मुख्यार्थसम्बन्धो वा तं निमित्तीकृत्य वृत्तिर्वा लक्षणा
६४. अथ लक्षणागौण्योर्लक्षणम् ।
तर्कताण्डवम्
मुख्यार्थसम्बन्धो वा तं निमित्तीकृत्य वृत्तिर्वा लक्षणा । तत्सादृश्यं वा तन्निमित्तीकृत्य वृत्तिर्वा गौणी । द्वे अपि रूढारूढभेदेन प्रत्येकं द्विविधे ।
तत्र रूढलक्षणा यथा, मञ्चाः क्रोशन्तीति । अरूढलक्षणा यथा, गङ्गायां घोष इति ।
रूढगौणी यथा, मृद्गवादौ गवादिशब्दस्य । अरूढगौणी यथा, सिंहो देवदत्त इति ।
न तु मण्युक्तरीत्या अशक्योपस्थितिर्वा, शक्यसम्बन्धादशक्या-सदृशान्वयपरोपस्थितिर्वा अशक्योपस्थितिहेतुः शक्यसम्बन्धो वा, अशक्यासदृशान्वयप्रतियोग्युपस्थितिहेतुः स्वशक्यसम्बन्धो वा, लक्षणा ।
चतुर्ष्वपि पक्षेष्वभिप्रेतान्वयपरा स्मृतिरूपोपस्थितिरेव नास्ती-त्युक्तत्वात् ।
न्यायदीपः
शब्दस्य वृत्तिस्त्रेधा, अभिधा लक्षणा गौणी चेति पूर्वं निर्दिष्टाभिधावृत्तिं सप्रभेदं निरूप्य निर्देशक्रमेण लक्षणागौण्योर्लक्षणमाह ।। मुख्यार्थेति ।। परशब्दस्य परत्र वृत्तिहेतुत्वेन प्रसिद्धस्य सबन्धस्य वृत्तिविशेषलक्षणात्वा-योगादरुच्या
‘‘प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।
वृत्तिहेतुरिति ज्ञेयः’’
इत्यनुव्याख्यानसुधयोरुक्त्यनुरोधेनाह ।। तं निमित्तीकृत्य वृत्तिर्वेति ।। वृत्तिरर्थप्रतिपादकत्वम् । एवमग्रेपि ।
आनुमानिकपादीयन्यायविवरणाद्युक्त्यनुरोधेनाह ।। द्वे अपीति ।। गङ्गा-यामिति ।। पावित्र्यसामीप्यादिप्रतिपादनेच्छयैव गङ्गायां घोष इत्यादि-प्रयोगादिति भावः ।
।। सिह्मो देवदत्त इतीति ।। देवदत्ते क्रौर्याद्युपपादनेच्छया तादृश-प्रयोगोक्तिरिति भावः ।। मण्युक्तरीत्येति ।। लक्षणावादे मण्युक्तेत्यर्थः ।
।। अशक्येति ।। शक्त्यविषयस्य पदार्थस्योपस्थितिरित्यर्थः । गौण्या-मतिव्याप्तेर्लक्षणान्तरोक्तिः ।। शक्येति ।। शक्तिविषयपदार्थसम्बन्धा-न्निमित्ताद्या उपस्थितिस्तन्मात्रस्य शक्त्यादावतिप्रसङ्गात् सा किंरूपेत्यत उक्तमशक्येत्यादि । शक्यविषयो यः शक्तिविषयेणासदृशश्चार्थः तन्निरूपि-तान्वयबोधप्रयोजनिकेत्यर्थः । स्वेति बुद्धिस्थोगङ्गादिशब्दो गृह्यते । लक्षणा न त्विति पूर्वेणान्वयः ।। उक्तत्वादिति ।। भट्टाभिमताभिहितान्वयभङ्ग उक्तत्वादित्यर्थः ।
तर्कताण्डवम्
