केचित्तु बाधप्रतिरोधौ हेतुदोषावित्याहुः

अथ बाधप्रतिरोधयोः प्रतिज्ञादोषत्वसमर्थनम् ।।२४।।

तर्कताण्डवम्

केचित्तु बाधप्रतिरोधौ हेतुदोषावित्याहुः । तन्न । कुठारे कुण्ठत्वादिदोषाभावेप्याकाशस्य छेदनायोग्यत्वेनैव छेदानुत्पत्तिवत्, चक्षुरादौ काचादिदोषाभावेऽप्यतिदूरत्वाति सामीप्यसमानाभिहार-सादृश्याद्यर्थदोषेणैव प्रत्यक्षप्रमानुत्पत्तिवत्, अग्निना सिञ्च तीत्यादिशब्दे निरभिधेयत्वन्यूनत्वादिशब्ददोषाभावेऽप्ययोग्यत्वरूपार्थदोषादेव शाब्दप्रमानुत्पत्तिवदनित्यो घटः प्रमेयत्वादित्यादौ प्रमेयदोषाभावेऽपि हेतुदोषेणैव दुष्टत्ववच्च, सर्वं तेजोऽनुष्णं प्रमेयत्वादित्याद्यनुमाने हेतुदोषाभावेपि प्रतिज्ञातार्थस्य प्रमाणान्तरविरुद्धत्वेन साधनानर्हत्व-रूपप्रमेयदोषेणैवानुमानिक प्रमानुत्पत्तेर्वक्तव्यत्वात् ।।

किञ्च बाधप्रतिरोधयोरनुमितिग्राह्यविरुद्धविषयत्वेन परमुख-निरीक्षणनिरपेक्षतया प्रत्यक्षादाविवानुमानेऽपि साक्षादेवानुमिति-रूपफलप्रतिबन्धकत्वे सम्भवति बकवन्धन्यायेन करणवैकल्य-सम्पादनद्वारा फलप्रतिबन्धकत्वकल्पनमयुक्तम् । अन्यथा सादृश्याद्यर्थदोषेणैव दूषिते प्रत्यक्षे काचादिकरणदोषः कल्प्येत ।।

अपि च यो हि यन्निष्ठतया ज्ञातः सन्ननुमितिप्रतिबन्धकः स तस्य दोषः । अन्यथा प्रतिज्ञाहान्यादिकमपि हेतुहान्यादिकं स्यात् । नित्यः शब्दः अनित्य इति प्रतिज्ञाश्रिताः स्ववचनविरोधादयः अनित्यो वर्ण इति मीमांसकप्रयुक्त प्रतिज्ञाश्रितापसिद्धान्तादयश्च हेतुदोषाः स्युः । न च बाधादिर्हेतुनिष्ठतया ज्ञातस्तत्प्रतिबन्धकः । प्रतिज्ञानन्तरं हेतूपस्थितेः प्रागेव प्रतीतेन तेनानुमितिप्रतिबन्धात् ।

यदि च पक्षनिष्ठत्वेन प्रमिताभावप्रतियोगिसाधकत्वं बाध इति बाधस्य हेतुनिष्ठत्वेन ज्ञानं कल्प्यते तर्हि पक्षनिष्ठत्वेन प्रमिता-भावप्रतियोगिसाध१कत्वमसिद्धिः व्याप्तिरहितसाध२कत्वमव्याप्तिरित्य सिद्ध्यव्याप्त्योरपि साध्यनिष्ठत्वेन ज्ञानं कल्प्यताम् ।।

अपि च बाधादिः प्रत्यक्षादिसाधारणः । हेत्वाभासत्वे तु हेत्व-साधारणदोषत्वं तन्त्रम् । अन्यथा मनोऽनवधानादिरपि हेत्वाभासः स्यात् ।।

ननु साधारण्येऽपि ज्ञायमानत्वेनानुमितिप्रतिबन्धकतया मनोऽ-नवधानादिविलक्षणत्वाद्बाधादेर्हेत्वाभासत्वमिति चेन्न । त्वन्मतेऽनुमितिप्रतिबन्धकसाध्यसिद्धिं प्रति विषयस्य साध्यस्यापि ३हेत्वाभासत्वात् ।।

ननु प्रत्यक्षादावुत्पन्नस्य ज्ञानस्य बाधेनाप्रमाणत्वमेव बोध्यते दिङ्मोहादौ दर्शनात् । अनुमितौ तूत्पत्तिरेव प्रतिबध्यते इत्यसाधारण्य-मिति चेन्न । तथापि शब्दस्यात्यन्तासत्यपि ४धीहेतुत्वेन लिङ्गाभास-स्यापि तद्धेतुत्वावश्यम्भावात् १मत्साधारण्यापरिहारात् । विषय-बाधेऽविशिष्टे शब्दाभास इत्यस्य च परिभाषामात्रत्वात् । दृश्यते च बाधावतारानन्तरमपि त्वदनुमितमसदित्य२नुवादः ।।

