यत्तु मणौ गयाश्राद्धादावपूर्वस्यौत्सर्गिकं..
५१. अथ गयाश्राद्धादिजन्यापूर्वस्य-पित्रादिगतत्वनियमभङ्गः
तर्कताण्डवम्
यत्तु मणौ गयाश्राद्धादावपूर्वस्यौत्सर्गिकं कृतिसामानाधिकरण्यं वैधेन पित्राद्युद्देशेन १प्राप्तव्यभोगसामानाधिकरण्येन अपोद्यते । यदि तु तत्रापि कृतिसामानाधिकरण्यं तर्हि मुक्तेपि पितरि गयाश्राद्धादिफलं स्यात् । पुत्रगतस्य गयाश्राद्धादिजन्यापूर्वस्यानाशात् । एवं
‘‘सविष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति’’
इत्यादौ पुत्रानृतभाषणादिना पितुरपि नरकस्मरणेन पुत्रसमवेता-नृतभाषणजन्यदुरितेन मुक्तस्यापि पितुर्नरकं स्यात् । कृतिसमानाधि-करणस्य दुरितस्य पुत्रे सत्त्वात् । भोगसामानाधिकरण्ये तु मुक्ते पितरि दोषरूपसहकार्यभावेन अपूर्वोत्पत्तिप्रसक्तेरभावान्नातिप्रसङ्ग इत्युक्तम् ।
न्यायदीपः
एवमपूर्वस्य कल्प्यत्वं साधनोत्कर्षादिनाऽतिशयितत्वादिकं च समर्थ्येदानीं तस्य कर्तृनिष्ठतां व्युत्पादयितुं परोक्तान्यनिष्ठताव्युत्पादन-प्रकारमनूद्य निराह ।। यत्तु मणावित्यादिना ।। इत्युक्तमित्यन्वयः । अपूर्ववादान्ते ‘‘विहितक्रियया कर्तृगतव्यापारद्वारा कालान्तरभावि फलं जन्यत इत्युत्सर्ग’’ इत्यादिनोक्तमित्यर्थः ।
।। वैधेनेति ।। पितृभोगकामो गयाश्राद्धं कुर्यादित्येवमाद्यरूप-विधिसम्बन्धिना पित्राद्युद्देशेनेत्यर्थः । आपोद्यते कृतिसामानाधिकरण्यं निरस्यत इत्यर्थः ।। फलं स्यादिति ।। कुत इत्यतः फलोत्पादक-सत्त्वादिति भावेनाह ।। पुत्रेति ।।
स्वपक्षे तु नैतद्दोषद्वयमित्याह ।। भोगसमानाधिकरण्ये त्विति ।। दोषेति ।। रागद्वेषाख्यदोषरूपेत्यर्थः ।। नातिप्रसङ्ग इति ।। गयाश्राद्धादि-फलभाक्त्वादिप्रसङ्गो नेत्यर्थः । न चैवं गयाश्राद्धादेः वैफल्यमिति शङ्क्यम् । अदृष्टोत्पत्तौ स्वरूपसतो दोषस्याङ्गस्य वैगुण्येन वैफल्यस्योचितत्वादिति भावः ।
तर्कताण्डवम्
तन्न । पितृभोजकस्य पुत्रगतगयाश्राद्धानृतभाषणादिजन्यापूर्वस्य पितृमुक्तेः प्राक्तनत्वे भोगं विनैव पितृगतब्रह्मसाक्षात्कारेणैव नाशस्य
‘‘एवं है वास्य सर्वे पाप्मानः प्रदूयन्ते’’
इत्यादिश्रुतिसिद्धत्वात्पुत्रगतस्याप्यपूर्वस्य पितृभोजकत्वेन तदीयत्वात् । पराचीनं तु न सम्भवत्येव ब्रह्मसाक्षात्कारानन्तरभावि-कर्मणामश्लेषस्य
‘‘एवंविदि पापं कर्म न श्लिष्यत’’
इत्यादिश्रुतिसिद्धत्वात् । पुत्रकृतानामप्यनृतभाषणादीनां पितृ-भोजकत्वांशे तदीयत्वात् ।
तस्मात् कारीर्यादिजन्यापूर्वस्य कृतिसामानाधिकरण्येऽपि सस्य-जीवेषु पुष्टिरूपफलवद्गयाश्राद्धादिजन्यापूर्वस्य पुत्रगतत्वेपि पित्रादौ तृप्त्यादिकं युक्तम् । ग्रामकामेष्ट्यादौ ग्रामादेरिवान्यसमेवेतस्यापि पितृतृप्त्यादेः पुत्रेणोद्दिष्टतया पुत्रफलत्वात् । एवं जातेष्ट्यादावपि द्रष्टव्यम् ।
।। गयाश्राद्धादिजन्यापूर्वस्य पित्रादिगतत्वनियमभङ्गः ।। ५२ ।।
न्यायदीपः
कृतिसामानाधिकरण्येप्यतिप्रसङ्गं निराह ।। पितृभोजकेति ।। पितृगत-साक्षात्कारनिवर्त्यतोपपादनाय पितृभोजकस्येत्युक्तम् ।
ननु श्रुताव१स्यापि ज्ञानिसम्बन्धिन एव नाश उच्यत इत्यत आह ।। पुत्रेति ।। पराचीनं मुक्तितः पश्चात्तनमित्यर्थः । गयाश्राद्धादिजन्य-मपूर्वमिति योज्यम् । पितृभिः सह मज्जतीत्युक्त्या पुत्रस्यापि भोजकत्वा-त्पितृभोजकत्वांश इत्युक्तम् । कथं व्यधिकरणभोगजनकत्वमपूर्वस्येतिशङ्कां दृष्टान्तोक्त्या परिहन्नुपसंहरति ।। तस्मादिति ।। ग्रामकामेष्टीति ।। ‘‘वैश्वदेवीम् साङ्ग्रहणीं निर्वपेद् ग्रामकाम’’ इति वाक्योक्तेत्यर्थः ।
।। एवं जातेष्ट्यादावपीति ।। ‘‘वैश्वानरं द्वादशकपालं निर्वपे-त्पुत्रेजाते’’ इति विधाय ‘‘य एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवती’’ इति श्रुतपुत्रगतपूतत्वादिफलजनकत्वमिष्टि-कर्तृपितृगतस्याप्यपूर्वस्य युक्तमिति द्रष्टव्यमित्यर्थः ।
।। गयाश्राद्धादिजन्यापूर्वस्य पित्रादिगतत्वनियमभङ्गः ।। ५१ ।।
।। समाप्तः अपूर्ववादः ।।