यच्च श्रुत्यादेर्लिङ्गादिबाधे उदाहरणमुक्तम्
८२. अथ श्रुत्यादिलिङ्गादिबाधे भाट्टोक्तोदाहरणदूषणम्
तर्कताण्डवम्
यच्च श्रुत्यादेर्लिङ्गादिबाधे उदाहरणमुक्तम् । तन्न । लिङ्गं हि ऐन्द्र्या इन्द्रशेषत्वं बोधयते । तच्च तस्य गार्हपत्यं प्रति शेषत्वं बोधयता बाधनीयम् ।
न चैन्द्र्येति तृतीयाश्रुतिमात्रेणैन्द्रीगार्हपत्ययोरन्योन्यशेष-शेषित्वधीः । ऐन्द्र्येत्यस्येन्द्रं प्रत्यैन्द्र्याः शेषत्वेपि गार्हपत्यमित्यस्य यां काञ्चनाग्नेयीं प्रति गार्हपत्यस्य शेषित्वेप्युपपत्तेः । किन्त्वैन्द्री-गार्हपत्यपदसमभिव्याहाररूपवाक्येनैव ।
अत्रोक्तं वार्तिके–
यदि जघन्यवृत्त्या गार्हपत्यप्रातिपदिकश्रुतिरिन्द्रपरा, यदि वा द्वितीयाश्रुतिरग्निसामीप्यपरा तदा समभिव्याहाररूपं वाक्यं लिङ्गा-विरोध्येव । श्रुतिस्तु मुख्यार्थपरा सती लिङ्गेन विरुध्यत इति ।
तन्न । मदुक्तरीत्या श्रुतिमात्रस्य त्वदुक्तरीत्या वाक्यमात्रस्य च लिङ्गाबाधकत्वेन सहितयोस्तद्बाधकत्वेपि वाक्यनिरपेक्षायाः श्रुतेः क्वापि लिङ्गाबाधकत्वेन तस्य लिङ्गात्प्राबल्यासिद्धेः ।
न्यायदीपः
परोक्तोदाहरणान्यपि निराह ।। यच्चेति ।। एैन्द्र्यागार्हपत्यमुपतिष्ठत इति यदुदाहरणमुक्तं तन्नेत्यर्थः । लिङ्गवाक्यविरोधोदाहणमेवेदमिति भावेनाह ।। लिङ्गमिति ।। ‘‘निवेशनः सङ्गमनो वसूनामित्या’’दिमन्त्रगतमिन्द्रादि-प्रतिपादनसामर्थ्यं हीत्यर्थः ।
।। तस्या इति ।। एैन्द्र्या ऋच इत्यर्थः ।। वाक्येनैवेति ।। एैन्द्रीगार्हपत्ययोरन्योन्यशेषशेषित्वधीरित्यनुषङ्गः । तथाच वाक्येनैव लिङ्गस्य बाधो न श्रुत्येति भावः । सत्यं लिङ्गं वाक्येन विरुध्यत इति तथापि वाक्यस्य लिङ्गविरोधकत्वं द्वितीयाविभक्त्यादिश्रुतिं विना नोपपद्यत इति श्रुतिसहायकृतमेवेति श्रुतेर्बाधकत्वमुक्तमिति भावेन १श्रुतिमेव वाक्य-लिङ्गविरोधकत्वमित्येतदुपपादयति ।। यदीति ।। लिङ्गाविरोध्येवेति । आद्ये एैन्द्र्या इन्द्रमुपतिष्ठत इत्यर्थस्य द्वितीये गार्हपत्यसमीपे स्थित्वा उपतिष्ठत इत्यर्थस्य निष्पत्तेरिति भावः ।
।। श्रुतिस्त्विति ।। प्रातिपदिकश्रुतिर्द्वितीयाश्रुतिश्चेत्यर्थः । मुख्यार्थत्वे अग्नेरेव शेषित्वप्रतीतेर्विरोधः श्रुतिकृत इति भावः ।
तर्कताण्डवम्
यद्यपि श्रुतिः शेषत्वं शेषित्वं वा वदति । वाक्यं तु तस्य प्रतियोगि- विशेषमपि । तथापि शेषत्व२मात्रबोधकश्रुतिमात्रेण प्रतियोगिविशेष-घटितशेषशेषित्वविशेषबोधकं लिङ्गं न विरुध्यत इति न बाध्यते । नहि चैत्रस्यायं शेष इत्येतच्छेष इत्येतावन्मात्रेण विरुध्यते ।
