अनुपसंहारित्वमपि न तावद्व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावः
अनुपसंहारिणोऽव्याप्तावन्तर्भावः ।। ३३ ।।
तर्कताण्डवम्
अनुपसंहारित्वमपि न तावद्व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावः । २व्याप्त्यभाववत्त्वादित्येतावतैव पूर्णत्वेन शेषवैयर्थ्यात् । साधारणादि-व्यावृत्त्यर्थमिति तु निरस्तम् ।।
किञ्चोपसंहारशब्देन सहचारज्ञानविवक्षायां सहचाराज्ञानस्य स्वरूपसत एवानुमितिप्रतिबन्धकतया त्वन्मते हेत्वाभासत्वमेव न । मन्मते तु व्याप्तिप्रमित्यसिद्धावन्तर्भावः ।।
उक्तं हि सुधायाम् । असिद्धिश्च द्विविधा । स्वरूपतोऽज्ञान-तश्चेति । सहचारविवक्षायां तु विरुद्धोपाधिसाङ्कर्यम् । त्वन्मते विरुद्धेऽप्यसहचारस्यैवोपाधित्वात् ।।
किं च यो निश्चितः यत्र साध्यं तत्र हेतुरिति सहचारस्याभावः । स तु न साक्षाद्दोषः । यत्र हेतुस्तत्र साध्यमिति व्याप्त्यभाव-रूपत्वाभावात् । व्याप्त्यभावव्याप्यतया दोषत्वे चोपाधिवदव्याप्त्यु-न्नायक एव स्यादित्युक्तम् । यश्च दोषः यत्र हेतुस्तत्र साध्यमिति सहचारस्याभावः । स तु हेतुमति साध्याभावात्मकत्वादव्याप्तिरेव । न हि साध्याभाववति हेतुसत्त्वमेव व्यभिचारः । न तु हेतुमति साध्याभाव इति युक्तम् । द्वयोरपि हेतुसाध्याभावसामानाधिकरण्य-रूपव्यभिचारात्मकत्वाविशेषात् ।।
नापि केवलान्वयिधर्मावच्छिन्नपक्षताकत्वमनुपसंहारित्वम् । अनित्यो घटः घटाकाशोभयवृत्तिद्वित्वाश्रयत्वादित्यादि तु विरुद्धमेवेति वाच्यम् । उत्तीर्णानुपसंहारित्वावस्थे सर्वमभिधेयं प्रमेयत्वादिति सदनुमाने तत्प्रतिसन्धानेऽप्यनुमित्यप्रतिबन्धात् । द्रव्यगुणकर्म-सामान्यविशेषसमवायाभावाः अनित्याः वस्तुत्वादित्याद्यसदनुमाने तदप्रतिसन्धानेऽप्यनुमितिप्रतिबन्धाच्च ।।
ननु सन्दिग्धसाध्यवन्मात्रवृत्तित्वं अनुपसंहारित्वम् । अस्यां दशायामसाधारणोऽप्यनुपसंहारि चेत् । तथाऽप्यसाधारणप्रस्तावोक्त-रीत्या तर्कानवतारदशायां तर्काभावादेव सन्दिग्धाव्याप्तेः । तदवतार-दशायां तु न दोषः ।।
यद्वाऽनुपसंहारिणि सर्वस्यापि पक्षत्वेनान्वयव्याप्तेर्व्यतिरेकव्याप्तेर्वा ग्रहणासम्भवाद्व्याप्तिप्रमित्यसिद्धावन्तर्भावः । यद्वाऽसाधारणे उक्तरीत्या मित्रातनयत्वादिरिव पक्ष एव साध्यसन्देहात्सन्दिग्धाव्याप्तः ।।
एतदेवाभिप्रेत्योक्तं पद्धतौ । सर्वं क्षणिकं सत्त्वादित्ययमप्युभय-सम्बन्धाभावादव्याप्तावन्तर्भूत इति ।।
