यच्चोक्तं मणौ– गङ्गाशब्देन वस्तुगत्या ..

तर्कताण्डवम्

६८. अथ लाक्षणिकादेः शक्यसम्बन्धित्वादिनैव लक्ष्याद्युपस्थापकत्वसमर्थनम्

यच्चोक्तं मणौ– गङ्गाशब्देन वस्तुगत्या यद्गङ्गासम्बन्धि तीरं तदेव तीरत्वेनोपस्थाप्यते । न तु गङ्गासम्बन्धित्वेन । युगपद् वृत्तिद्वय-विरोधात् । गङ्गासम्बन्धे गङ्गासम्बन्धाभावाच्चेति ।

तन्न । गङ्गायां घोषो मत्स्यश्चेत्यादौ युगपद्वृत्तिद्वयदर्शनात् । छत्रिणो गच्छन्तीत्यत्र छत्र्यछत्रिसमुदायस्येवेहापि गङ्गासम्बन्धितीरस्य लक्षणयैवोपस्थितेश्च । गङ्गायास्तीरेण सह संयोगस्येव संयोगरूपेण स्वसम्बन्धेन सह समवायरूपसम्बन्धस्य सत्त्वाच्च ।।

न्यायदीपः

।। यच्चोक्तमिति ।। लक्षणावाद एव । लक्षणया तीरत्वेनोपस्थितौ तीरान्तरेऽन्वयोऽपि स्यात् । गङ्गातीरत्वेनोपस्थितौ युगपद्वृत्तिद्वयविरोधः । गङ्गोपस्थितेः शक्तिसाध्यत्वादित्याशङ्क्योक्तमित्यर्थः ।। गङ्गासम्बन्धि-त्वेनेति ।। गङ्गासम्बन्धितीरत्वेनेत्यर्थः ।

।। वृत्तिद्वयेति ।। शक्त्या पूरस्य लक्षणया तीरस्य चोपस्थाप्यत्वादिति भावः ।। गङ्गेति ।। पूरे शक्तस्य गङ्गापदस्य पूरसम्बन्धोपस्थापने तत्र शक्तेरभावेन पूरसम्बन्धरूपशक्यसम्बन्धद्वारकलक्षणावृत्तेरेव वाच्यत्वा-त्पूरसम्बन्धे च पूरसम्बन्धाभावाच्च न तदुपस्थापकमित्यर्थः ।

तत्रावृत्तिं मन्वानं प्रत्याह ।। छत्रिण इति ।। उक्तं च पक्षधरेपि । न च वृत्तिद्वयविरोधः गङ्गाया अपि लक्षणयैवोपस्थितेरित्यादि । गङ्गासम्बन्धे गङ्गासम्बन्धाभावाच्चेत्युक्तदोषं निराह ।। गङ्गाया इति ।।

तर्कताण्डवम्

ननु– यथा पदहस्तिनोर्ज्ञानात्पदार्थहस्तिपयोः स्मृतिर्न पदहस्ति-विषया । तथा गङ्गाज्ञानात्तीरस्मृतिर्न स्मारकगङ्गाविषयेति कथं तत्सम्बन्धविषयेति चेन्न ।

पदं न स्मारकमित्युक्तत्वात् । अनुभवश्च न तीरत्वेनैव । किन्तु गङ्गासम्बन्धितीरत्वेन । अन्यथा वक्त्त्रभिप्रेतस्य पावित्र्यादेरसिद्धेः । श्रोतुश्च गङ्गातीर एव प्रवृत्त्याद्यनुपपत्तेश्च ।।

न च लक्षणास्थले गङ्गासम्बन्धस्य सन्निकर्षत्वाच्चक्षुर्घटसंयोग-वद्वृत्तित्वाच्च शक्तिवन्न तज्जन्यधीविषयत्वमिति वाच्यम् । रूपी घट इत्यत्र सन्निकर्षकोटेरपि समवायस्य गौणीस्थले वृत्तेरपि सादृश्यस्य च तज्जन्यधीविषयत्वदर्शनात् । लक्षणायां १चामुख्यत्वेन सजातीय-गौणीरीतिरेव युक्ता । न तु विजातीयाभिधारीतिः ।।