किं च यः करणसामर्थ्यरूपव्याप्तिपक्षधर्मतान्यतरविघटनरूपः स एव हेत्वाभासः । बाधादिस्तु न तथा । करणासंस्पर्शित्वात् ।।

तस्माद्बाधप्रतिरोधौ साधनानर्हत्वरूपप्रमेयदोषत्वात्, साक्षादेवानु-मिति प्रतिबन्धकत्वात्, प्रतिज्ञानन्तरं हेतूपस्थितितः प्रागेव प्रतिभासात्, प्रत्यक्षशब्दसाधारण्यात्, करणसामर्थ्याविघटनत्वाच्च न हेतुदोषौ । किं तु प्रतिज्ञादोषाविति ।।

या तु टीकाकारीता–

अदृष्टे व्यभिचारे तु साधकं तदितिस्फुटम् ।

ज्ञायते साक्षिणैवाद्धा मानबाधे न तद्भवेत् ।।

इत्यनुव्याख्यानस्य प्रत्यक्षबाधेनानुमानस्य व्यभिचारो भवतीति व्याख्या सा व्याप्तिग्रहणदशाभिप्राया । तदा प्रतिज्ञादिविभागाभावात् । अनुमितिदशायां तु बाधो विषयापहारेण प्रतिज्ञादोष एव । अन्यथा प्रमाणविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोध इति प्रमाणलक्षणविरोधात् ।।

याऽपि अनुव्याख्याने–

‘‘विरोधोऽपि त्रिधैव स्यात्प्रतिज्ञार्थविरुद्धता । लिङ्गराहित्य-मव्याप्तिः’’

इति बाधप्रतिरोधयोरसिद्ध्यादिना सह हेतुदोषत्वोक्तिः साऽपि बाधादिनैव दूषिते विषये प्रवर्तमानस्य हेतोरप्यविषयवृत्तित्वं नाम दोषोऽस्तीत्यभिप्रेत्यैव । न तु बाधादिर्न विषयदोष इति ।।

न्यायदीपः

नन्वथापि बाधप्रतिरोधयोरसिद्ध्यव्याप्तिरूपहेतुदोषत्वाभावेऽपि बाधित-विषयत्वादिरूपं पृथगेव हेतुदोषत्वमस्तु तथैव मण्याद्युक्तेः प्रतिज्ञादोषत्वं कथमित्यतस्तत्समर्थयितुमाह– केचित्त्विति । तार्किकादयः ।।

‘‘विरोधोऽपि त्रिधैव स्यात्प्रतिज्ञार्थविरुद्धता ।

लिङ्गराहित्यमव्याप्तिः’’

इत्यादियुक्तिपादीयानुव्याख्यानसुधोक्तं हृदि कृत्वा करणस्या-दुष्टत्वेऽप्यर्थदोषनिबन्धनकार्यानुत्पत्तिस्थले अर्थदोषस्यैव वाच्यत्वादिति सदृष्टान्तमाह– कुठारेति । समानेति । क्षीरनीरादौ माषराशिमष्यादौ सादृश्यसूक्ष्मत्वरूपार्थदोषेणेत्यर्थः । विजातीयकरणं सजातीयप्रत्यक्षशब्द-रूपकरणं च दृष्टान्तीकृत्यान्तरङ्गानुमानरूपकरणं च दृष्टान्तयति– अनित्य इति । प्रमेयेति । साध्यदोषाभावेऽपीत्यर्थः । हेतुदोषाभावेऽपीति । सर्वतेजसः पक्षतया तदन्यस्य व्यभिचारस्थलस्याभावेन व्यभिचारदोषाभावात् असिद्ध्यादेरनाशङ्क्यत्वादिति भावः ।।

ननु बाधस्य पक्षनिष्ठत्वेन प्रमिताभावप्रतियोगिसाधकत्वेन रूपेण हेतुदोषत्वोक्तावप्यानुमानिकप्रमानुत्पत्तिर्युक्तेति वादिनं प्रति लक्षणटीकोक्त-रीत्या दोषान्तरं चाह– किं चेति । प्रत्यक्षादाविति । पीतः शङ्ख इत्यादिप्रत्यक्षे श्वेतः शङ्ख इति प्रत्यक्षस्य यथा साक्षाद्ग्राह्यविरुद्धविषयकत्वेन पीतत्वप्रत्यक्षप्रतिबन्धकत्वं, घटोऽस्ति, घटो नास्तीत्यनयोः शब्दज्ञानयो-र्यथा विरुद्धविषयकत्वेन प्रतिबध्यप्रतिबन्धकभावस्तथेत्यर्थः ।।

बकबन्धेति । केनचित्कञ्चित्प्रति बकबन्धोपायं ब्रूहीति पृष्टे वदति । बकस्य शिरसि नवनीते निहिते सत्यातपेन नवनीते द्रवीभूते चक्षुषोर्मध्ये पतिते सति चक्षुषोर्निमीलनं यदा बकस्य भवति तदा तद्बन्धनं कार्यमिति । तत्र नवनीतनिधानदशायामेव बन्धनसम्भवे पश्चाद्बन्धनोपायो यथा वक्रस्तथा व्याप्तिरूपकरणवैकल्यसंपादनद्वारा हेतुदोषत्वकल्पनमपि वक्रत्वादयुक्त-मित्यर्थः । यद्वा परामर्शरूपकरणे व्याप्तिविषयकत्ववैकल्यसंपादनद्वारेत्यर्थः ।

