एवं द्वन्द्वेपि न लक्षणा

७७. अथ द्वन्द्वे साहित्ये लक्षणाभङ्गः

तर्कताण्डवम्

एवं द्वन्द्वेपि न लक्षणा । तथाहि– यद्यपि चार्थमात्रे द्वन्द्व उक्तः । तथापि धवं छिन्धि खदिरं चेति समुच्चये, भिक्षामट गां च पश्यसि चेदानयेत्यन्वाचये, च न समासः । तत्र द्वयोः कर्मकारकयो-रन्योन्यनिरपेक्षयोरेव क्रियान्वयेन व्यपेक्षालक्षणसामर्थ्याभावात् । तत्रोभयत्र क्रियान्वयस्योद्देश्यत्वे समुच्चयः । एकगतस्यैवोद्देश्यत्वे-न्वाचयः ।

न्यायदीपः

।। एवमिति ।। यथा तत्पुरुषादौ तथेत्यर्थः । द्वन्द्वार्थं निष्कृष्य दर्शयन् न लक्षणेत्युक्तं व्यनक्ति ।। तथाहीत्यादिना ।। चार्थमात्र इति ।। ‘‘चार्थे द्वन्द्व’’ इति पाणिनिसूत्रे समुच्चयान्वाचयेतरेतरयोगसमाहाररूपार्थ-चतुष्टयसाधारण्येन चशब्दार्थे द्वन्द्व उक्तः द्वितीयस्य द्वितीयपादे । तथाप्यर्थद्वये समासस्तावन्नास्ति ।

अन्यत्रार्थद्वये हेतूक्त्या व्यनक्ति ।। तथापीत्यादिना ।। सामर्थ्या-भावादिति ।। ‘‘समर्थः पदविधिः’’ इत्यन्योन्यसाकाङ्क्षत्वरूपसमर्थयोरेव समासविधानादिति भावः, समुच्चयान्वाचययोः को भेद इत्यत आह ।। तत्रेति ।।

तर्कताण्डवम्

धवखदिरौ छिन्धीति इतरेतरयोगे पाणिपादमित्यादिसमाहारे चान्योन्यसापेक्षयोरेव क्रियान्वयात्समासः । तत्र धर्मिप्राधान्ये इतरेतर-योगः, साहित्यरूपधर्मप्राधान्ये तु समाहारः ।

तत्र न तावदितरेतरयोगद्वन्द्वे लक्षणा । शक्ययोर्धवखदिरयोरेव क्रियान्वयात् ।

न्यायदीपः

अर्थद्वये च समासं हेतूक्त्याह ।। धवखदिराविति ।। यद्यप्यन्यतरेणापि छिदिक्रिया१निवृत्तिरस्ति । तथापि विवक्षितस्योभयकर्मकछेदनस्यान्यतरेणा-सिद्धेस्तादृशक्रियायामन्योन्यसापेक्षत्वमस्तीति भावः । यत्त्वैककस्य पदस्य पदद्वयार्थ२वाचकत्वात्समुच्चयस्थे न समास इति । तन्न । समासस्थेपि तदभावस्याग्रे व्यक्तत्वात् ।

एवमुपयुक्तमुक्त्वा प्रकृतमाह ।। तत्र न तावदिति ।। समाहारेपि वक्ष्याम इति तावच्छब्दः । शक्ययोः– शक्तिविषययोः ।

तर्कताण्डवम्

अत्र मीमांसकाः–

इतरेतरयोगद्वन्द्वे धवखदिरौ प्रत्येकं न विभक्त्यर्थद्वित्वान्वय-योग्यौ । न वा तत्र साकाङ्क्षौ । एकत्र द्वित्वाभावात् ।

यद्यपि द्वित्वस्य व्यासज्यवृत्तित्वेनैकाश्रितत्वमपि, तथापि नैकत्र विश्रान्तिः । यत्र च विश्रान्तिस्तत्रैवाकाङ्क्षादि । अन्यथैकत्रापि द्वौ बहव इति स्यात् । अतो द्वन्द्वे पदशक्यस्य धवत्वादिनोपस्थितस्य धवादेर्न प्रत्येकं द्वित्वान्वयबोधः । बोधे वा धवद्वयस्य खदिरद्वयस्य च धीः स्यात् ।