किञ्च सम्बन्धो न वृत्तिः । किन्तु तद्धेतुरेव । घटत्वादिरपि घटादिशब्दवृत्तौ हेतुः ।

एतेन शक्तिस्थले वृत्तिविषयतावच्छेदकस्य घटत्वादेरेव घटादि-शब्दजन्यधीविषयत्वदर्शनादत्रापि गङ्गासम्बन्धस्य शाब्दधीविषयत्वे वृत्तिविषयतावच्छेदकत्वं वाच्यम् । तच्चायुक्तम् । इह गङ्गासम्बन्धस्यैव वृत्तित्वेन स्वस्य स्वविषयतावच्छेदकत्वायोगादिति निरस्तम् । सम्बन्धो न वृत्तिरित्युक्तत्वात् ।

न्यायदीपः

मण्युक्तमेवाशङ्कते ।। नन्विति ।। गङ्गासम्बन्धित्वेनोपस्थितिर्नेत्य-त्रानुभवविरोधश्चेति भावेनाह ।। अनुभवश्चेति ।। अन्यथेत्येतच्छ्रोतुश्चे-त्यत्राप्यन्वेति । प्रकारान्तरेण गङ्गासम्बन्धित्वेनानुपस्थितिमाशङ्क्य निराह ।। न च लक्षणास्थल इति ।।

सन्निकर्षत्वाद्वृत्तित्वाच्चेत्युक्तहेतुद्वयस्य क्रमेण व्यभिचारमाह ।। सन्निकर्षकोटिरिति ।। समवायस्येति ।। अन्यथा रूपीति विशिष्टज्ञानं न स्यात् । सम्बन्धाविषयकत्वात् । न चैकदेशस्य भानेपि सन्निकर्षता-पर्याप्त्यधिकरणस्य न तज्जन्यधीविषयत्वमिति वाच्यम् । हेत्वभावेनाप्रयोज-कत्वात् ।

।। वृत्तेरपि ।। वृत्तिरूपस्यापीत्यर्थः ।। सादृश्यस्य चेति ।। न केवलं समवायस्येति चार्थः । शक्तौ नोपलब्धेयं रीतिरित्यत आह ।। लक्षणायां चेति ।।

वृत्तित्वादिति हेतोरसिद्धिरिति भावेनाह ।। किञ्चेति ।। एतच्च प्रागेव वृत्तिलक्षणोक्तिप्रस्तावे व्यक्तम् । वृत्तिहेतोः शाब्दधीविषयत्वं क्वोपलब्ध-मित्यतो घटत्वादावुपलब्धमिति भावेनाह ।। घटत्वादिरपीति ।। एतेनेति ।। अवृत्तित्वकथनेनेत्यर्थः ।। उक्तत्वादिति ।। वृत्तिलक्षणोक्ति-प्रस्तावे किञ्चेत्यादिपूर्वग्रन्थे चेत्यर्थः ।

तर्कताण्डवम्

आकाशशब्दशक्तिविषयतानवच्छेदकस्यापि शब्दसमवायित्वस्ये-वेहापि वृत्तिविषयतानवच्छेदकस्यापि गङ्गासम्बन्धस्य शाब्दधीविषय-त्वोपपत्तेश्च ।

किञ्च घटत्वादेर्घटादिपदजन्यज्ञाने प्रकारत्वानुभवाद्धि घटादि-पदशक्तिविषयतावच्छेदकता कल्प्यते । कल्पकान्तराभावात् । इहापि गङ्गापदजन्यज्ञाने गङ्गासम्बन्धित्वस्य प्रकारत्वं किं नानुभवसि । येन तस्य गङ्गापदवृत्तिविषयतावच्छेदकतां न कल्पयसि । तथात्वे तीरं गाङ्गमन्यद्वेति कदाचित् सन्देहादि स्यात् ।

न च स्वस्य स्वविषयतावच्छेदकत्वायोगः । तीरगतायाः पदनिष्ठ-वृत्तिविषयताया अवच्छेद्यत्वात् । तीरगतस्य गङ्गासंयोगस्य चावच्छेद-कत्वात् ।।