केचित्तु सर्वं क्षणिकं सत्त्वादित्यत्र पक्ष एव साध्याभावेनैव सम्बन्धावगमात् । सर्वमनित्यं सत्त्वादित्यादौ तु पक्ष एव साध्या-भावेनापि सम्बन्धावगमादव्याप्तः । सर्वमभिधेयं प्रमेयत्वादिति तु सदनुमानमेवेत्याहुः ।।
एतेनाव्याप्तिं प्रत्युपजीव्यत्वादनुपसंहारित्वमेव दोष इत्यव्याप्त्य-ज्ञानदशायामनुपसंहारित्वमपि दोष इति च निरस्तम् । त्वदुक्त-लक्षणत्रये आद्यस्य निष्कर्षे स्वयमेवाव्याप्तिरूपत्वात् । द्वितीयस्य स्वतो दोषत्वाभावात् । तृतीयस्य च स्वयमेव सन्दिग्धा-व्याप्यत्वात्१ ।।
न्यायदीपः
मणौ हि व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावः यत्र स हेत्वभिमतोऽनुप-संहारी, केवलान्वयिधर्मावच्छिन्नपक्षको वेति लक्षणद्वयमुक्तम् । तत्राद्यं तावदपाकरोति– न तावदिति । व्याप्तिग्रहस्यानुकूलो य एकस्मिन् धर्मिण्युप-संहारः सहचारग्रहः तदभाव इत्यर्थः । पक्षे सन्देहरूपसहचारग्रहसत्त्वेन तदभावोऽसम्भवीत्यतो व्याप्तिग्रहानुकूलेत्युक्तम् । तादृशस्तु सहचारनिश्चय इति भावः । १व्याप्त्यभावादिति । व्याप्त्यभावो यत्र सोऽनुपसंहारीत्ये-तावता पूर्णत्वे व्याप्तिग्रहानुकूलैकधर्मिसहचारग्रहाभाव इत्येतावन्न वाच्य-मित्यर्थः । साधारणासाधारणविरुद्धबाधादावपि व्याप्त्यभावोऽस्तीत्यतिव्याप्ति-निरासायैवं विन्यास इत्यत आह– साधारणेति । दूषकताबीजैक्ये तद्व्यावृत्तेरेवायोगादित्युक्तत्वान्निरस्तमित्यर्थः ।।
ननु व्याप्त्यभावस्य दूषकताबीजत्वे स्यादेवं । न चैवम् । किन्तूक्त-रूपोपाधिरेवेत्यतः एवमपि विरुद्धसाङ्कर्यमेवेति वक्तुमाह– किञ्चेति । उपसंहारशब्देन सहचारज्ञानग्रहे तदभावस्य सहचारज्ञानाभावरूपत्वात् सहचार२ज्ञानस्येत्युक्तम् । पक्षधराद्युक्तमेवाह– हेत्वाभासत्वमेव नेति । अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वं वा, ज्ञायमानं सत् यदनुमितिप्रतिबन्धकं तत्त्वं वा हेत्वाभासत्वमित्युक्तेरिति भावः । विरुद्धेति । यत्त्वज्ञायमानदशायां सद्धेतावतिव्याप्तिनिरासाय साध्यसहचारनिश्चयविरोधि-३हेत्वाभासतोपाधित्वं विवक्षितं चेदपि विरुद्धेऽतिव्याप्तमित्यतः स्वसाध्य-सिद्ध्यनुकूलव्याप्तिग्रहानुकूलसहचारत्वावच्छिन्ननिश्चयविरोधिहेत्वाभासतो-पाधित्वस्य विवक्षितत्वात् । विरुद्धस्य व्यतिरेकसहचारनिश्चयाविरोधित्वान्न तत्रातिव्याप्तिरिति । तन्न । एतदज्ञानेऽपि व्याप्त्यभावज्ञानमात्रेणानुमिति-प्रतिबन्धात् । दूषकताबीजैक्ये विरुद्धव्यावृत्तेरेवायोगादिति ।।