तस्मात्सहितावस्थमुभयं द्वित्वान्वययोग्यं तत्साकाङ्क्षं चेति सहितयोर्धवखदिरयोरुपस्थितये धवपदे लक्षणा प्राथम्यात् ।

न चैवं वृत्तिद्वयापत्तिः । दध्युपघातकत्वेन रूपेण काकस्येव सहितत्वेन रूपेणे धवस्यापि लक्ष्यत्वात् । न चैवं खदिरपदवैयर्थ्यम् । तेन विना साहित्याश्रयस्य खदिररूपस्य द्वितीयविशेषस्यासिद्धेः । खदिरपदाभावे हि लक्षणाविरहेण धवद्वयधीः स्यात् ।

तस्माद्द्वन्द्वे साहित्ये लक्षणेति ।

न्यायदीपः

षष्ठाद्यपादीयपञ्चमनये क्षौमेवसानाविति वाक्यचिन्ताप्रस्तावे तन्त्ररत्ना-द्युक्तं मणौ पूर्वपक्षदशायामुक्तं च, निष्कृष्य स्पष्टमाह ।। इतरेतरेति ।। तत्रेति ।। द्वित्वान्वये । आकाङ्क्षादीत्यादिपदेनान्वययोग्यता ग्राह्या ।

।। अन्यथेति ।। द्वित्वविश्रान्त्यनधिकरणेप्याकाङ्क्षादिसत्त्व इत्यर्थः ।। वृत्तिद्वयेति ।। धवपदं शक्त्या धवरूपमर्थं लक्षणया धवसाहित्य-मुपस्थापयतीति वाच्यत्वादिति भावः ।

।। दधीति ।। काकेभ्यो दधि रक्ष्यतामित्यत्रेति योज्यम् ।। न चैवमिति ।। धवपदेनैव सहितयोर्धवखदिरयोर्लक्षणयोपस्थितौ सत्यामित्यर्थः । तदभावे कथं धीः स्यादित्यत आह ।। खदिरेति ।।

तर्कताण्डवम्

अत्राहुः–

न तावद्धवखदिरयोर्युगपदुपस्थित्यर्थमेकस्मिन्धवपदे उभयलक्षणेति युक्तम् । धवशब्दश्रवणजनितसंस्कारसचिवेन खदिरशब्दसन्निकृष्टेन श्रोत्रेण युगपद्गृहीतेन समासेन स्वार्थयोर्धवखदिरयोर्धवत्वादिना युगपदुपस्थितेः ।

अन्यथा वर्णानां क्रमेणाभिव्यक्त्या घटमिति शब्दस्यापि युगपदुप-स्थितिर्न स्यात् ।

नापि द्वित्वान्वयबोधार्थं साहित्ये लक्षणा । इन्द्रियसन्निकृष्टे धवखदिरस्वरूपे इमौ धवखदिराविति प्रत्यक्षेणेव विभक्त्यापि धवादि-शब्दोपस्थापिते धवादिस्वरूपे साहित्याज्ञानेपि द्वित्वबोधनात् । न हि प्रत्यक्षस्थले क्रियान्वये तुल्यद्वारत्वादिरूपसाहित्यमस्ति । ज्ञायते वा ।

न्यायदीपः

।। अत्राहुरिति ।। तार्किका इत्यर्थः । अत्रोच्यते इत्यादिना मण्याद्युक्तं निष्कृष्यानुवदन्किं युगपदुपस्थित्यर्थं लक्षणोत द्वित्वान्वयबोधार्थं यद्वा द्वित्वान्वययोग्यतावच्छेदकरूपेणोपस्थित्यर्थमथ विभक्त्यर्थान्वययोग्यनामार्थ-त्वाद्यर्थं किं वा व्युत्पत्तिवशात् ।

