मणौ तु– आख्यातस्य कृतिरेवार्थो न तु व्यापारः

५३. अथाख्यातस्य मण्युक्तयत्नार्थत्वभङ्गः ।

तर्कताण्डवम्

मणौ तु– आख्यातस्य कृतिरेवार्थो न तु व्यापारः । पचतीत्यत्र पाकानुकूलयत्नस्यैव प्रतीतेः । व्यापारेण यत्नाक्षेपे तु प्रतीतिद्वयानुभवः स्यात् ।

किं च व्यापारत्वरूपगुरुशरीरोपाध्यपेक्षया लघुत्वेन यत्नत्व-जातिरेव प्रवृत्तिनिमित्तम् । शक्तिग्राहकप्रमाणेन लघुनि शक्तिग्रहात् । अचेतने त्वाख्यातो लाक्षणिकः । अन्यथा क्वापि लक्षणा न स्यात् । तस्माल्लडाख्यातं यत्नवाचकं आख्यातत्वाल्लिङाख्यातवदित्युक्तम् ।

तन्न । आख्यातस्य चेतनाचेतनसाधारणधात्वर्थानुकूलव्यापारमात्रे प्रयोगे सत्यपि लाघवमात्रेण कृतित्वस्य प्रवृत्तिनिमित्तत्वकल्पने हि कारणादिशब्देष्वपि कारणत्वरूपोपाध्यपेक्षया सत्ताजातिरेव लघुत्वा-त्तत्र प्रवृत्तिनिमित्तं सत्तारहितसामान्यादौ तु कारणपदं लाक्षणिकमिति स्यात् ।

न्यायदीपः

यच्च मणौ शब्दखण्डान्ते आख्यातवादे उदयनमतमनूद्य भट्टमुखेन दूषयित्वोच्यत इत्यादिना स्वयं सिद्धान्तितं तच्च नेति भावेन तदनूद्य निराह ।। मणौ त्विति ।। यत्नाक्षेपे त्विति ।। व्यापारस्य कार्यत्वात्तेन स्वकारणीभूतयत्नाक्षेपे त्वित्यर्थः । रथो गच्छतीत्यादौ कथमित्यत आह ।। अचेतन इति ।। अन्यथेति ।। यद्यचेतनेप्याख्यातस्य मुख्यार्थलाभाय व्यापारशक्तिकल्पना तर्हि शक्त्यतिरिक्तवृत्त्यन्तरोच्छेदः स्यात् । गङ्गायां घोष इत्यादावपि तीरादिसाधारण्येनैव गङ्गादिशब्दशक्तिग्रहः स्यात् इत्यर्थः ।। प्रयोगे सत्यपीति ।। रथो गच्छति चैत्रो गच्छतीत्यादिप्रयोगे सतीत्यर्थः ।

तर्कताण्डवम्

न च सत्तायाः कारणपदाद्धीरेव नास्तीति वाच्यम् । पचिसमभि-व्याहृताख्यातेन यत्नस्येव सामान्यादीतरत् कारणमित्यत्र सामान्या-दीतरशब्दसमभिव्याहृतकारणपदेन सत्तायाः प्रतीतेः । पचतीत्यादावपि यत्नधीरेव नेति वक्ष्यमाणत्वाच्च ।

यदि च सामान्यादीतरेत्यादावाक्षेपादेव सत्ताधीस्तर्हि पचती-त्यादावपि यत्नधीराक्षेपादित्यस्तु । एवं च प्रतीतिद्वयापादनमिष्टमेव । न च वैपरीत्यं शङ्क्यम् । यत्नस्य सामग्र्यैकदेशभूतकारणमात्रत्वेन स्वजन्यव्यापारानापेक्षकत्वात् । व्यापारस्य च कार्यत्वेन स्वकारण-यत्नाक्षेपकत्वात् ।

न च पचतीत्यादौ यत्नातिरेकेण व्यापारधीरेव नास्तीति न तेन यत्नाक्षेप इति वाच्यम् । यत्नविरामेपि तत्कार्यस्य अधःसन्तपन-रूपधात्वर्थानुकूलस्य शरीरव्यापारस्य सत्त्वकालेपि पचतीति प्रयोगात् । यत्नस्य सत्त्वेऽपि आमवातादिशिथिलीकृतकेबरस्य व्यापाराभावकाले पचतीत्यप्रयोगाच्च ।

न्यायदीपः

यच्च मणौ शब्दखण्डान्ते आख्यातवादे उदयनमतमनूद्य भट्टमुखेन दूषयित्वोच्यत इत्यादिना स्वयं सिद्धान्तितं तच्च नेति भावेन तदनूद्य निराह ।। मणौ त्विति ।। यत्नाक्षेपे त्विति ।। व्यापारस्य कार्यत्वात्तेन स्वकारणीभूतयत्नाक्षेपे त्वित्यर्थः ।

रथो गच्छतीत्यादौ कथमित्यत आह ।। अचेतन इति ।। अन्यथेति ।। यद्यचेतनेप्याख्यातस्य मुख्यार्थलाभाय व्यापारशक्तिकल्पना तर्हि शक्त्यति-रिक्तवृत्त्यन्तरोच्छेदः स्यात् । गङ्गायां घोष इत्यादावपि तीरादिसाधारण्येनैव गङ्गादिशब्दशक्तिग्रहः स्यात् इत्यर्थः ।। प्रयोगे सत्यपीति ।। रथो गच्छति चैत्रो गच्छतीत्यादिप्रयोगे सतीत्यर्थः ।