यद्वा अस्त्वेवं क्लेशेन विरुद्धासाङ्कर्यं तथाऽपि न पृथग्दोषत्वमित्याह– किञ्चेति । व्याप्तिग्रहानुकूलसहचाराभावोऽनुपसंहारित्वमित्यत्र यत्र साध्यं तत्र हेतुरित्येवंरूपसहचारस्याभावो अभिमतः उत यत्र हेतुस्तत्र साध्य-मित्येवंरूपसहचारस्याभावः । आद्य आह– य इति । यो निश्चितोभाव इत्यन्वयः । कस्येत्यतो यत्रेत्यादि । यद्यपि व्याप्तिग्रहानुकूलेत्युक्तत्वादस्य चातादृशत्वान्नास्य कल्पस्यावतारः तथापि सम्भवमात्रेण वा कृतकत्वा-नित्यत्वयोरेवमपि सहचारो व्याप्तिग्रहानुकूल एवेति वदन्तं प्रति वाऽस्यावतार इत्यदोषः । इति व्याप्त्यभावरूपत्वाभावादिति । तथा च परामर्शविषया-भावत्वाभावाद्दोषत्वमेव न स्यादिति भावः । उक्तमिति । पूर्वभङ्गान्त इत्यर्थः । यश्च दोष इति अभाव इत्यस्य विशेषणम् । अव्याप्तिरेवेति । अविनाभावो हि व्याप्तिः । साध्येन विनैव सत्त्वे कथं नाव्याप्तिः । भवत्येयाव्याप्तिरित्यर्थः । ननु साध्याभावसामानाधिकरण्यस्य व्यभिचारतया सैवाव्याप्तिः साध्याभावस्य हेतुसामानाधिकरण्यस्य कथं व्यभिचारता । येनाव्याप्तिः स्यादित्यत आह– न हीति ।।
मण्युक्तं द्वितीयलक्षणमपि निराह– नापीति । अनुपसंहारविशेषे लक्षणमिदमव्याप्तमित्यतो मण्युक्तदिशा लक्ष्यबहिर्भावेन निराह– अनित्यो घट इति । अन्वयव्यतिरेकव्यभिचारेणैतज्ज्ञानस्यानुमित्यप्रतिबन्धकतया ज्ञायमानत्वे सत्यनुमितिप्रतिबन्धकत्वरूपोक्तहेत्वाभासतोपाधित्वाभावा-द्धेत्वाभासत्वमेव नेति भावेन व्यभिचारावाह– उत्तीर्णेति । बहुव्रीहिः । १विपक्षव्याघातादितर्कबलेनेति भावः । तदप्रतिसन्धानेऽपीति । अत्र पक्षतावच्छेदकस्याकेवलान्वयित्वेन केवलान्वयिधर्मावच्छिन्नपक्षताकत्व-प्रतिसन्धानस्यात्रानुदयादिति भावः । यथाश्रुतमूलस्य तद्व्याख्यातृविवक्षितं लक्षणमुक्तदोषपरिहाराय शङ्कते– नन्विति । उत्तीर्णावस्थेऽनुमाने सन्देहाभावेन सन्दिग्धसाध्यवृत्तित्वं नास्तीति तत्र तदनुसन्धानस्यैवायोगेन नान्वय-व्यभिचारः । द्रव्यगुणेत्यादौ च सन्दिग्धसाध्यवन्मात्रे पक्षे हेतोर्वृत्तिमत्वेन तत्र तदनुसन्धानसम्भवेन तेनैवानुमितिप्रतिबन्धान्न व्यतिरेकव्यभिचारोऽपीति भावः । नन्वेवमपि सर्वमभिधेयं मेयत्वादित्यादावनुत्तीर्णानुपसंहारित्वदशायाम-व्याप्तिः । तत्र साध्याभावाप्रसिद्ध्या साध्यसन्देहाभावादिति चेन्न । इदमभि-धेयं न वेत्येवं सन्देहाभावेप्यभिधेयत्वमत्रास्ति न वेत्येवं सन्देहस्य तत्रापि सम्भवादिति भावः । नन्विदं पक्षमात्रवृत्त्यसाधारणेऽतिव्याप्तमित्यत आह– अस्यामिति । सन्दिग्धसाध्यवन्मात्रवृत्तित्वमनुपसंहारित्वमिति दशायां