आद्यं प्रत्याह ।। न तावदिति ।। द्वितीयं निराह ।। नापीति ।। दृष्टान्तासिद्धिमाशङ्क्याह ।। न हीति ।। यथा दर्शपूर्णमासयोः स्वर्गाख्य-फलजननेऽपूर्वाख्यद्वारतौल्यरूपं साहित्यं दृष्टम् । न चैवं प्रकृतेस्तीत्यर्थः । आदिपदेन छिनत्तीत्यादिधातूपनीतफलानुकूलसजातीयविजातीयव्यापारप्रचयेन सहैकरूपेण सम्बन्धात्मकं १रूपं वेति गृह्यते ।

तर्कताण्डवम्

किञ्च व्यासज्यवृत्तिद्वित्वान्वयार्थं साहित्यापेक्षा चेत् साहित्य-स्यापि व्यासज्यवृत्तित्वात्तदन्वयार्थं तादृश्यधर्मान्तरापेक्षेत्यनवस्था । एवं घटमानयेत्यादावप्येकत्वान्वयार्थमेकमात्रवृत्तिधर्मलक्षणास्यात् ।

यद्यप्येकमात्रं द्वित्वान्वयायोग्यमिति न तत्र द्वित्वधीः । तथाप्येकत्वद्वयाधिकरणं द्वित्वान्वययोग्यमेव ।

ननु– तथापि शाब्दी अन्वयधीर्योग्यतावच्छेदकरूपेणोपस्थित एव भवति साहित्यमेव द्वित्वान्वययोग्यतावच्छेदकमिति चेन्न ।

योग्ये उपस्थिते शाब्दान्वयबोधसम्भवेऽवच्छेदकरूपेण इत्यस्याधि-कत्वात् । अन्यथा साहित्यान्वययोग्यतावच्छेदकं द्वित्वमित्यपि सुवचत्वादन्योन्याश्रयः स्यात् ।।

न्यायदीपः

बाधकोक्त्यापि न साहित्यलक्षणा युक्तेत्याह ।। किञ्चेति ।। अथैकत्रापि द्वौ बहव इति स्यादित्युक्तदोषमनूद्य निराह ।। यद्यपीति ।।

द्वित्वान्वयार्थं साहित्यापेक्षावश्यम्भाविनीति तृतीयपक्षमाशङ्क्य निराह ।। नन्वित्यादिना ।। तथापीति ।। प्रत्यक्षस्थले साहित्याज्ञानेऽपि द्वित्वान्वयबोधसम्भवेपीत्यर्थः ।

तर्कताण्डवम्

नन्वेवमपि– विभक्त्यर्थान्वये नामार्थत्वं तन्त्रम् । पदार्थान्तरान्वये तु पदार्थत्वम् । धवखदिरस्वरूपद्वयं च न नामार्थः । मिलिते धवादि-शब्दे प्रातिपदिकत्वरूपस्य १नामत्वस्य तदधीनपदत्वस्य चाभावात् । एकैकेन धवादिशब्देनोभयाबोधनात् ।

अतो द्वित्वान्वयक्रियान्वययोर्निर्वाहकनामार्थत्वपदार्थत्वयो-र्निर्वाहाय धवपदे उभयलक्षणेति चेन्न । पदार्थत्वं हि वृत्त्या पदोप-स्थाप्यत्वम्, पदतात्पर्यविषयत्वं वा । एवं नामार्थत्वमपि । न तु वृत्त्या एकपदोपस्थाप्यत्वादिकं तत् । एकपदस्याधिकत्वात् । विद्येते च धवादिस्वरूपयोः तत्तन्नामपदार्थत्वे ।

यदिच द्वन्द्वादन्यत्र दर्शनमात्रेण द्वन्द्वेप्ये२कस्यैव नामाद्यर्थस्य विभक्त्याद्यर्थान्वयः । तर्हि वृक्षमित्यादावखण्डेर्थे विभक्त्याद्यर्थान्वय-दर्शनात्कुम्भकार औपगव इत्यादावप्यखण्डे तदन्वयः स्यात् ।

