एतेन यदुक्तं भासर्वज्ञेन..

भासर्वज्ञोक्तहेत्वाभाससाप्तविध्यभङ्गः ।। ३९ ।।

तर्कताण्डवम्

एतेन यदुक्तं भासर्वज्ञेन– असिद्धविरुद्धानैकान्तिकानध्यवसित-कालात्ययापदिष्टसत्प्रतिपक्षप्रकरणसमा इति सप्त हेत्वाभासाः । तत्रासिद्धविरुद्धौ असिद्धप्रभेदश्च पूर्वोक्तरीत्यैव । पक्षत्रयवृत्ति-र्नैकान्तिकः । साध्यासाधकः पक्ष एव वर्तमानोऽनध्यवसितः । असाधारणानुपसंहारिणावनध्यवसितान्तर्भूतौ । एकत्र तुल्यबलहेतु-द्वयोपनिपातः सत्प्रतिपक्षः । स एव विरुद्धव्यभिचारीत्युच्यते । स्वपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसम इति । तदपि निरस्तम् । असिद्धभेदस्य व्याप्तत्वासिद्धे, विरुद्धादित्रितयस्य चाव्याप्तौ, काला-तीतादित्रितयस्य च प्रतिज्ञाविरोधेऽन्तर्भावस्योक्तत्वात् । व्यधिकरणा- सिद्ध्यादेरदोषत्वस्य चोक्तत्वात् ।।

न्यायदीपः

पूर्वोक्तरीत्यैवेति । आश्रयासिद्धस्वरूपासिद्धव्याप्यत्वासिद्ध-व्यधिकरणासिद्धादिरूपेण प्रभेद इत्यर्थः । पक्षत्रयेति । पक्षसपक्षविपक्ष-वृत्तिरित्यर्थः । व्यतिरेकिणि सद्धेतावतिव्याप्तिनिरासाय साध्यासाधक इत्युक्तिः । एकत्रेति । पक्ष इत्यर्थः । ननु विरुद्धव्यभिचारीत्यपि कश्चि-द्धेत्वाभास इत्याह– स एवेति । त्रिरूप इति । पक्षवृत्तित्वं सपक्षे सत्वं विपक्षाद्व्यावृत्तत्वमित्येवंरूपेण त्रिरूप इत्यर्थः । यथा विमतं मिथ्या दृश्यत्वात् शुक्तिरूप्यवत्– विमतं सत्यं दृश्यत्वात् ब्रह्मवदिति । पक्षद्वये त्रिरूपत्वं च प्रतिपक्षे १तुल्यत्वमिवाभिमानिकम् । अतो नासम्भव इत्युक्तं प्राक् ।।

।। भासर्वज्ञोक्तहेत्वाभाससाप्तविध्यभङ्गः ।। ३९ ।।