अथ परशब्दस्य परत्र वृत्तित्वाविशेषात्कथं गौणी लक्षणातो भिन्ना

६९. अथ स्वमते गौण्या लक्षणातो भेदप्रकारः

तर्कताण्डवम्

अथ परशब्दस्य परत्र वृत्तित्वाविशेषात्कथं गौणी लक्षणातो भिन्ना । सादृश्यस्यापि सबन्धत्वात् । न हि संयोगादिरेव सम्बन्धो लक्षणाबीजम् । किं तु विशिष्टधीनिर्वाहकं सम्बन्धमात्रम् । अस्ति चेहापीदमनेन सदृशमिति विशिष्टधीरितिचेन्मैवम् ।

यथाहीदमनेन संयुक्तमिति प्रतीत्या संयोगो विशेषणविशेष्ययोः सम्बन्धतया न सिध्यति, दण्डीत्यत्र दण्डस्येवेह संयोगस्यैव विशेषण-त्वात्, किन्तु संयोगस्य संयोगिना सह समवाय एव सिध्यति, तथोक्तप्रतीत्या सादृश्यस्य धर्म्यादिना सहान्यः सम्बन्धः सिध्यतु । सादृश्यस्य सम्बन्धत्वे किमायातम् ।

न्यायदीपः

यत्तु सुधायां कश्चिदाह– गौणी नाम वृत्तिर्नास्तीत्यादिना लक्षणागौण्योर-भेदमाशङ्क्य भेदसमर्थनं कृतं तद्विवृण्वानः प्रागुक्तामुख्यवृत्तिभेदं तावदाक्षिपति ।। अथेति ।। परशब्दस्येति ।। अन्यवाचकस्येत्यर्थः । सम्बन्धसादृश्य-रूपनिमित्तभेदाद्भेद इत्यत आह ।। सादृश्यस्यापीति ।।

संयोगसमवायादिरूपत्वाभावात्कथं सम्बन्धत्वमित्यत आह ।। न हीति ।। गङ्गायां घोष इत्यत्र संयोगः, यत्र गुणादिना गुण्यादिर्लक्ष्यते तत्र समवायः, १विषयादिना विषयादिर्लक्ष्यते तत्र स्वरूपसम्बन्ध इत्यननुगमा-पत्तेरिति भावः ।

।। यथेति ।। तथेत्यनेनान्वयः ।। विशेषणविशेष्ययोरिति ।। संयोगसंयोगिनोरित्यर्थः ।। सिध्यतीति ।। सम्बन्धतयेत्यनुषङ्गः ।। उक्त-प्रतीत्येति ।। इदमनेन सदृशमिति प्रतीत्येत्यर्थः ।

तर्कताण्डवम्

न हि तन्निरूप्यत्वमेव तत्सम्बन्धत्वम् । दैर्घ्यादेरपि ह्रस्वादि-सम्बन्धत्वापातात् । किं तु तन्निरूप्यत्वव्याप्यं तत् ।।

यदितु सम्बन्धान्तरं विना संयोगादिनैव चैत्रो दण्डी रूपी ज्ञातश्चेति धीवत्सादृश्येनैव सिंहवान्देवदत्त इति धीः स्यात् तदा सादृश्यस्य सम्बन्धत्वं सिध्येदपि । सा तु नास्ति ।।

न्यायदीपः

ननु– सादृश्यस्येदमनेनेत्युभयनिरूप्यत्वादुभयसम्बन्धत्वमित्यत आह ।। न हीति ।। किन्नाम सम्बन्धत्वमिति प्रश्नोत्तरमाह ।। निरूप्यत्व-व्याप्यमिति ।।

ननु– सादृश्यस्य सम्बन्धत्वेन धीप्रकारः इदमनेन सदृशमित्युक्तरूप-प्रतीत्याकारव्यतिरेकेण नोपदर्शयितुं शक्य इतीयमेव सम्बन्धत्वप्रतीतिरित्यत आह ।। यदि त्विति ।। संयोगादिनैवेति ।। संयोगसमवायरूप-सम्बन्धैर्यथाक्रमं दण्डीचैत्रः रूपीघटः ज्ञातो घटः इति धीवदित्यर्थः । सिध्येदपीत्यनास्थोक्तिः । तत्रापि गोमानित्यादिवत् सम्बन्धान्तरस्यापि सम्भवादिति भावः ।

अस्तु १तथैव धिया सम्बन्धत्वसिद्धिरित्यत आह ।। सा त्विति ।। तथाच न सम्बन्धत्वं सादृश्यस्येतिभिन्ननिमित्तत्वाल्लक्षणागौण्योर्भेद इति भावः ।