आद्ययोरात्मनिष्ठाया उपस्थितेः शब्दनिष्ठलक्षणात्वायोगाच्च । आद्ये घटशब्दात्कारणत्वेनाकाशोपस्थितौ गौण्यां चातिव्याप्तेश्च ।
द्वितीये शक्येन सदृशे सम्बद्धे च वस्तुनि सम्बन्धस्य विवक्षया या लक्षणा तस्यामव्याप्तेश्च ।
तृतीयचतुर्थयोः शब्दस्य परत्र वृत्तिहेतुत्वेन प्रसिद्धस्य सम्बन्धस्य वृत्तिविशेषलक्षणात्वायोगाच्च ।
गङ्गायां मत्स्य इत्यत्रापि गङ्गाशब्दस्य तीरे शक्तिद्वारक-सम्बन्धस्य१ सत्त्वेन लक्षणापाताच्च ।
एतेन लक्षणास्थले सम्बन्ध एव वृत्तिः शाब्दोपस्थितिहेतुत्वात्, शक्तिवदिति मण्युक्तं निरस्तम् । शक्त्याप्रतिपादकत्वस्यैवाभिधा-वृत्तित्वोक्तेः ।
न्यायदीपः
शक्तिस्मरणवाक्यार्थबोधयोर्मध्ये पदार्थस्मरणमस्तीति न्यायमतरीत्यापि दोषोस्तीति भावेनाह ।। आद्ययोरिति ।। उपस्थितिहेतुत्वादिना केनचि-त्सम्बन्धेनोपस्थितेः शब्दनिष्ठत्वं मन्वानं प्रत्याह ।। आद्य इति ।। यद्वा चतुष्टयसाधारणं तत्राप्याद्यद्वयसाधारणं दोषमुक्त्वा आद्यद्वयेपि प्रत्येकं दोषमाह ।। आद्य इत्यादिना ।।
परमते शब्दं प्रत्याकाशस्य कारणत्वात्कारणत्वेनेत्युक्तम् । कारणता-रूपसम्बन्धेन निमित्तेनेत्यर्थः । अलाक्षणिकत्वाभिप्रायेण प्रयुक्तस्य घटशब्द-स्याकाशे लक्षणाभावादतिव्याप्तेरित्युक्तम् । लक्षणस्यासत्त्वोपपादनाय सदृश इत्युक्तम् ।
।। शक्तिद्वारकेति ।। शक्तिविषयप्रवाहसम्बन्धस्य सत्त्वादशक्य-तीरोपस्थितिहेतुत्वाच्च । तत्रातिव्याप्तिरित्यर्थः । सम्बन्धं निमित्तीकृत्य प्रतिपादकत्वं लक्षणेत्युक्तौ तु न दोष इति भावः ।। सम्बन्ध एवेति ।। शक्यसम्बन्ध एवेत्यर्थः ।
।। शक्तिवदिति ।। ईश्वरसङ्केतरूपसम्बन्धस्यैव शक्तित्वादिति भावः । दृष्टान्ते साध्यवैकल्यमिति भावेनैतेनेत्युक्तं व्यनक्ति ।। शक्त्येति ।। उक्तेरिति ।। रूढ्यादिलक्षणोक्तिप्रस्ताव इत्यर्थः ।
तर्कताण्डवम्
अत एव–
‘‘अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते’’
इति निरस्तम् । अविनाभूते सादृश्यविवक्षया या गौणी तस्यां अतिव्याप्तेः । मञ्चाः क्रोशन्तीत्यादावव्याप्तेश्च । क्रोशनसमये मञ्चपुरुषयोरविनाभावेपि धूमोस्तीतिवाक्यबुद्धधूमजन्यवह्न्यनु-मितावतिव्याप्तेश्च ।
अविनाभावशब्दस्य लक्ष्येण सह परम्परासम्बन्धघटकत्व-विवक्षायां नियतसम्बन्धरूपाविनाभावांशेन सम्बन्धेनैव तद्घटना-न्नियमांशवैयर्थ्यम् ।