एवमौपगवादौ प्रातिपदिकान्तरार्थानवच्छिन्ने प्रत्ययार्थे तद्दर्शना-द्राजपुरुष इत्यादावपि तदनवच्छिन्नेऽर्थे स स्यात् । तत्पुरुषे राजोप-लक्षिते पुरुषे तद्दर्शनात् कर्मधारयेपि नैल्योपलक्षिते उत्पले स स्यात् ।

यदितु कृत्तद्धितादिसूत्रेण समासादेरपि प्रातिपदिकसञ्ज्ञोक्त्या राजपुरुष इत्यादिकमप्येकं प्रातिपदिकं पदं च । तर्हि तत एव धवखदिरावित्यप्येकं प्रातिपदिकं पदं च ।।

न्यायदीपः

चतुर्थमाशङ्कते ।। नन्वेवमपीति ।। नामार्थत्वमपीति ।। १प्राति-पदिकार्थमित्यर्थः ।। तदधीनेति ।। सति प्रातिपदिकत्वे ‘‘ङ्याप्प्राति-पदिकादि’’त्यधिकृत्य विहितसुप्प््रात्यये सति सुप्तिङन्तं पदमिति पदत्व-विधानादिति भावः । एकैकस्य नामत्वमस्तीत्यत आह ।। एकैकेन चेति ।। एवं नामार्थत्वमपीति ।। वृत्त्या प्रातिपदिकोपस्थाप्यत्वं वा प्रातिपदिकतात्पर्यविषयत्वं वा नामार्थत्वमित्यर्थः ।

।। तत्तन्नामेति ।। तत्तन्नामार्थत्वतत्तत्पदार्थत्व इत्यर्थः । नामा-दीत्यादिपदेन पदार्थग्रहः ।। वृक्षमिति ।। वृक्षमानयेत्यादौ ।। अखण्डे तदन्वयः स्यादिति ।। तथा च कृत्तद्धितसमासानां यौगिकत्वं न स्याद्रूढत्वमेव स्यादिति भावः । अतिप्रसङ्गान्तरं चाह ।। एवमिति ।। तद्दर्शनात् ।। विभक्त्याद्यर्थान्वयदर्शनादित्यर्थः ।। स स्यादिति ।। प्रत्ययार्थान्वयः स्यादित्यर्थः ।

ननु समासस्य ‘‘कृत्तद्धितसमासाश्च’’ इति प्रातिपदिकसञ्ज्ञायामेक-प्रातिपदिकत्वेन २प्रातिपदिकान्तरानवच्छिन्नत्वमस्तीत्यतोऽतिप्रसङ्गान्तरमाह ।। तत्पुरुष इति ।। तद्दर्शनात् । प्रत्ययार्थान्वयदर्शनादित्यर्थः ।। पदं चेति ।। एकमित्यनुकर्षः ।। तत एवेति ।। ‘‘कृत्तद्धितसमासाश्च’’ इति समासस्य प्रातिपदिकसञ्ज्ञाकथनादेवेत्यर्थः ।

तर्कताण्डवम्

ननु विभक्तेः पदार्थतावच्छेदकधर्मेण नियतसमानाधिकरण-सङ्ख्याबोधकत्वं व्यत्पन्नं न तु तेन समानाधिकरणमात्रसङ्ख्याबोधकत्वं व्युत्पन्नम् । तथात्वे घटवानय पटं चेत्यत्र घटत्वसमानाधिकरणं द्वित्वं पटेपीति तमादाय द्वित्वान्वयबोधापातात् ।

इह च धवत्वखदिरत्वयोरेव पदार्थतावच्छेदकत्वे द्वित्वं तद्व्याप्यं नेति पदार्थतावच्छेदके साहित्ये लक्षणेति चेत् । विभक्तेर्हि योग्यतादि-मत्प्रकृत्यर्थगतस्वार्थाभिधायकत्वमेव व्युत्पन्नं लाघवात् । न च पटा-वित्यत्र पटपदं प्रकृतिः, द्वन्द्वे तु धवखदिरशब्दौ प्रकृतिभूतसमा-सान्तर्गताविति युक्तौ धवखदिरयोर्द्वित्वाद्यन्वयक्रियान्वयौ ।