मास्तु वावच्छेदकत्वम् । तथापि तीरधीरूपफलबलेन लक्षणा-वद्गङ्गासम्बन्धधीरूपफलबलेन गङ्गाशब्दतीरयोः सम्बन्धघटकसम्बन्ध-त्वस्यैव लाक्षणिकशब्दजन्यधीविषयत्वे तन्त्रत्वं कल्प्यताम् ।

यद्वा क्षीरमाधुर्ये क्षीरसम्बन्धमनन्तर्भाव्यैव माधुर्यावान्तरविशेष इव गङ्गातीरेपि गङ्गासम्बन्धमनन्तर्भाव्यैव गङ्गासम्बन्धव्याप्य-संस्थानविशेषो वातिपूततीरत्वादिर्वा तीरान्तरव्यावृत्तोऽसाधारणधर्मो येनयेन पुंसा योयोऽनुभूतस्तस्यतस्य सस वृत्तितज्जन्यज्ञानयोर्विषयता-वच्छेदक इति न कोपि दोषः ।

न्यायदीपः

ननु– न्यायमते आकाशशब्दस्याकाशे शक्तेरेवाभावेन वा ततोऽन्य-स्या१काशरूपधर्मस्याभावेन वास्त्वगत्यात्र भानमिह तु नैवमित्यतोऽवच्छेद-कत्वमेव सोपपत्तिकमाह ।। किञ्चेति ।। तथात्व इति ।। तीरस्य गङ्गा-सम्बन्धित्वेनाननुभवे सतीत्यर्थः । स्वस्य स्वविषयतावच्छेदकत्वायोगादिति प्रागुक्तं निराह ।। न चेति ।।

एवं सम्बन्धस्याभ्युपेत्यावच्छेदकत्वं शाब्दधीविषयत्वमुपपादित-मिदानीमवच्छेदकत्वाभावेऽप्यन्यदेव शाब्दधीविषयत्वनियामकमस्त्वित्याह ।। मास्त्वित्यादिना ।। गङ्गाशब्दात्तीरधीरूपफलबलेन गङ्गाशब्दे लक्षणावृत्तिकल्पनवदित्यर्थः ।

।। गङ्गासम्बन्धधीरूपेति ।। तद्धियः प्रागेवोपपादितत्वादिति भावः ।। सम्बन्धेति ।। गङ्गाशब्दतीरयोः परम्परारूपो हि सम्बन्धः शब्दस्य पूरेण शक्तिरूपः पूरस्य तीरेण संयोगः । तत्र गङ्गातीरयोः संयोगस्तदेकदेश-भूतत्वात्तद्घटको भवतीति गङ्गाशब्दतीरयोः सम्बन्धघटकसम्बन्धत्वस्यै-वेत्युक्तम् ।

ननु सम्बन्धस्यानवच्छेदकत्वादन्यस्यावच्छेदकस्याभावात्कथं वृत्ति-विषयताग्रह इत्यत आह ।। यद्वेति ।। न कोपीति ।। तीरान्तरेन्वय-प्रसङ्गदोषो वा अवच्छेदकाभावदोषो वा, सम्बन्धस्यावच्छेदकत्वकल्पनादोषो वा नास्तीत्यर्थः ।

तर्कताण्डवम्

यद्वा लक्षकपदेन योयोऽर्थो भासते तावत्पर्यन्तः परम्परा सम्बन्धो लक्षणावृत्तिः । अत एव लक्षितलक्षणापि लक्षणैव ।

एवं च रूपसमवायी घट इत्यत्र यथा घटरूपसमवायैः सह संयोगसमवायस्वरूपाणि सन्निकर्षास्तथा तीरेण सह प्रवाहसम्बन्धः सम्बन्धेन सह सम्बन्धसम्बन्धो वृत्तिः । तद्विषयता च तीरे तीरत्वेनेव सम्बन्धे सम्बन्धत्वेनावच्छिद्यते ।

न चानवस्था । तीरसम्बन्धस्येव सम्बन्धसम्बन्धस्य अप्रतीत्या तस्य स्वरूपसत एव वृत्तित्वात् । नहि रूपसमवायी घट इत्यत्र समवायस्वरूपसबन्धोपि सबन्धान्तरेण सम्बद्धो भासते ।