किं चात्यक्तस्वार्थपदसमभिव्याहार एव वाक्यम् । अन्यथा स्वर्गकामो यजेतेत्यत्र स्वर्गशब्दस्य स्वार्थत्यागे समभिव्याहारमात्रेण यागस्वर्गयोः साध्यसाधनभावासिद्धेस्तत्र वाक्यं प्रमाणमिति मतहानिः । एवं च गार्हपत्यशब्दस्य स्वार्थत्यागे वाक्यस्यैव बाधो न तु श्रुतेः ।
न्यायदीपः
ननु तृतीयाद्वितीयाश्रुत्योः शेषत्वशेषित्वबोधकत्वाद्विरोधः श्रुतिलिङ्गयो-रित्यत आह ।। यद्यपीति ।। तदेव व्यनक्ति ।। न हीति ।। यच्चवाक्यस्य लिङ्गविरोधित्वं गार्हपत्यमित्यत्र प्रातिपदिकविभक्त्योः स्वार्थात्याग एव तत्त्यागे तु नेति अत्यक्तस्वार्थकश्रुतिकृतमिति श्रुतेर्विरोधित्वमित्युक्तम् । तदयुक्तम् । श्रुतेः स्वार्थत्यागे वाक्यमेव नास्ति कस्याविरोधित्वमुच्येतेति-भावेन वाक्यस्वरूपं तावद्दर्शयन्नेवाह ।। किं चेत्यादिना ।।
कुत उक्तरूपसमभिव्याहार एव वाक्यमुपेयमित्यत आह ।। अन्यथेति ।। समभिव्याहृतपदानां स्वार्थत्यागे अवाक्यत्वं स्वार्थात्याग एव वाक्यत्वमित्य-नङ्गीकार इत्यर्थः । ततः किमित्यत आह ।। एवं चेति ।।
तर्कताण्डवम्
यदि च बाधकवाक्यान्तर्गत्या गार्हपत्यश्रुतेर्लिङ्गबाधकता । तर्हि श्रुत्या मुख्येन्द्रप्रकाशनसामर्थ्यरूपलिङ्गबाधे मुख्यवृत्तिरूपश्रुतेः बाध्य-लिङ्गकोटिप्रवेशाद्बाध्यता च स्यात् ।
एवमग्निहोत्रं जुहोति यवागूं पचतीत्यादौ पाठस्य लिङ्गरूपेणार्थेन बाधे श्रुतेरपि बाधितता स्यात् । न हि यवागूशब्दादेर्मुख्यार्थत्यागे पाठक्रमोऽर्थक्रमेण विरुध्यते ।
न्यायदीपः
नन्वस्तु– भवदुक्तरीत्या श्रुतेः स्वार्थात्यागे वाक्यमेव बाधकं तत्त्यागे वाक्यमेव नेति च । तथापि वाक्यान्तर्गतत्वाच्छ्रुतिरपि बाधिकेत्युच्यत इत्यत आह ।। यदि चेति ।। मुख्यवृत्तिरूपश्रुतेरिति ।। इन्द्रश्रुते-रित्यर्थः । यथा वाक्यस्य लिङ्गेन विरोधे वाक्यान्तर्गतगार्हपत्य श्रुते-र्मुख्यार्थत्वं हेतुरिति श्रुतेर्लिङ्गबाधकतोच्यते, तथा मन्त्रस्थेन्द्रश्रुतेर्मुख्यार्थत्व एव लिङ्गस्य श्रुत्या विरोधो नान्यथेति लिङ्गबाधे तदनुप्रविष्टेन्द्रश्रुतिर्बाधिता स्यादित्यर्थः । तथा च श्रुत्या श्रुतिबाधः प्राप्त इति भावः ।