तर्कताण्डवम्

ननु– सादृश्यमात्रं निमित्तं चेदतिप्रसङ्गः । स्वसम्बन्धिचेदा-वश्यकत्वात्सबन्ध एव निमित्तमस्त्विति चेन्न । सम्बन्धे स्वसंवन्धि-त्व१स्यैव सादृश्येपि स्वसम्बन्धित्वस्या पेक्षायामपि मुख्यार्थसम्बन्ध-स्यानेन हेतुत्वासिद्धेः । अपि चेमौ सदृशावेव न तु सम्बद्धाविति धीर्न स्यात् ।

न्यायदीपः

प्रकारान्तरेण गौण्या अपि सम्बन्धनिमित्तकत्वमाशङ्कते ।। नन्विति ।। अतिप्रसङ्ग इति ।। यत्किञ्चित्सादृश्यस्य सर्वत्र सम्भावत्सर्वस्य शब्दस्य गौण्या सर्वार्थप्रत्यायकत्वप्रसङ्ग इत्यर्थः ।। स्वसम्बन्धीति ।। गौणशब्दवाच्यार्थसम्बन्धिभूतं सादृश्यं निमित्तमित्यर्थः ।

।। सम्बन्ध एवेति ।। तथाचैकनिमित्तकत्वान्न लक्षणागौण्योर्भेद इति भावः ।। २सादृश्येति ।। प्रसङ्गभञ्जकतयोपात्तो मुख्यार्थसम्बन्धो न वृत्तौ निमित्तं भवितुमर्हति । किन्तु सादृश्यमेवातो भिन्ननिमित्तकत्वाल्लक्षणागौण्योर्भेद इति भावेन सदृष्टान्तमाह ।। सम्बन्धे सम्बन्धित्वस्येवेति ।।

यथा लक्षणावृत्तौ न सम्बन्धमात्रं निमित्तम् अतिप्रसङ्गात् किन्तु मुख्यार्थसम्बन्धि३सम्बन्धित्वम् तथापि तत्र मुख्यार्थसम्बन्धित्वं सम्बन्धे विद्यमानं लक्षणावृत्तौ न निमित्तं तथेत्यर्थः ।। अनेनेति ।। अतिप्रसङ्ग-भञ्जनार्थमुपात्तेन मुख्यार्थसम्बन्धित्वरूपसादृश्यविशेषणेनेत्यर्थः । सादृश्यस्य सम्बन्धत्वे बाधकं चाह ।। अपिचेति ।।

तर्कताण्डवम्

किञ्चेमौ सम्बद्धौ सदृशौ चेति प्रतीत्योर्विषयकृतवैलक्षण्यं सर्वसाक्षिकम् । किञ्चैवं यदि सादृश्यं सम्बन्धविशेषस्तर्हि सम्बन्धोऽपि एकदेशस्थत्वात् सादृश्यविशेषः किं न स्यात् । नैवं लौकिकीधीरिति चेत् समं प्रकृतेऽपि ।

तदुक्तं सुधायाम्– तत्किं सादृश्यं सम्बन्धत्वेन प्रतियन्ति लौकिका इति ।।

तस्माद्यत्र मुख्यार्थसम्बन्धो निमित्तं सा लक्षणा । यत्र तु सादृश्यं निमित्तं सा गौणीति ।

।। स्वमते गौण्या लक्षणातो भेदप्रकारः ।। ६९ ।।

न्यायदीपः

ननु– सम्बद्धाविति धीः संयोगादिरूपसम्बन्धविशेषाभावविषया । न तु सम्बन्धसामान्याभावविषया । येन सादृश्यं न सम्बन्धः स्यादिति चेन्न । सामान्यविशेषविषयत्वकल्पकाभावात् । सादृश्यस्य सम्बन्धत्वधीरेव कल्पिकेति चेन्न । तदभावस्योक्तत्वात् । प्रत्युतासम्बन्धत्वधीरेवानुभव-सिद्धेत्याह ।। किं चेति ।। सुधोक्तं बाधकं चाह ।। किञ्चैवमिति ।। तस्यैवार्थः सादृश्यमित्यादि ।

।। एकदेशेति ।। सम्बद्धौ ह्येकदेशे वर्तेते इति एकप्रदेशविशेषे वर्तमानत्वं द्वयोः सम्बद्धयोरन्यतरस्येवान्यतरस्याप्यस्तीति सम्बन्धोपि सादृश्यविशेषः स्यात् । तथाच गौणीवृत्तिरेवास्ति न लक्षणेति वैपरीत्यमपि स्यादिति भावः ।

।। प्रकृतेपीति ।। सादृश्यस्यापि सम्बन्धत्वधीर्लौकिकी नास्तीत्यर्थः ।। तदुक्तमिति ।। आनुमानिकपादे वृत्तिलक्षणोक्तिप्रस्तावे । तत्किमिति काकुः । प्रतियन्ति जानन्तीत्यर्थः । न प्रतियन्तीति यावत् ।

अनुव्याख्यानोक्तदिशा निमित्तभेदेनोपपादितं वृत्तिभेदमुपसंहरति ।। तस्मादिति ।।

।। स्वमते गौण्या लक्षणातो भेदप्रकारः ।। ६९ ।।