तस्माद्वृत्तिद्वयविरोधः, सम्बन्धे सम्बन्धान्तराभावः, स्मारकस्य स्मार्यकोट्यप्रवेशनियमः, वृत्तेर्वृत्तिजन्यज्ञानाविषयत्वनियमः, वृत्तेरेव वृत्तिविषयत्वावच्छेदकत्वासम्भव, इति बाधकपञ्चकास्योद्धृतत्वाद्गङ्गा-शब्दो गङ्गातीरत्वेनैव तीरार्थोपस्थापक इत्यस्य पञ्चधोपपादितत्वाच्च न कश्चिद्दोषः ।

अत एव–

‘‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

 सादृश्ये चैकवाक् सम्यक् सावकाशा यथेष्टतः’’

इत्यनुव्याख्याने लक्षणानिमित्तस्य स्वातन्त्र्यादेः सम्बन्धस्य गौणीनिमित्तस्य सादृश्यस्य चाभेदश्रुत्यर्थतोक्ता ।

न्यायदीपः

ननु– वृत्त्यविषयस्य सम्बन्धस्य संस्थानविशेषादेर्वा कथं शाब्दधी-विषयतेत्यतो वृत्तिविषयत्वमपि तस्य तदनुगुणलक्षणवृत्तिलक्षणोक्तिपूर्वमाह ।। यद्वेति ।। अत एवेति ।। प्रतीतिपर्यन्तपरम्परासम्बन्धस्य लक्षणावृत्ति-त्वादेवेत्यर्थः । प्राग्विरुद्धा राजान इदानीमेकीभूता इत्यादिर्लक्षितलक्षणा । अन्यथा सा पृथग्वृत्तिः स्यादिति भावः ।

अस्त्वेवं तावता गङ्गासम्बन्धस्य कथं वृत्तिविषयतेत्यत आह ।। एवं चेति ।। संयोगेति ।। यथाक्रमं घटेन संयोगो रूपेण समवायः, समवायेन विशेषणतादिरूपस्वरूपसम्बन्धस्य इत्यर्थः ।। सन्निकर्षा इति ।। चक्षुरादे-रिति योज्यम् । तथेत्यनन्तरं शब्दस्येति शेषः ।

।। प्रवाहसम्बन्ध इति ।। वृत्तिरित्यन्वयः ।। सम्बन्धेनेति ।। संयोगादिरूपप्रवाहतीरादिसम्बन्धेन सह सम्बन्धसम्बन्धः संयोगादि-निरूपितसमवायादिरित्यर्थः ।। न चानवस्थेति ।। सम्बन्धसम्बन्धेनापि शब्दस्य सम्बन्धसम्बन्धसम्बन्धो वृत्तिरिति वाच्यम् । तत्राप्येवमित्य-नवस्थेत्यर्थः ।

।। न कश्चिद्दोष इति ।। १अतिप्रसङ्गादिति वृत्त्यविषयस्य कथं भानमिति दोषश्च नेत्यर्थः । पूर्वोक्तवृत्तिहेतोः शाब्दधीविषयत्वे ज्ञापकमाह ।। अत एवेति ।।

तर्कताण्डवम्

एतेनाखण्डे ब्रह्मणि वेदान्तानां लक्षणेत्यद्वैति मतं निरस्तम् । लक्षकस्य शक्यसम्बन्धित्वेनैवोपस्थापकत्वात् ।

।। लाक्षणिकादेः शक्यसम्बन्धित्वादिनैव

लक्ष्याद्युपस्थापकत्वसमर्थनम् ।। ६८ ।।

न्यायदीपः

ननु वेदानां गुणान्विते भगवति शक्तिरित्युपपादनप्रस्तावे लक्षणादि-वृत्तेर्लक्षणाद्युक्तेरुपयोगाप्रतीतेराह ।। एतेनेति ।। उक्तं चेक्षतिनये

‘‘अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन’’ ।

इत्येतद्व्याख्यावसरे सुधायां न हि तीरं स्वरूपतो गङ्गासम्बन्धित्वेन च प्रमाणतोऽप्रतिपन्नो गङ्गाशब्देन तज्ज्ञाप्यत इत्यादीति भावः ।

।। लाक्षणिकादेः शक्यसम्बन्धित्वादिनैव लक्ष्याद्युपस्थापकत्वसमर्थनम् ।। ६८ ।।