।। लिङ्गरूपेणेति ।। होम१निवर्तनसामर्थ्यरूपेणेत्यर्थः । कथं श्रुतेर्बाधितत्वमित्यतः श्रुतिलिङ्गविरोधस्थले परोक्तरीत्यैव तदुपपादयति ।। न हि यवागूशब्दादेरिति ।। यवागूं पचतीत्यनयोः पदयोर्लक्षणया तत्साध्याग्निहोत्रहोमार्थत्वं, अग्निहोत्रं जुहोतीत्यनयोर्जघन्यवृत्या तत्साधनय-वागूपाकार्थत्वमित्येवमाश्रित्य स्वार्थत्यागे विरोधो नास्तीति अर्थक्रम-पाठक्रमयोर्विरोधस्य श्रुतेः स्वार्थकत्वनिमित्तत्वाद् बाध्यभूतपाठक्रमान्तर्गत-त्वाच्छ्रुतिरेव बाधितेति स्यादिति भावः ।
तर्कताण्डवम्
एतेन– यत्र शेषित्वं शेषत्वं वा तृतीयादिनाभिधीयते तत्र श्रौतत्वम् । तथा चैन्द्र्या गार्हपत्यशेषत्वम् श्रौतमेव । यत्र तु समभिव्याहारमात्रेण गम्यते तत्र वाक्यीयत्वम् । यथा स्वर्गकामो यजेतेत्यत्र इति न्यायरत्नमालोक्तं निरस्तम् । प्रकृतिप्रत्ययसमभि-व्याहारगम्यस्य यागभावनयोः शेषशेषित्वस्याश्रौतत्वापत्तेरित्युक्तत्वात् ।
यच्चोक्तं वार्तिके– यदैवैन्द्र्येत्युक्तं तदैव तदर्थशास्त्रादिति न्यायेनैन्द्र्येत्यस्यावैयर्थ्यायेन्द्रव्यतिरिक्तः कोप्युपस्थाप्यः । स च लिङ्गगम्येन्द्रविरोधित्वेन प्रतीयत एवेति ।
तन्न । ऐन्द्र्येति विनियोगस्यावैर्थ्यार्थमन्यथानुपपत्त्या गम्यमान-स्येन्द्रादन्यस्य शेषितायाः श्रौतत्वायोगात् ।
उक्तं हि वार्तिके–
‘‘यःशब्दश्रवणादेव विनियोगः प्रतीयते । स श्रौत’’ इति ।
न्यायदीपः
प्रकारान्तरेण साङ्कर्याभावमनूद्य निराह ।। एतेनेति ।। वाक्यीयत्वम् ।। वाक्यसम्बन्धित्वम् । शेषत्वस्य वा शेषित्वस्य वेत्यनुकर्षः ।। उक्तत्वादिति ।। श्रुत्यादिलक्षणभङ्गान्ते सम्बन्धमात्रमुक्तन्त्वित्यादिग्रन्थेनोक्तत्वादित्यर्थः ।। इति न्यायेनेति ।। मन्त्रो यमर्थमाह तदर्थप्रतिपादकं शास्त्रम् उरुप्रथस्वेति पुरोडाशं प्रथयतीत्यस्ति तत्र मन्त्रस्य पुरोडाशप्रथनार्थकत्वेऽभिप्रेते सति इति प्रथयतीति शास्त्रं व्यर्थम् तेन ज्ञायते उरुप्रथस्वेत्यादिमन्त्रोऽनर्थक इति मन्त्राधिकरणपूर्वपक्षसूत्रोक्तन्यायेनात्राप्यैन्द्र्या अपीन्द्रप्रतिमन्त्रोऽनर्थक इति मन्त्राधिकरणपूर्वपक्षसूत्रोक्तन्यायेनात्राप्यैन्द्र्या अपीन्द्रप्रतिपादकत्वे सति ऐन्द्र्या इति तत्र विनियोजकतृतीयाश्रुतिर्व्यर्था अतो ज्ञायते नेन्द्रशेषत्वं श्रुतेरभिमतम् किन्तु तदन्यशेषत्वम् तथात्वे श्रुतेरवैयर्थ्यात् तेन तृतीयाश्रुत्या इन्द्रादन्यः शेषी उपस्थाप्य इत्यर्थः । तथा च श्रुत्यैव लिङ्गस्य विरोधो न वाक्येनेति भावः ।
तर्कताण्डवम्
