अथानुमितिकरणं ज्ञानमुच्यते
अथ तार्किकोक्ततृतीयज्ञाननियमभङ्गः ।। ११ ।।
तर्कताण्डवम्
अथानुमितिकरणं ज्ञानमुच्यते ।
अत्र केचित्–धूमाग्न्योर्महानसादौ व्याप्तिं गृहीतवतः आदौ पक्षे धूमज्ञानम् । अथ व्याप्तिस्मरणम् । अनन्तरमयं धूमो वह्निव्याप्य इति वह्निव्याप्यधूमवानयमिति वा व्याप्तिपक्षधर्मताविशिष्टधूमविषयकं प्रतिसन्धानात्मकं लिङ्गपरामर्शसंज्ञकं तृतीयं ज्ञानं तदेवानुमितिजनक-मित्याहुः ।
तन्न । यत्र हि लिङ्गदर्शनादेव व्याप्तिस्मृतिस्तत्रेयं प्रक्रिया । यत्र तु लिङ्गदर्शनं विनैवादृष्टादिहेत्वन्तरेणाप्तवचनेन वा व्याप्तिस्मृतिस्तत्र द्वितीयमेव लिङ्गदर्शनं व्याप्तिस्मृतिसहितात्सन्निकर्षादेवोक्तप्रति-सन्धानात्मकमुदेष्यति । सोऽयमिति प्रत्यभिज्ञावदिति किं तृतीय-ज्ञानेन ।।
तदुक्तं सुधायाम्– नावश्यंभाविनीयं प्रक्रियेति ।।
न्यायदीपः
‘अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता’ इति युक्तिपादीयानु-व्याख्यानसुधोक्तिं विवृण्वान आह– अथेति । व्याप्तिस्वरूपज्ञानोपाय-तत्प्रतिबन्धकोक्त्यनन्तरमवसरप्राप्तमित्यर्थः । केचित्– तार्किकाः । पक्षधर्मे व्याप्तिविशिष्टज्ञानं तदनन्तरं विशिष्टवैशिष्ट्यज्ञानं वेति परामर्शवादे मण्युक्ते-राह– अयं धूमो वह्निव्याप्य इति वेत्यादि । तृतीयज्ञानमिति । व्याप्तिग्रहदशायां लिङ्गदर्शनं प्रथमं, पश्चात्पर्वतादौ लिङ्गदर्शनं द्वितीयं, व्याप्तिविशिष्टलिङ्गज्ञानं तृतीयमिति तृतीयज्ञानमित्युक्तम् । सन्निकर्षादिति । चक्षुर्धूमादिसम्बन्धादित्यर्थः । तथा च कदाचिद्द्वितीयमपि परामर्शरूपं जातमिति किं तृतीयनियमेनेत्यर्थः ।।
।। इति तार्किकोक्ततृतीयज्ञाननियमभङ्गः ।। ११ ।।