गुरुत्वान्न हेतुदोषत्वकल्पनं युक्तमित्युक्तम् । कल्पकाभावाच्च न हेतुदोषत्वं युक्तमिति सामान्यन्यायं विपक्षबाधपूर्वमाह– अपि चेति । प्रतिज्ञेति । येन यद्यथा प्रतिज्ञातं तेन तस्य तथा परित्यागः प्रतिज्ञाहानिः, आदिपदेन प्रतिज्ञान्तरप्रतिज्ञाविरोधप्रतिज्ञासन्न्यासादिग्रहः । पूर्वं शब्द इत्यविशिष्टतयोक्ते साध्यभागे वर्णात्मको नित्य इति विशेषणप्रक्षेपः प्रतिज्ञान्तरम् । मिथो व्याघातः प्रतिज्ञाविरोधः । स्वोक्तापलापः प्रतिज्ञास-न्न्यासः । प्रतिज्ञाहान्यादिनिग्रहस्थानमपि त्यक्तप्रतिज्ञकत्वादिरूपेण हेतुहान्यादिकं स्यादित्यर्थः । हेतुदोषाः स्युरिति । विरुद्धप्रतिज्ञकत्वादिरूपेण हेतुनिष्ठतयेति भावः । व्याप्तिं समर्थ्य पक्षे नास्तीत्याह– न चेति ।। बाधकभावाच्च न हेतुदोषत्वकल्पनं युक्तमित्याह– यदि चेति । यद्वा बाधादिरपि हेतुनिष्ठत्वेनैव ज्ञातो दोषो नान्यथेति वादिनं प्रति बाधकमाह– यदि चेति ।।

प्रतिज्ञाविरोधः साधारणः इतरौ त्वसाधारणाविति लक्षणटीकासूचित-युक्त्या च हेतुदोषत्वं निराह– अपि च बाधादिरिति । प्रतिरोध आदि-पदार्थः । तावता कुतो न हेतुदोषतेत्यत आह– हेत्विति । अन्यथेति । प्रत्यक्षादिसाधारणदोषस्यापि हेत्वाभासत्व इत्यर्थः वैषम्यमाशङ्क्य निराह– नन्वित्यादिना । साध्यस्यापीति । साध्यसिद्धेः प्रतिबन्धकत्वे साध्य-स्यापि ज्ञायमानतया प्रतिबन्धकत्वादिति भावः ।।

बाधादेः प्रत्यक्षादिसाधारण्यमेवासिद्धं येन हेतुदोषत्वं न स्यादिति शङ्कते– नन्विति । बाधेन विपरीतज्ञानेनेत्यर्थः । उत्पत्तिरेवेति । अनुमित्युत्पत्तिरेव बाधेन प्रतिबध्यत इत्यर्थः । उत्पत्तिप्रतिबन्ध एवासिद्धः येनासाधारण्यं स्यादित्याह– शब्दाभासस्येति । शशविषाणमस्तीत्यादि-वाक्याद्गोविषाणमस्तीति वाक्यादिव बुद्ध्युत्पत्तेर्वादिवाक्यादसदर्थकात्प्रति-वादिनो बोधोत्पादस्य योग्यतावादे व्युत्पादितत्वादिति भावः ।।

ननु तत्र बाधावतारानन्तरं शब्दादवगतमसदेवेत्यनुभवादस्तु शब्दा-भासस्या१बोधकत्वं न तु लिङ्गाभासस्य । तथाऽननुभवादित्यत आह– दृश्यते चेति । करणासंस्पर्शित्वादिति । साध्याभावप्रमायां करणाप्रतीतेरिति भावः । तस्मादित्येतत्प्रागुक्तरीत्या पञ्चधा व्याचष्टे– साधनानर्हत्वे-त्यादिना । भक्तिपादीयसुधाविरोधमाशङ्क्य तदभिप्रायोक्त्या निराह– या त्विति । सेत्यन्वयः । व्याप्तिग्रहणेति । ‘‘व्याप्तिग्रहणसमयेऽव्याप्तेरुत्थापको बाध इति पक्षस्त्विष्यत एव’’ मानबाधे न तद्भवेदिति वक्ष्यमाणत्वा’’दिति युक्तिपादीयसुधोक्तेरिति भावः । युक्तिपादीयानुव्याख्यानोक्तिविरोधं च निराह– याऽपीति । तत्र प्रतिज्ञार्थविरोध इत्येवोक्तावपि सुधायां वक्ष्यमाण-विभागानुरोधेन बाधप्रतिरोधयोरित्यनुवादः । इत्यभिप्रेत्येति । तथैव सुधायां प्रतीतेरिति भावः ।।

।। बाधप्रतिरोधयोः प्रतिज्ञादोषत्वसमर्थनम् ।। २४ ।।