किञ्च ‘‘तदर्थशास्त्रात्’’ इति मन्त्राधिकरणपूर्वपक्षन्यायस्यार्थवादो वेति तत्रत्यसिद्धान्तसूत्रोक्तन्यायेन बाधात् । उरुप्रथस्वेति पुरोडाशं प्रथयतीत्यनुगुणतदर्थशास्त्रवदैन्द्र्येत्यस्यापि गार्हपत्यपदाभावेऽनुगुण-तदर्थशास्त्रत्वेन अर्थवादोपपत्तेर्न वैयर्थ्यम् ।
यच्चोक्तं शास्त्रदीपिकायाम्– ‘‘लिङ्गेन बलीयसा यस्य बाधस्तल्लिङ्गेन विरुध्यते । न चात्र लिङ्गेन बलीयसा वाक्यं बाधितुं शक्यम् । तद्बाधे हि पृथक्कृते गार्हपत्यैन्द्रीपदे न किञ्चिदर्थं प्रतिपादयतः । पदमात्रस्या-प्रमाणत्वात्’’ इति ।
तन्न । इषेत्वेत्यादौ छिनद्मीत्यादिपदानामिवात्रापि इन्द्रमाग्नेय्येति पदयोरध्याहारेणैन्द्र्येन्द्रं आग्नेय्या गार्हपत्यमित्यन्वयोपपत्तेः । अयमेव हि वाक्यस्य बाधो नाम यच्छ्रुतसमभिव्याहारादन्यसमभिव्याहार-कल्पनम् ।
न्यायदीपः
यदपि श्रुत्यवैयर्थ्यायान्य उपस्थाप्य इति तच्चायुक्तमित्याह ।। किञ्चेति ।। बाधादिति ।। इत्थं प्रथनं प्रशस्तं यत्क्रियमाणमेवंरूपेण मन्त्रेण क्रियत इति शाबरभाष्याद्युक्तदिशा प्रथनप्रशंसापरत्वेन स्वार्थपरत्वाभावेन तदर्थशास्त्रा-दित्यस्यासिद्धत्वादिति भावः ।
।। अनुगुणतदर्थशास्त्रवदिति ।। प्रशंसापरत्वादनुगुणेत्युक्तम् ।। अनुगुणेति ।। इन्द्ररूपार्थोपस्थापनेनेति भावः ।। यच्चोक्तमिति ।। श्रुतिलिङ्गविरोधाधिकरणे उक्तमित्यर्थः ।। तद्बाधे हीति ।। प्रतीतसमभि-व्याहारत्यागरूपबाधे हि सतीत्यर्थः ।
।। इत्यादिपदानामिवेति ।। द्वितीयाद्यपादे ‘‘समेषु वाक्यभेदः स्याद्’’ इति षोडशेधिकरणे इषेत्वेत्यादिरेको मन्त्र अनेकोवेति सन्देहे एक इति प्राप्ते इषेत्वेति छिनद्मि, ऊर्जेत्वेत्यनुमार्ज्मीत्याद्यध्याहारेण भिन्नार्थकत्वादनेक इति सिद्धान्तितत्वादिति भावः ।
तर्कताण्डवम्
किञ्च– ‘‘स्योनन्त’’ इत्यादौ वाक्यस्य सावकाशत्वेन लिङ्ग-बाध्यत्वेपि एैन्द्र्येत्यत्रोक्तरीत्या निरवकाशत्वाल्लिङ्गबाधकतास्तु । अस्मन्मतेत्वन्वयबोधकस्य वाक्यस्य लिङ्गानुसार्यर्थत्यागेन श्रुत्यनु-सार्यर्थग्रहणमेव श्रुत्या लिङ्गस्य बाधः । न तु वाक्यैकदेशभूत-प्रातिपदिकादिरूपायाः श्रुतेः वाक्यार्थभूतान्वयबोधकत्वमिति स्वीकारात् । १ऐन्द्र्येन्द्रशेषत्वव्याप्यवाचकवैदिकशब्दरूपलिङ्गाभावाच्च न दोषः ।