ननु– प्रयोगप्रत्ययाभ्यां शक्तिग्रहात्कारणपदेन सत्ताया अप्रतीतेः कथं सा कारणपदनिमित्तं स्यादित्याशङ्क्य निराह ।। न चेति ।।

ननु– सामान्यादीतरस्य कारणत्वं न सत्ताभावो युक्तमिति सत्ताया आक्षेपादेन तत्र धीरित्यत आह ।। यदि चेति ।। व्यापाररूपस्या-ख्यातार्थस्य सत्त्वेपि यत्नधीस्तु व्यापाररूपकार्येण स्वकारणीभूतयत्ना-क्षेपादित्यर्थः ।

प्रतीतिद्वयानुभवः स्यादिति प्रागुक्तं दोषं निराह ।। एवं चेति ।। वैपरीत्यमिति ।। यत्न एवाख्यातार्थो व्यापरस्त्वाक्षेपलब्धार्थ इति वैपरीत्यमित्यर्थः । वैषम्यादित्याह ।। यत्नस्यैति ।। सामग्र्यैकदेशेति ।। व्यापाररूपकार्यस्य यत्नमात्रं न सामग्री सत्यपि यत्ने कार्यानुकूलव्यापारा-नुपलम्भात् । किं तु व्यापाररूपकार्यं प्रति या सामग्री तदेकदेशभूत-कारणमात्रं, तथा च कथं तेन कार्याक्षेपः सामग््रया एव कार्याक्षेपकत्वात् । अत एव पद्धतौ कारणं तु समग्रमेव कार्यमनुमापयतीत्युक्तमिति भावः ।

धीरेव नास्तीति वदन्तं प्रति प्रयोगरूपकार्यान्वयव्यतिरेकबला-त्तद्धीरस्तीत्यनुमीयत इति भावेनाह ।। यत्नविरामेति ।। शरीरव्यापारस्य शरीरकृतव्यापारस्य ।

तर्कताण्डवम्

न चाक्षिप्तत्वेनाशाब्दे यत्ने पचतीत्यत्र शाब्दस्य वर्तमानत्व-स्यान्वयः कथमिति शङ्क्यम् । शाब्दवर्तमानत्वान्वितेन धात्वर्थेन वा धात्वर्थानुकूलव्यापाररूपेणाख्यातार्थेन वा वर्तमानत्वविशिष्टस्यैव यत्नस्याक्षेपात् ।

वस्तुतस्तु पचतीत्यादौ यत्नोपि धात्वर्थानुकूलव्यापारत्वेनैव प्रतीयते, न तु यत्नत्वेनेति न यत्नस्याक्षेपोपि ।

न्यायदीपः

यत्नस्याक्षेपपक्षे बाधकमाशङ्कते ।। न चाक्षिप्तत्वेनेति ।। आक्षिप्तत्वेन हेतुना शाब्द इत्यर्थः । शाब्दस्याशाब्देनान्वयो नास्त्येवेत्याह ।। शाब्देति ।। शाब्दंयद्वर्तमानत्वं पचतीत्यादौ ‘‘वर्तमाने लट्’’ इतिविहितलट्प्रत्ययेन प्रतीतं तदन्वितेन पच्यादिरूपधात्वर्थेन वा शाब्दवर्तमानत्वान्वितेन आख्यातार्थेन वेत्यर्थः । एतच्चाभ्युपेत्योक्तमिति भावेनाह ।। वस्तुतस्त्विति ।।

तर्कताण्डवम्

यच्चोक्तं रथो गच्छतीत्यादावाख्यातो लाक्षणिक इति । तन्न । न हि गङ्गाशब्दस्य पूर इवाख्यातस्य यत्ने प्रयोगप्राचुर्यादिना शक्तिः कप्ता । येन तीर इव व्यापारे शक्यसम्बन्धाल्लक्षणा स्यात् ।

तस्माद्धात्वर्थानुकूलव्यापारत्वस्य प्रवृत्तिनिमित्तत्वेन सर्वत्र मुख्यत्वसम्भवे चेतने मुख्यस्त्वचेतने त्वमुख्य इति वृत्तिद्वयकल्पनमयुक्तमिति ।

।। आख्यातस्य मण्युक्तयत्नार्थत्वभङ्गः ।। ५३ ।।

न्यायदीपः

न च मुख्ये सम्भवति गौणार्थत्वं युक्तमिति पूर्वभङ्गे स्वोक्तं समर्थयितुं ‘‘अन्यथा क्वापि लक्षणा न स्यात्’’ इति प्रागुक्तदोषं च निराह ।। यच्चेति ।। यत्तु सुधायां साङ्ख्यपरीक्षायामाद्याधिकरणे ।

‘‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।’’

इत्येतव्द्याख्यानावसरे वृक्षस्तिष्ठतीत्यादौ कर्तृव्यवहारो गौण इति वचनं तत्त्विच्छाधीनकृतिमत्त्वं कर्तृत्वमित्युपेत्य । व्यापारवत्त्वं कर्तृत्वमिति पक्षे त्वविरुद्धमिति ज्ञेयम् ।

।। अख्यातस्य मण्युक्तयत्नार्थत्वभङ्गः ।। ५३ ।।