सन्दिग्धसाध्यवन्मात्रवृत्तित्वानुसन्धानदशायां वेत्यर्थः । न दोष इति । हेत्वाभासत्वमेव नेत्यर्थः । रुचिदत्तादौ तु सन्दिग्धसाध्यवन्मात्रवृत्तित्वज्ञाने सत्यपि शब्दाद्व्याप्तिग्रहसम्भवे तस्य न व्याप्तिधीप्रतिबन्धद्वाराऽनुमिति-प्रतिबन्धकत्वम् । साध्यसामानाधिकरण्यसन्देहस्य योग्यतासंशयपर्यवसन्नतया तत्राप्रतिबन्धकत्वेन तत्सामग्य्राः सुतरामप्रतिबन्धकत्वादिति दूषणमुक्तम् । पूर्वं सन्दिग्धाव्याप्तित्वमुक्तं इदानीं व्याप्तिप्रमित्यसिद्धावन्तर्भावमाह– यद्वेति ।
पूर्वं तर्कानवतारे हेतोरप्रयोजकत्वाहितसाध्यसामानाधिकरण्य१मादाया-व्याप्तावन्तर्भाव उक्तः । अधुनाऽन्यत्र साध्येन तदभावेन वा सहचारा-दर्शनाहितसाध्यसामानाधिकरण्यसंशयमादाय सन्दिग्धाव्याप्तत्वमाह– यद्वाऽसाधारण इति । अनुमानमात्रोच्छेदप्रसङ्गनिरासायोक्तरीत्येति मित्रातनयत्वादेरिवेति चोक्तम् । शाकपाकजत्वादिरूपोपाधिसन्देहाहितसाध्य-सन्देहवद्वृत्तित्वेन मित्रातनयत्वादेर्यथा सन्दिग्धाव्याप्तत्वं तथा साध्यतदभावाभ्यां सहचारादर्शनाहितसाध्यसन्देहप्रयुक्तसन्दिग्धाव्याप्तत्व-मित्यर्थः ।
प्रकारान्तरेणाव्याप्त्यन्तर्भावं परमुखेनाह– केचिदिति । पक्ष एवेति । प्रत्यभिज्ञया घटादेः सर्वस्य स्थायित्वनिश्चयादिति भावः । साध्याभावे-नापीति । क्वचिन्नित्यत्वस्यापि निश्चयादिति भावः । अत्रारुचिबीजं तु साध्यसन्देहवान्पक्ष इति मते सर्वस्य साध्यसन्देहवत्त्वेन तदभावानिश्चया-त्साध्याभावेनैवेति पक्षस्य साध्याभावेनापीति पक्षस्य चायोगात् पक्षे सन्दिग्धसाध्याभावसम्बन्धेन चाव्याप्तत्त्वेऽतिप्रसङ्गादस्मदुक्तदिशा सन्दिग्धाव्याप्तत्वस्यैवापन्नत्वाच्चेति ।
मण्युक्तमेव पृथग्दोषत्वप्रकारमनूद्य निराह– एतेनेति । सर्वसपक्षव्यावृत्तत्वाद्यज्ञानेऽव्याप्तेरज्ञानात्तत्प्रतिसन्धान एव ज्ञायमानत्वा-त्तस्योपजीव्यत्वमिति भावः । तत्र हेतुमाह– त्वदुक्तेति । आद्यस्येति । व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभाव इत्यस्य । अव्याप्तिरूपत्वादिति । किं चेत्यादिना प्रागुपपादनात् । तथा चाभेदे कथमुपजीव्योपजीवकभावः । द्वितीये केवलान्वयीत्यादिनोक्तलक्षणेऽन्वयव्यतिरेकाभ्यां तज्ज्ञानस्यानुमिति-प्रतिबन्धकत्वं व्यभिचारस्योक्तत्वात्तथा च स्वस्यैवादोषत्वे कथं दोषान्तरं प्रति स्वयमुपजीव्यं स्यादिति भावः । तृतीयस्येति । सन्दिग्धसाध्यवन्मात्र-वृत्तित्वलक्षणस्य । तथा चाभेदान्नोपजीव्योपजीवकभाव इति भावः ।।
।। इति अनुपसंहारिणोऽव्याप्तावन्तर्भावः ।। ३३ ।।