लिङ्गेन वाक्यबाधोदाहरणमप्यसत् । सामर्थ्येन वाक्यबाधे इन्द्र-पकाशनसामर्थ्येनैन्द्र्या गार्हपत्यमिति वाक्यस्य क्षणिकस्य यागस्य सन्निकृष्टफलजननसामर्थ्येन स्वर्गकामो यजेतेति वाक्यस्य च बाधा-पातात् । यथाचापूर्वद्वारा यागः स्वर्गे समर्थस्तथा स्योनन्ते मन्त्रे उत्तरभागोपि स्वार्थद्वारा तद्विशिष्टपूर्वभागार्थप्रकाशनसमर्थ एव ।
न्यायदीपः
अभ्युपेत्योक्तं वाक्यस्य लिङ्गेन बाध्यत्वम् । वस्तुतो बाध्यत्वमेव त्यज्यतामित्याह ।। किञ्चेति ।। सावकाशत्वेनेति ।। विभागेन सदना-सादनयोर्विनियोगसम्भवादिति भावः ।।
।। उक्तरीत्येति ।। तद्बाधे हीत्यादिनोक्तरीत्येत्यर्थः । भवत्पक्षेपि ऐन्द्र्येत्यत्र श्रुतिलिङ्गयोर्बाध्यबाधकभावः कथमित्यत आह ।। अस्मन्मते त्विति ।। प्रातिपदिकरूपाया इति ।। गार्हपत्यप्रातिपदिकरूपाया ऐन्द्रीतिप्रातिपदिकरूपायावेत्यर्थः । इति स्वीकाराद्बाधो न त्वित्यर्थः । येन वाक्यलिङ्गयोरेव वेत्यर्थः । इति स्वीकाराद् बाधो न त्वित्यर्थः । येन वाक्यलिङ्गयोरेव बाध्यबाधकभावो न तु श्रुतिलिङ्गयोेरिति स्यादिति भावः ।
एवमैन्द्र्या इन्द्रशेषत्वबोधकं लिङ्गं पररीत्यास्तीत्यभ्युपेत्य श्रुत्या बाधप्रकार उक्तः । वस्तुतो लिङ्गमेव नास्ति । किन्तु वाक्याद्गार्हपत्यशेष-तैव । न तु तत्र बाधादिभाव इत्याह ।। ऐन्द्रे्यति ।। सिद्धान्ते हि व्याप्य-वाचकं लिङ्गं न तु सामर्थ्यम् । एवं च निवेशनः सङ्गमन इत्यादे-रिन्द्रशेषत्वस्य व्याप्यभूतो यो धर्मः वृद्धाचारादिः तस्य वाचको यो वैदिकशब्दरूपः ऐन्द्र्या इन्द्रमुपतिष्ठन्ते वृद्धा इत्यादिः तद्रूपलिङ्गाभावाच्चेति भावः ।। उदाहरणमिति ।। स्योनन्ते सदनं करोमीत्यादिरूपं ऐन्द्र्येत्यादे-र्वाक्यरूपत्वं प्राक्साधितमप्यनाधिकुर्वाणं प्रत्याह ।। क्षणिकस्येति ।।
नन्वन्यथानुपपन्नं सदेव सामर्थ्यं वाक्यं बाधते । यागसामर्थ्यं त्वन्यथोपपन्नं न तु स्योनन्त इत्यादावित्यत आह ।। यथा चेति ।। तद्विशिष्टेति ।। हविरासादनाधारभूत इत्येवंरूपेण तद्विशिष्टेत्यर्थः ।
तर्कताण्डवम्
न चास्मद्रीत्या परदौर्बल्यमिति जैमिनिसूत्रानुसारेण वाक्यमात्रस्य लिङ्गाद्दौर्बल्यसम्भवे पदद्वयश्रुतिरूपवाक्यं लिङ्गत्प्रबलं लिङ्गविनियोज्य-मन्त्रसमभिव्याहाररूपं तु वाक्यं दुर्बलमिति कल्पना युक्ता । प्रकरण-गृहीतस्य बर्हिर्मन्त्रस्य लवनशेषत्वं तु दृष्टार्थत्वे सम्भवत्यदृष्टार्थत्व-मन्याय्यमिति न्यायात् ।