एवं येन रूपेण प्रकृत्या स्वार्थ उपस्थापितस्तेनैव रूपेण तस्य विभक्त्यर्थाद्यन्वयो व्युत्पन्नः तथाच तत्पुरुषे उत्तरपदार्थः प्राधान्ये-नोपस्थापित इति तत्र तस्यैव तथैव विभक्त्यर्थान्वयः । द्वन्द्वे तु उभावपि प्राधान्येनोपस्थापिताविति तत्र द्वयोरपि तथैव विभक्त्यर्था-न्वयो युक्तः ।

न्यायदीपः

पञ्चमं पक्षमाशङ्कते ।। ननु विभक्तेरिति ।। नियता व्याप्या तादृश-धर्मसमानाधिकरणा च या सङ्ख्या तद्बोधकत्वमित्यर्थः ।। पटेपीति ।। घटपटावित्यादिप्रयोगान्तरे पटेपि द्वित्वस्य सत्त्वादिति भावः ।। इह चेति ।। द्वन्द्वस्थल इत्यर्थः ।

नैवं व्युत्पत्तिः, किं त्वन्यथैव, सा चास्ति प्रकृत इति परिहरति ।। विभक्तेर्हीति ।। प्रागुक्तदोषं निराह ।। न च घटाविति ।। प्रकृतिभूत-समासेति ।। ‘‘कृत्तद्धितसमासाश्च’’ इति सूत्रेण समासस्य प्रातिपदिक-सञ्ज्ञोक्तेः समासादेव च ‘‘ङ्याप्प्रातिपदिकात्’’ इति सुब्विभक्त्युत्पत्त्या तां प्रति तस्य प्रातिपदिकापरपर्यायप्रकृतित्वात्प्रकृतिभूतेत्युक्तम् । साहित्यलक्षणां विनैव प्रकारान्तरेण विभक्त्यर्थक्रियापदार्थान्वयोपपत्तिमाह ।। एवमिति ।।

तर्कताण्डवम्

किञ्च ‘‘चन्द्रे कलङ्कः सुजने दरिद्रता’’ इत्यादौ द्वन्द्वाभावेन साहित्येनानुपस्थितेषु प्रत्युत प्रत्येकमेकत्वेन उपस्थितेषु कलङ्कादिषु कथयन्तीत्याख्यातोक्तबहुत्वान्वयो यदा तदा किं वक्तव्यं द्वन्द्वे प्रत्येकमेकत्वेनाुपस्थितयोःन धवखदिरयोर्द्वित्वान्वयः ।

न च साहित्यं विना धवखदिरयोः प्रत्येकमन्वये धवं खदिरं च छिन्धीत्यत्रेव वाक्यभेदः स्यादिति वाच्यम् । द्वित्वस्य व्यासज्य-वृत्तित्वेन तयोस्तेन सह प्रत्येकमनन्वयात् । क्रियायास्त्वव्या सज्यवृत्तित्वेन साहित्यलक्षणापक्षेपि प्रत्येकमन्वयात् ।

यदितु साहित्याश्रयत्वेनैकीकृते छिदाजातीयान्वयादेकवाक्यता तर्हि द्वित्वाश्रयत्वेनैकीकृते तज्जातीयान्वयादेकवाक्यतेति समम् ।।

न्यायदीपः

कैमुत्येनापि विभक्त्याद्यर्थान्वयमाह ।। किं चेति ।।

‘‘चन्द्रे कलङ्कः सुजने दरिद्रता विकासलक्ष्मीः कमलेषु चञ्चला ।

मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम्’’ ।।

इत्यादावित्यर्थः ।

उक्तार्थे बाधकमाशङ्क्य निराह ।। न चेति ।। अन्वय इति ।। विभक्त्याद्यर्थ द्वित्वाद्यन्वये सतीत्यर्थः । प्रत्येकं विभक्त्यार्थान्वयाद्वाक्य-भेदश्चोद्यतेऽथ क्रियान्वयात् ।