न्यायदीपः
एवं मण्युक्तलक्षणचतुष्टयं निरस्य यानि वाद्यन्तरोक्तानि; अभिधेया-विनाभूतप्रतीतिर्वा, परम्परासम्बन्धघटकप्रतीतिर्वा, मुख्यार्थसम्बन्धिनिवृत्तिर्वा, अशक्ये तात्पर्यं वा, अशक्यासदृशे तात्पर्यं वा, वक्त्रभिप्रायो वेति, षड्-लक्षणावृत्तिलक्षणानि तानि क्रमेण निराह ।। अत एवेत्यादिना ।। अभिधेयेति ।। अभिधेयस्य प्रवाहादेरविनाभूतस्य तीरादेः प्रतीतिरित्यर्थः ।
अत एवेति परामृष्टं हेतुं व्यनक्ति ।। अविनाभूत इति ।। वामहस्तो दक्षिणहस्त इत्यादाविति भावः । मञ्चाः क्रोशन्तीत्यादौ लक्षणा न स्यात् स्याच्च शब्दात्प्रतीतेन लिङ्गेनानुमितार्थस्येति सुधोक्तिं विवृण्वानो दोषान्तरमाह ।। मञ्चा इति ।। तत्र मञ्चपुरुषयोरविनाभावाभावादिति भावः ।
ननु तत्रापि तदानीमविनाभावोस्ति तथैव मण्युक्तेरित्यत आह ।। क्रोशेनेति ।। अनुमिताविति ।। तस्याभिधेयधूमाविनाभूतवह्निगोचर-प्रतीतित्वेन तत्र लक्षणसत्त्वादिति भावः ।
ननु– गङ्गादिशब्दस्य तीरादिप्रतीतिजनने न साक्षात्सम्बन्धोस्ति । किन्तु साक्षात्स्वसम्बन्धवदभिधेयसम्बन्धवत्त्वरूपपरम्परासम्बन्ध एव । तथा च शब्दस्याभिधेयाविनभूतप्रतीतिर्लक्षणा इत्यस्य १परम्परासम्बन्ध-प्रतीतिर्लक्षणेत्यर्थः ।
न च लक्षितलक्षणायामव्याप्तिः । तस्यापि परम्परासम्बन्धवत्त्वादिति भावेन द्वितीयमाशङ्क्य निराह ।। अविनाभावशब्दस्येति ।। अविना-भावांशेन अविनाभावशब्दार्थैकदेशेनेत्यर्थः । मुख्यार्थसम्बन्धिनि वृत्तिर्लक्षणे-त्युक्त्यैव सामञ्जस्यादिति भावः ।
तर्कताण्डवम्
अत एव न मुख्यार्थसम्बन्धिनि वृत्तिर्लक्षणा । तस्मिन्नेव सादृश्यविवक्षया या गौणी तस्यामतिव्याप्तेः । नाप्यशक्ये वा २शक्यसादृशे वा तात्पर्यं लक्षणा ।
आद्ये गौण्यामतिव्याप्तेः । अन्त्ये सदृशे सम्बद्धे च सम्बन्ध-विवक्षया लक्षणायामव्याप्तेः । उभयत्रापि गाय्यादि शब्दतात्पर्येष्वति-व्याप्तेश्च ।
नापि स्वार्थसम्बन्धेनेदं पदममुमर्थं बोधयिष्यतीति वक्तुरभिप्रायो लक्षणा । वेदे तदभावात् । लघुत्वाच्छब्दधर्मत्वाच्च सम्बन्धेन बोधकत्वस्यैव लक्षणात्वसम्भवे तद्विपरीतस्याभिप्रायस्य तत्त्वा-योगाच्च । अन्यथा शक्त्येदं पदममुमर्थं बोधयिष्यतीत्यभिप्रायोऽभिधा स्यात् ।