न च न्यायमात्रं लिङ्गम् । तस्य वाक्याद्दुर्बलत्वात् । लिङ्गस्य च वाक्यात्प्रबलत्वात् । किन्तु वैदिकशब्दार्पितं व्याप्यं वा व्याप्यार्पको वैदिकः शब्दो वेह लिङ्गमित्युक्तम् । स्योनं ते मन्त्रे वाक्यभेदस्त्वर्थैकत्वनयोक्तरीत्या वाक्यान्तर इवार्थभेदादेवान्ततः सिद्धो न तु वाक्येनैकवाक्यत्वे प्राप्ते लिङ्गेन वाक्यभेदः साध्यः । न हि लोके लिङ्गवाक्ये भेदाभेदप्रमाणे ।
न्यायदीपः
नन्वैन्द्रयेत्यादौ यजेतेत्यादौ च वाक्यस्य श्रुतिद्वयसमभिव्याहाररूपत्वान्न लिङ्गेन तत्र बाधः । स्योनं त इत्यादौ तु लिङ्गविनियोज्यसमभिव्याहार-त्वाद्बाध इत्यतो गत्यन्तरसम्भवे द्विरूपकल्पना न युक्तेत्याह ।। न चेति ।। न च कल्पना युक्तेत्यन्वयः । शब्दादेवेत्यत्र टीकादौ व्युत्पदितरीत्या ‘‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानं समवाये परदौर्बल्यमर्थविप्रकर्षाद्’’ इति सूत्रस्य अर्थविप्रकर्षेण परदौर्बल्यानुसरणेन वाक्यसामान्यस्य लिङ्गा-द्दौर्बल्यसम्भव इत्यर्थः ।
यद्वास्मद्रीत्यावाक्यमात्रस्य लिङ्गाद्दौर्बल्यसम्भव इत्यन्वयः । भवदुक्तं न सूत्रानुसारि भट्टोक्तं तु सूत्रानुसारि अतो द्विरूपकल्पनायुक्तेत्यत उक्तम् ।। इति जैमिनिसूत्रानुसारेणेति ।। अस्मदुक्तं तच्चैकमेवेति भावः ।
यदपि दर्शपूर्णमासप्रकरणस्थस्य बर्हिर्मन्त्रस्य प्रकरणेन सर्वशेषत्वे प्राप्ते तद्बाधेन लिङ्गाल्लवशेषत्वमिति लिङ्गप्रकरणविरोधोदाहरणं तदपि लिङ्गवाक्य-विरोधोदाहरणनिरासप्रसङ्गान्निराह ।। प्रकरणेति ।।
यद्वा– सामर्थ्येन वाक्यबाधे प्रागुक्तातिप्रसङ्गभिया सामर्थ्यं न लिङ्गं कथं तर्हि बर्हिर्मन्त्रस्य लवने विनियोगः अनेन लुनीयादिति वैदिकवचनाभावेन प्रकरणेन सर्वशेषत्वप्राप्तः कथं वा स्योनतं इति मन्त्रे विभज्य विनियोगः इत्यत आह ।। प्रकरणेति ।।
।। इत्युक्तमिति ।। परोक्तश्रुत्यादिलक्षणभङ्गे । चन्द्रिकायां वा इह वैदिकार्थनिर्णये लिङ्गमित्युक्तमित्यर्थः । द्वितीय आह ।। स्योनं त इति ।।
यद्वा लिङ्गेन वाक्यस्याबाधे कथं स्योनन्त इत्यादौ वाक्यभेद इत्यत आह ।। स्योनन्त इति ।। अर्थैकत्वेन चेति ।। ‘‘अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्याद्’’ इति द्वितीयाद्यपादीयपञ्चदशेधिकरणे ‘‘अर्थै-कत्वाद्विभागे साकाङ्क्षं चेदेकं वाक्यं तदभावे भिन्नं वाक्यम्’’ इत्युक्त-रीत्यार्थभेदादेव गामानय घटमानयेत्यादिवाक्यान्तर इव सिद्ध इत्यर्थः ।