आद्य आह ।। द्वित्वस्येति ।। अन्त्य आह ।। क्रियायास्त्विति ।। साहित्यलक्षणापक्षेपीत्युक्तदोषाभावमाशङ्क्य साहित्यलक्षणाभावपक्षेपि स दोषो नेत्याह ।। यदित्विति ।। तज्जातीयेति ।। क्रियाजातीयान्वया-दित्यर्थः ।

तर्कताण्डवम्

किञ्च चैत्रमैत्रौ गच्छत इत्यत्रैकैकमात्रवृत्तिगमनान्वयार्थं चैत्र-त्वादिना द्वित्वान्वयार्थं च सहितत्वेनोपस्थाप्यत्वाद् युगपद्वृत्ति-द्वयापत्तिः ।

अपिच सहितावस्थे गमनकर्तृत्वाभावाद्गच्छत इत्याख्यातार्थ-सङ्ख्यान्वयो न स्यात् ।

किञ्च लक्षणा न तावत्सहिते । खदिरसहितो धव इतिवदेक-वचनापत्तेः ।

न च द्वन्द्वे साहित्याश्रयः प्रधानम्, साहित्यं त्ववच्छेदकतया गुण-भूतम्, साहित्याश्रयस्य चानेकत्वाद् द्विवचनादिकं युक्तम्, खदिरसहितो धव इत्यत्र तु खदिरः साहित्यं प्रति गुणभूत इति वाच्यम् ।

एवं हि साहित्यस्य लक्ष्यतावच्छेदकत्वेन सहितौ १गच्छतीति धीः स्यात् । न तु चैत्रमैत्रौ गच्छत इति ।

नापि साहित्ये लक्षणा । तस्यैकत्वेन सुतरामेकवचनापत्तेः ।

न च पदवृत्तिवैचित्र्याद् द्वन्द्वे साहित्यं प्रत्युपसर्जनभूताश्रय-गतसङ्ख्याभिधायिनी विभक्तिः, मधुरतरं मधुरतममित्यादौ तरबादेरुप-सर्जनमाधुर्यगतस्वार्थाभिधायित्वदर्शनादिति वाच्यम् । समाहारद्वन्द्वेपि द्विवचनादिप्रसङ्गात् । इतरेतरयोगस्य समाहाराद्भेदाभावापाताच्च ।

न्यायदीपः

१बाधकाभावाच्च न साहित्ये लक्षणा युक्तेत्याह ।। किञ्चेत्यादिना ।। सङ्ख्या२न्वयरूपबाधकमाह ।। अपि चेति ।। न स्यादिति ।। कर्तर्येव तदन्वयादिति भावः । एकवचनापत्तिपरिहारमाशङ्क्य निराह ।। न च द्वन्द्व इति ।।

साहित्यलक्षणापक्षे द्विवचनादियोगं प्रकारान्तरेणाशङ्क्य निराह ।। न च पदवृत्तीति ।। उपसर्जनमाधुर्यगतेति ।। मधुरशब्दो हि माधुर्ययुक्तद्रव्य-वाची । तत्र द्रव्यं गुडादि प्रधानम् । तत्र इदं मधुरमिदम् मधुरमनयोरिद-मतिशयेन मधुरं मधुरतरं इदं मधुरमिदं मधुरमिदं मधुरमेतेषामिदमतिशयेन मधुरं मधुरतममिति ‘‘अतिशायने तमबिष्ठनौ’’ ‘‘द्विवचनविभज्योपपदे तरबीयसुनौ’’ इति सूत्रद्वयविहितातिशयार्थकतरप्ततमपोः प्रत्यययोः गुडादि-द्रव्यनिष्ठं यन्माधुर्यं द्रव्यं प्रति विशेषणतयोपसर्जनभूतं च तदतिशयितमित्येवं रूपेणोपसर्जनमाधुर्यगतस्वार्थाभिधायित्वदर्शनादित्यर्थः ।। समाहारेति ।। तदाश्रयस्यानेकत्वादिति भावः ।

अस्तु समाहारेपि तदाश्रयापेक्षया द्विचनादिकमिति मन्वानं प्रत्याह ।। इतरेति ।। साहित्यस्यापि समाहाररूपत्वेन समाहारस्येव साहित्यस्यापि समस्यमानपदार्थत्वे समाहाराद्भेदो न स्यादित्यर्थः ।

