौ हेत्वाभासत्वानुपपत्तेश्चे’’ति पद्धत्युक्तमाह– धूमेति । हेतुदोषसाङ्कर्यमाशङ्कते– तत्रापीति । तत्रैवेति । धूमानुमान एवेत्यर्थः । तस्याः व्याप्यत्वासिद्धेः । उपदर्शितव्याप्तिकत्वदशायां व्याप्यत्वासिद्धिशङ्कापि नेत्याह– हृद इति ।।
नन्वस्त्वेवं साध्यवैकल्यादेर्दृष्टान्तदोषत्वं तथाऽपि दृष्टान्तदोषो द्विविध इत्ययुक्तं तस्यानेकविधत्वादित्यत आह– उभयेति । सुधोक्तमेवाह– एकवैकल्येनैवेति ।।
नन्वथापि दृष्टान्तरूपाश्रयासिद्धिव्याप्त्यनभिधानविपरीतव्याप्त्यभि-धानादीनां दृष्टान्तदोषाणां का गतिरित्यत आह– आश्रयहीनत्वेति । आदि-पदेन प्रमाणलक्षणटीका ग्राह्या । उभयवैकल्यस्यापि दोषत्वेन लक्षणटीकाया-मुक्तत्वप्रतीतेः तद्विरोधमाशङ्क्य निराह– या त्विति । सुधयेति । भक्तिपादीयसुधयेत्यर्थः ।।
।। साध्यसाधनवैकल्ययोर्दृष्टान्तदोषत्वसमर्थनम् ।। २५ ।।