यद्यपि शक्तिं सादृश्यं चानिमित्तीकृत्यार्थप्रतिपादकत्वं लक्षणा, शक्तिं सम्बन्धं वानिमित्तीकृत्य वृत्तिर्गौणीत्यपि वक्तुं शक्म् । तथापि लाघवार्थं प्रतिपादने हेतुकथनार्थं चानुव्याख्याने सबन्धसादृश्यमुखमेव लक्षणमुक्तम् । गामुच्चारयेत्यत्रापि लक्ष्यस्य गोशब्दस्य शक्येन गवा शक्तिरूपः सम्बन्धोस्त्येवेति नाव्याप्तिः ।
न्यायदीपः
लक्षणान्तरं च प्रत्याह ।। अत एवेति ।। अत एवेति परामृष्टदोषं व्यनक्ति ।। तस्मिन्नेवेति ।। मुख्यार्थसम्बन्धिन्येवेत्यर्थः । प्रवाहवत्तीर-स्यापि पावित्र्यादिसादृश्यविवक्षया तीरं गङ्गेति तत्र प्रयुज्यते तत्रेति भावः । या तु मुख्यार्थसम्बन्धिन्यर्थान्तरे वृत्तिरिति प्रमाणलक्षणटीकोक्तिः सा सुधारीत्यैव व्याख्येयेति भावः ।
।। अशक्येवेति ।। तात्पर्यमित्यन्वयः ।। गौण्यामिति ।। सिंहश्चैत्र इत्यादावशक्ये चैत्रे सिंहपदस्य गौणस्य तात्पर्यसत्त्वादिति भावः ।
।। सादृश्य इति ।। चैत्रमैत्रगृहयोः सदृशयोश्चैत्रगृहसम्बन्धमेव मैत्रगृहं न दूर इति वक्तुं चैत्रगृहमेव मैत्रगृहमिति प्रयोगस्तत्राव्याप्तेरित्यर्थः । अशक्यत्वेप्यसदृशत्वाभावादिति भावः ।
।। गाव्यादीति ।। वृत्तिशून्यापभ्रष्टशब्देषु गोपिण्डादितात्पर्यकेष्वित्यर्थः ।। नापि स्वार्थेति ।। शक्यादिस्थले अतिव्याप्तिनिरासाय स्वार्थ-सम्बन्धेनेत्युक्तम् । सादृश्यं न सम्बन्ध इति भावः ।
।। वेदे तदभावादिति ।। वेदापौरुषेयत्वस्य प्रथमपरिच्छेदे समर्थनेन तत्र वक्तुरभावादित्यर्थः ।। तद्विपरीतस्य ।। लघुत्वशब्दधर्मत्वहीनस्येत्यर्थः ।। अन्यथेति ।। गौरवादेरदोषत्व इत्यर्थः ।
एवं स्वमते लक्षणमुक्त्वा परोक्तलक्षणानि च निरस्य स्वोक्तलक्षणे दोष-माशङ्क्य समाधत्ते ।। यद्यपीति ।। वृत्तिरर्थप्रतिपादकत्वम् ।। लाघवार्थ-मिति ।। अभावाघटितत्वादिति भावः ।। प्रतिपादन इति ।। वृत्तिसत्त्व इत्यर्थः ।
नन्वथापि शक्यसम्बन्धं निमित्तीकृत्य वृत्तिर्लक्षणेति लक्षणमव्याप्तमित्यत आह ।। गामिति ।। पिण्डस्योच्चारणकर्मत्वायोगाद्गामिति द्वितीयान्तस्य गोपदस्य गोशब्दमित्यर्थो लक्षणया गृह्यते । तत्र च द्वितीयान्तगामिति पदस्य शक्यो गोपिण्डः तत्सम्बन्धो वाचकत्वरूपोस्त्येव गोशब्दस्येति न तत्र सम्बन्धाभाव इत्यर्थः । पुल्लिङ्गोप्यस्ति गोशब्द इति शक्येन गवेत्युक्तम् ।
तर्कताण्डवम्
