अथ मतं अनित्यप्रत्यक्षप्रमात्वमनुमितिप्रमात्वं ..
प्रत्यक्षप्रमामात्रे न सन्निकर्षार्थौ हेतू
अपि च त्वन्मते भ्रमेपि यस्मिन्नंशे..
ननु तर्ह्यनुमितिसमानाधिकरणं वस्तुतः..
न च तत्रापीश्वरनिष्ठं यथार्थवाक्यार्थज्ञानं..
किञ्च योग्यता किं शब्दप्रतिपाद्यस्य ..
तत्र चाद्यपक्षेऽनन्वयप्रमाविरहो योग्यता..
अपिचैवमप्रमायामपि विषयासत्वाविनाभूतविषयाभावप्रमा वा..
न च श्रोतुस्तद्विरहदशायामपीश्वरस्यासंसर्गप्रमास्ति ..
एतेनायोग्यताज्ञानेन शाब्दज्ञानप्रतिबन्धात् ..
अथ मतं अनित्यप्रत्यक्षप्रमात्वमनुमितिप्रमात्वं ..
प्रत्यक्षादिप्रमासुप्रत्येकानुगतगुणभङ्गः
तर्कताण्डवम्
अथ मतं अनित्यप्रत्यक्षप्रमात्वमनुमितिप्रमात्वं शाब्दप्रमात्वं च कार्यतावच्छेदकम् बाधकं विना कार्यमात्रवृत्तित्वात् घटत्ववदितिप्रत्येकमेवप्रयोक्तव्यम् । बाधकं च समाजस्यार्थिकत्वमनुगत-हेत्वभावश्च । तेन नीलघटत्वादौ घटज्ञानत्वादौ च न व्यभिचारः । एतादृशप्रत्यक्षप्रमात्वादिकंप्रत्यनित्यप्रमात्वस्य व्यापकत्वमेवप्रमात्वस्य परतस्त्वम् । एवं च तत्तत्प्रागभावनिरूपितकार्यतया नार्थान्तरम् ।
नचात्राप्यनुगतहेत्वभावो बाधकः ।प्रत्यक्षप्रमायामिन्द्रियार्थ-सन्निकर्षस्यार्थस्य च अनुमितिप्रमायां यथार्थलिङ्गपरामर्शस्य शाब्द-प्रमायां यथार्थवाक्यार्थज्ञानस्य च गुणस्य अनुगमात् । भ्रमे त्वर्थोऽसन्निति न हेतुर्न वा तस्य सन्निकर्ष इति चेदुच्यते ।
न्यायदीपः
अनित्यप्रमात्वं कार्यतावच्छेदकं बाधकं विना कार्यमात्रवृत्तिधर्मत्वात् इति मण्युक्तानुमानेप्रगल्भादिनोक्तानुगतगुणपक्षं निरस्य यज्ञपत्युक्त-प्रमात्वपक्षीयमनुमानं च निरस्य यत्पक्षधरेणैव पक्षान्तरमुक्तं ‘‘यद्यपि यथाश्रुतं साध्यं बाधितं अनित्यप्रमानुगतहेत्वसिद्धेः अत एव स्वरूपासिद्धि-रपि तथाप्यनित्यप्रमात्वमित्यनेन अनित्यप्रत्यक्षप्रमात्वादिकमेव विवक्षितं कार्यतावच्छेदकव्यापकत्वमेव साध्यं तादृशकार्यमात्रवृत्तिधर्मव्यापकत्वादिति हेतुरिति वा स्मर्तव्यमिति’’ तदनुरोधेनप्रमामात्राननुगतगुणपक्षमाशङ्कते ।। अथेति ।। मतमिति ।। इतिप्रयोक्तव्यमित्यन्वयः ।। बाधकं विनेति ।। अवच्छेदकान्तरोपपन्नकार्यताश्रयवृत्तित्वस्वावच्छिन्नकार्यताप्रतियोगिककारणासम्भव इत्यादिबाधकं विनेत्यर्थः ।
नित्यवृत्तित्वादिकार्यतावच्छेदकत्वबाधकस्य ज्ञानत्वादाविव नील-घटत्वादावभावात् । विशिष्टहेतोरपि तत्र व्यभिचार इत्यतो विवक्षित-पक्षधराद्युक्तबाधकशब्दार्थोक्त्योक्तदोषं निराह ।। बाधकं चेति ।। समाजस्य मेलनस्य आर्थिकत्वं अवच्छेदकान्तरोपपन्नकार्यताश्रयवृत्तित्वमित्यर्थः ।। अनुगतेति ।। स्वावच्छिन्नकार्यताप्रतियोगिकानुगतहेत्वभाव इत्यर्थः ।। तेनेति ।। बाधकं विनेत्यत्र विवक्षितबाधकाभावरूपविशेषणेनेत्यर्थः ।
एवं जन्यप्रत्यक्षप्रमात्वादेः परतस्त्वप्राप्तावप्यनित्यप्रमात्वस्य तन्न प्राप्तमित्यत आह ।। एतादृशेति ।।प्रमात्वस्य अनित्येति योज्यम् । यद्वा ईश्वरज्ञानप्रामाण्यस्यापि परतस्त्वं प्राप्तमिति भावेनप्रमात्वस्येत्येवोक्तिः ।। एवं चेति ।। अनित्यप्रत्यक्षत्वादेः कार्यतावच्छेदकत्वेनानित्य-प्रमात्वस्य तद्व्यापकत्वे साध्यमाने सतीत्यर्थः ।। बाधक इति ।। स्वावच्छिन्नकार्यतानिरूपितैककारणाभावरूपबाधकसत्वाद्बाधकं विनेत्युक्त-विशेषणासिद्धिरिति भावः ।