।। वाक्येनेति ।। समभिव्याहाररूपेणेत्यर्थः । कुतो न साध्य इत्यतोऽ-व्युत्पन्नत्वादिति भावेनाह ।। न हि लोक इति ।। लिङ्गसामर्थ्यं वाक्यं समभिव्याहारः ते न प्रमाणे । किं त्वर्थभेदाभेदाविति शेषः ।
तर्कताण्डवम्
सूक्तवाकमन्त्रे इन्द्राग्नी इदं हविरित्यादिवाक्यस्थस्य इदंह-विरित्यादिपदस्याग्नीषोमादिपदस्य चान्योन्यमनन्वय आकाङ्क्षा-भावादेवान्ततः सिद्धः । न तु प्रकरणेनान्वये प्राप्ते वाक्येनानन्वयः साध्यः । न हि प्रकरणाननुगुणार्थत्वमपि वाऽनाकाङ्क्षितान्वयो वा व्युत्पन्नः । एवमुदाहरणान्तरदूषणमूह्यम् । अस्मद्रीत्या कर्मकाण्डे श्रुत्या लिङ्गबाधो यथा विकृतौ नीवारश्रुत्याऽग्नेयादौ प्रकृतौ व्रीहि-व्याप्यत्वेन दृष्टनिर्वापवाचिवैकृतनिर्वपतिशब्दस्य । एवं लिङ्गादिना वाक्यादेर्बाध उदाहर्तव्यः ।
।। श्रुत्यादिलिङ्गादिबाधे भाट्टोक्तोदाहरणदूषणम् ।। ८१ ।।
न्यायदीपः
वाक्यप्रकरणविरोधोदाहरणं चायुक्तमित्याह ।। सूक्तवाकेति ।। ऊह्यमिति ।। प्रकरणस्थानविरोधोदाहरणे १सन्निधिरूपस्थानप्रकरणा-त्प्रकरणस्य प्राबल्येपि यथासङ्ख्याम्नानादिरूपस्थान२मन्त्रात्प्राबल्याप्राप्तेः स्थानसमाख्याविरोधोदाहरणं चायुक्तं समाख्यायाः श्रुतिरूपतायाः प्रागुपपादि-तत्वेन स्थानेन बाधायोगात् । एवं श्रुतिवाक्यविरोधे श्रुतिप्रकरणादिविरोधे लिङ्गस्थानादिविरोधे च यद्यदुदाहरणं परैरुक्तं तत्र सर्वत्रापि दूषणमूह्य-मित्यर्थः । ग्रन्थगौरवभयान्नास्माभिरतिप्रपञ्च्यते ।
।। विकृताविति ।। नैवारश्चरुर्भवतीतिविकृतियागे श्रुतम् । तत्र चोदकेनाग्नेयाङ्गानां प्राप्तौ व्रीहिव्याप्यत्वेन दृष्टनिर्वापवाचिशब्दः व्रीही-न्निर्वपतीत्येवंरूपो विकृतौ प्राप्तः । स च व्याप्यधर्मवाचित्वाल्लिङ्गरूपस्तस्य बाध इत्यर्थः ।
।। एवं लिङ्गादिनेति ।। यस्य पर्णमयी जुहूर्भवतीत्यादौ क्रतुव्याव्य जुहुवाचिशब्देन लिङ्गेन न सपापं श्लोकं श्रुणोतीति समभिव्याहृतवाक्यस्य फलार्पकत्वबाधेनार्थवादत्व३स्वीकारं लिङ्गेन वाक्यबाधे उदाहरणं; वाक्येन प्रकरणबाधे तु अरुणया क्रीणातीत्यादौ प्रकरणादारुण्यादेः प्रकरणिशेषत्वे प्राप्ते तद्बाधेन क्रीणातिसमभिव्याहाररूपवाक्येन क्रयशेषत्वमित्यारुण्या-वाक्यमुदाहरणं; प्रकरणेन स्थानबाधे तु अभिक्रामं जुहोतीति प्रयाजप्रकरण-स्थस्याभिक्रमणस्य स्थान प्रमाणेन दर्शपूर्णमासाङ्गत्वे प्राप्ते तद्बाधेन प्रयाज-प्रकरणेन तदङ्गत्वमित्युदाहरणमित्यादि द्रष्टव्यमित्यर्थः ।
।। श्रुत्यादिना लिङ्गादिबाधे भट्टोक्तोदाहरणभङ्गः ।। ८२ ।।