तत्र च शक्तिर्न शक्तित्वेन हेतुः । किन्तु शक्य१सम्बन्धित्वेनेति नाभिधात्वम् । जबगडदशमाहेत्यादिलक्षणायामपि वर्णानां प्रत्येकमुच्चारणकर्मत्वात्प्रत्येकं चाक्षराणामेकाक्षरकोशेष्वर्थवत्त्वाव-गमाच्छक्यसम्बन्धोस्त्येव ।
तस्मान्मण्याद्युक्तानि चत्वार्यन्यानि षडिति लक्षणालक्षण-दशकमयुक्तमित्यनुव्याख्यानोक्तमेव लक्षणं युक्तमित्याद्यूह्यम् ।
एतेन गङ्गाशब्देन बोधितस्य पूरस्य तीरबोधकत्वे तीरस्य सप्तम्यर्थान्वयो न स्यात् विभक्तीनां प्रकृत्यर्थान्वितस्वार्थाभिधायि-त्वादिति निरस्तम् । परम्परसम्बन्धेन शब्दस्यैव तीरबोधकत्वात् । अत एवानुव्याख्याने प्रयोगयुक्तपदेन शक्ति सम्बन्धो दर्शितः ।
।। लक्षणागौण्योर्लक्षणम् ।। ६४ ।।
न्यायदीपः
नन्वेवं शक्तिरूप एव चेच्छक्यसम्बन्धस्तर्हि घटपटस्य घट इवाभिधा वृत्तिः स्यादित्यत आह ।। तत्र चेति ।। न शक्तित्वेनेति ।। अभिधायां तु तथैव हेतुरिति भावः ।। एकाक्षरकोशेष्विति ।। ‘‘जं कटीभूषणे पत्न्यामिति, बं कुम्भे वरुणे बिन्दौ’’ इति, ‘‘गं गीते गा च गाधायाम्’’ इति, ‘‘डः पुमान्विषये शम्भौ’’ इति, ‘‘दं क्लीबे पानवैराग्यकलत्रेषु’’ इत्यर्थवत्त्वावगमादित्यर्थः ।। लक्षणालक्षणेति ।। लक्षणावृत्तिलक्षणेत्यर्थः ।
एवं गौणवृत्तेरपि परोदीरितलक्षणानि निरस्यानीति भावेनाह ।। इत्याद्यूह्यमिति ।। तथा हि– गौर्वाहीक इत्यादिगौणवृत्तौ स्वार्थसहचारिणो गुणाः जाड्यमान्द्यादयः लक्ष्यमाणा गोशब्दस्य वाहीके वृत्तौ निमित्तमित्येके ।
‘‘लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता’’ इति ।
तन्न । तथात्वे गौण्या लक्षणातो भेदाभावप्रसङ्गात् । गोशब्दस्य वाहीके वृत्तौ लक्ष्यमाणगुणानां निमित्ततायाश्चोपपत्तिशून्यत्वात् । लक्ष्यमाणगुण-सादृश्याद्गुणान्तरं लक्ष्यते ततो गुणी लक्ष्यते इत्यनानुभविकम् ।
यत्तु– स्वार्थसहचारिगुणाभेदेन परार्थगतगुणा एव लक्ष्यन्त इति तत्तु गुणानां भेदस्याक्षादिमानसिद्धत्वेनापेशलम् । तस्मात्सदृशगुणाश्रयत्वं निमित्तीकृत्य वृत्तिर्गौणीत्येव युक्तमिति । पदार्थस्यैव करणत्वमिति मतोक्त-दोषमनूद्य स्वमते नेत्याह ।। एतेनेति ।। सप्तम्यर्थेति ।। आधारत्व-रूपेत्यर्थः ।। प्रकृत्यर्थेति ।। पदार्थकरणत्वपक्षे तीरस्य प्रकृत्यर्थत्वा-भावादिति भावः ।। परम्परेति ।। शक्यसम्बन्धेनेत्यर्थः ।
।। लक्षणागौण्योर्लक्षणम् ।। ६४ ।।