करणगतस्य यथार्थज्ञानसाधनत्वरूपप्रामाण्यस्य तु..
करणप्रामाण्यस्य स्वतस्त्वम्
तर्कताण्डवम्
करणगतस्य यथार्थज्ञानसाधनत्वरूपप्रामाण्यस्य तु ज्ञानजनकत्व-ग्राहकमात्रग्राह्यत्वरूपं ज्ञप्तौ स्वतस्त्वम् । अयथार्थज्ञानसाधनत्व-रूपाप्रामाण्यस्य तु ज्ञानजनकत्वग्राहकमात्राग्राह्यत्वरूपं परतस्त्वम् । दोषादिज्ञानं विना भ्रमजनकत्वस्याज्ञानात् ।।
या तु पद्धतौ ‘‘करणप्रामाण्यज्ञप्तिस्तु परत एव । इन्द्रिय-लिङ्गशब्दानां यथायथमनुमानप्रत्यक्षादिवेद्यत्वात् । यथार्थ-ज्ञानसाधनत्वस्य त्वनुमानवेद्यत्वात्’’ इत्युक्तिः सा करणग्राहकमात्र-ग्राह्यत्वरूपं स्वतस्त्वं नेत्यभिप्रेत्य ।।
अत एव सुधायां ‘‘करणानां तु ज्ञप्तौ स्वतस्त्वं नास्त्येव’’ इत्यादिना पद्धत्युक्तं पक्षमुक्त्वा ‘‘अथवा ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वम्’’ इति पक्षान्तरमुक्तम् ।
न्यायदीपः
नन्वस्त्वेवमुक्तदिशा ज्ञानप्रामाण्यस्योत्पत्तिज्ञप्त्योः स्वतस्त्वमथापि स्वतःप्रमाणैराम्नायैरित्युक्तिरयुक्ता । तत्प्रमाण्यस्योत्पत्तौ स्वतस्त्वेपि ज्ञप्तौ पद्धत्युक्तदिशा तदभावादित्यत आह ।। करणेति ।। स्वतस्त्वस्य स्पष्टत्वाय यथार्थज्ञानसाधनत्वरूपेति प्रामाण्यं विशेषितम् ।। ज्ञानेति ।। ज्ञानजनकत्वग्राहकं च रूपादिज्ञानं करणसाध्यं कार्यत्वात् च्छिदादिकार्य-वदित्याद्यनुमानं वा चक्षुरादि ज्ञानजनकमित्यादिवाक्यं वा तन्मात्रग्राह्यत्व-रूपमित्यर्थः । ज्ञानजननशक्तेरेवप्रमाजननशक्तित्वादिति भावः ।
‘‘अप्रामाण्यं तथान्यत’’ इत्यनुव्याख्याने ‘‘परतोऽप्रामाण्यम्’’ इति तत्वनिर्णये चोक्तेराह ।। अयथार्थेति ।। मात्रेत्युक्त्या सूचितमधिकं ग्राहकं व्यनक्ति ।। दोषादीति ।। करणगतकाचकामलासिद्ध्यव्याप्तिभ्रमप्रमादादि-दोषाणामज्ञाने विसंवादाज्ञाने च भ्रमजनकत्वाज्ञानात् । पूर्वोक्तदिशा ज्ञान-जनकशक्तेः सहजत्वेपि भ्रमजननशक्तेः काचादिकरणगतदोषाहितत्वेन ज्ञान-जननशक्त्यप्रमाजननशक्त्योर्भेदेन ज्ञानजननशक्तिग्राहकमात्रेण भ्रमजननशक्ते-र्ग्रहणायोगात् । दोषादिज्ञानानुविधानाच्च भ्रमजननशक्तिग्रहस्येति भावः ।
स्वतस्त्वोक्तेःप्रमाणपद्धतिविरोधमाशङ्क्य तदभिप्रायमाह ।। या त्विति ।। सुधायामिति ।। जिज्ञासाधिकरणेप्रत्यक्षवच्च प्रामाण्यमित्यत्रेत्यर्थः ।