तर्कताण्डवम्

नन्वेवं– धवखदिरौ छिन्दीत्यत्र धातूपनीतफलानुकूलसजातीय-विजातीयव्यापारप्रचयेण सहैकरूप्येण सम्बन्धात्मकं तयोः साहित्यं न प्रतीयेतेति चेत्सत्यम् । द्वित्वान्वयात्प्राङ्न प्रतीयत एव । उत्तर-कालं तु विभक्त्या क्रियापदेन च सम्भूयसंसर्गमर्यादया साहित्यं बोध्यत इति साहित्यं न पदार्थः । नापि पदार्थतावच्छेदकम् । तस्मान्नेतरेतयोगद्वन्द्वे लक्षणा ।

न्यायदीपः

साहित्यस्य लक्षणाया धवादिपदार्थत्वाभावे बाधकमाशङ्क्य निराह ।। नन्वेवमित्यादिना ।। फलेति ।। द्वैधीभावरूपफलानुकूलाः ये सजातीयविजातीया व्यापारास्तत्समूहेनेत्यर्थः ।

।। न पदार्थ इति ।। लक्षणया धवपदार्थो न भवतीत्यर्थः ।। नापीति ।। सहितौ छिन्धीति साहित्यप्रकारेण प्रतीत्यापत्त्या धवत्वादिप्रकारेण प्रतीत्य-भावापातेनावच्छेदकमपि नेत्यर्थः ।

तर्कताण्डवम्

समाहारद्वन्द्वे यद्यपि समाहाररूपं साहित्यं पदार्थः । अत एव तत्रैकवचनम् । तथापि तत्पुरुषप्रस्तावोक्तरीत्या विग्रहस्थसमाहारपदेन वा समासगतसमुदायशक्त्या वा तद्धीरिति न तत्रापि लक्षणा ।

घटाविति सरूपैकशेषे वक्रदन्तश्च कुटिलदन्तश्च वक्रदन्ताविति समानार्थविरूपैकशेषे च लक्षणा प्रसक्तिरेव न । श्रुतस्य घटपदस्यैव घटान्तरेपि वक्रदन्तपदस्य च कुटिलदन्तान्तरेपि शक्तत्वात् ।

पिता च माता च पितराविति भिन्नार्थविरूपैकशेषे तु विग्रहस्थ-मातृशब्देनैव मातृधीरिति न तत्रापि लक्षणेति ।

।। द्वन्द्वे साहित्ये लक्षणाभङ्गः ।। ७७ ।।

न्यायदीपः

नन्वस्त्वेवमितरेतरयोगे समाहारसमासे तु मण्याद्युक्तदिशा लक्षणा वा शक्तिर्वेत्यत आह ।। समाहारेति ।। समाहरणं समाहारो अनेकस्यैकी-करणमिति शाब्दिकोक्तरीत्या समाहाररूपं साहित्यमित्युक्तम् ।

।। समाहारेति ।। पञ्चानां फलानां समाहारः पञ्चफलीत्यादि-विग्रहस्थसमाहारपदेनेत्यर्थः । एकशेषस्थलेपि न मण्याद्युक्तरीत्या लक्षणेत्याह ।। घटाविति ।। सरूपेति ।। घटश्चघटश्चेति विग्रहे घटघटाविति प्राप्तौ ‘‘सरूपापाणामेकशेष एकविभक्तौ’’ इति सूत्रेण समानरूपाणां शब्दानां मध्ये एकस्य शेष उक्त इति सरूपैकशेष इत्युक्तम् ।। समानार्थेति ।। समानार्था-नामपि विरूपाणामेकशेषो वक्तव्यः इत्युक्तैकशेषे चेत्यर्थः ।। भिन्नार्थ-विरूपेति ।। पितामात्रेत्युक्तैकशेष इत्यर्थः ।

।। द्वन्द्वे साहित्यलक्षणाभङ्गः ।। ७७ ।।

।। समाप्तः समासार्थवादः ।।