यच्चोक्तं मणौ– ‘‘संसर्गाभावरूपे प्रसज्यप्रतिषेधे नञः शक्तिः

७६. अथ नञर्थनिर्णयः ।

तर्कताण्डवम्

यच्चोक्तं मणौ–

‘‘संसर्गाभावरूपे प्रसज्यप्रतिषेधे नञः शक्तिः । भिन्नरूपे पर्युदासे तु लक्षणा । न चान्योन्याभावे तद्वति वा शक्तिः, प्रतिषेधे तु लक्षणास्त्विति वाच्यम् । भूतले न घटः न पचतीत्यादौ नञः केवल-प्रतिषेध इव केवलान्योन्याभावे क्वाप्यप्रयोगात् ।

यद्यपि घटो न पट इति व्यासेऽपटो घट इति समासे चान्योन्या-भाववति प्रयोगोस्ति । तथापि तदपेक्षया प्रतिषेधस्य लघुत्वेन तत्रैव शक्तिकल्पनेऽन्योन्याभाववति लक्षणयैव प्रयोग उपपन्नः ।

नचान्योन्याभाववति शक्तिश्चेच्छक्ये गौरवम्, लक्षणा चेल्लक्ष्ये गौरवमिति साम्यमिति वाच्यम् । फलमुखगौरवस्य अदोषत्वात्’’ इति ।

न्यायदीपः

एवं लक्षणानिरूपणानन्तरं तद्विषयव्यवस्थार्थं तत्पुरुषबहुव्रीही न लक्षणास्थलमित्युपपाद्य प्रसङ्गात्कर्मधारयतत्पुरुषयोर्वैषम्यं च व्युदस्येदानीं नञर्थैकदेशोपि न लक्षणविषय इति भावेन परोक्तमनूद्य निराह ।। यच्चेति ।। शब्दखण्डे कर्मधारयचिन्तानन्तरमुक्तमित्यर्थः ।

।। भिन्नेति ।। अब्राह्मणमानयेत्यादौ ब्राह्मणभिन्नमित्यर्थरूपपर्युदास इत्यर्थः । ब्राह्मणत्वाभावरूपमुख्यार्थसम्बन्धः तात्पर्यानुपपत्तिश्च लक्षणा-बीजमितिभावः । वैपरीत्यमाशङ्क्य निराह ।। न चेति ।। प्रतिषेधे संसर्गा-भावरूप इत्यर्थः ।

अन्योन्याभावे शक्तिरिति पक्षं तावन्निराह ।। भूतल इति ।। द्वितीयपक्षेे प्रागुक्तपक्षेपि दोषमाशङ्क्य निराह ।। न चेति ।।

।। गौरवमिति ।। यथा तथेति योज्यम् ।। फलमुखेति ।। लक्षणया विशिष्टोपस्थितौ पश्चाद्गौरवोपस्थितेरिति भावः ।

तर्कताण्डवम्

अत्रोच्यते–

लोके भूतले न घट इत्यादौ वेदे च न तौ पशौ करोतीत्यादावभावे लोके अपटो घट इत्यादौ वेदे च नानुयाजेष्वित्यादावन्यस्मिन्नसुरा अधर्मोऽनर्थोऽविद्येत्यादौ विरोधिनि च प्रचुरप्रयोगादिरूपस्य प्रत्येकं व्युत्पत्तिरूपस्य च शक्तौ प्रमाणस्य सत्त्वेन विनिगमकाभावादक्षादि-वन्नानार्थ एव नञ् ।

न्यायदीपः

येन मानेन प्रतिषेधे शक्तिकल्पना तेनैवान्योन्याभाववति विरोधिनि च शक्तिकल्पना शक्येति भावेनोभयत्रार्थे लौकिकवैदिकप्रयोगमानं दर्शयन्नेव शक्तिमाह ।। लोक इत्यादिना ।। न ताविति ।। तावाज्यभागौ पशुयागे न करोतीत्यर्थस्य दशमान्त्यपादे द्वितीयाधिकरणे व्यवस्थापितत्वादिति भावः ।

।। अपट इति ।। नञो नलोपेनात्राकारमात्रश्रवणेपि नञेवायमिति भावः ।। नानुयाजेष्विति ।। यजतिषु येयजामहं करोति नानुयाजे-ष्वित्यत्रानुयाजभिन्नेषु यजतिषु यागेषु येयजामह इति मन्त्रमुच्चारयेदित्यर्थस्य दशभान्त्य एव तृतीयाधिकरणे स्थितत्वान्मणावङ्गीकृतत्वाच्चेति भावः ।

।। अन्यस्मिन्निति ।। अन्योन्याभाववतीत्यस्य शक्तौ प्रमाणस्य सत्त्वेनेत्यन्वयः । विरोधिनि चेति शक्तावित्यादिनान्वयः ।। प्रयोगादि-रूपस्येति ।। प्रत्यय आदिपदार्थः ।

तर्कताण्डवम्

न हि प्रतिषेधमात्रे व्युत्पन्नस्य पुंसोऽसुरशब्देन सुरविरोधिधीः । न चोक्तं लाघवं विनिगमकम् । प्रतियोगिनमारोप्य प्रतिषेधरूप-संसर्गाभावे प्रतियोगिरूपविरोधिनोऽनुप्रवेशेन संसर्गाभावादपि विरोधिनो लघुत्वात् ।

किञ्च सघटं भूतलं न घट इत्यत्र कथमन्योन्याभाववति लक्षणा । सघटस्य भूतलस्य घटाभावरूपमुख्यार्थासम्बन्धात् ।

न्यायदीपः

प्रत्येकं व्युत्पत्तिरूपस्य चेत्युक्तं व्यनक्ति ।। न हीति ।। तस्मात्तद्धी-सिद्ध्यर्थं तत्रापि प्रत्येकं व्युत्पत्त्या भाव्यमिति भावः । सुरविरोधिधीरित्युप-लक्षणम् । पटाद्यन्यधीरित्यपि ध्येयम् ।

विनिगमकाभावादित्यसिद्धमिति शङ्कते ।। न चोक्तमिति ।। प्रतिषेध-मात्रस्य लघुत्वेनेत्युक्तं लाघवमित्यर्थः । आरोप्येत्यनन्तरं क्रियमाणेति वा ज्ञायमानेति वा बोध्यम् । तेन ल्यबन्तसाधुत्वं ज्ञेयम् । प्रतियोगित्वं नाम विरोधित्वमित्युपेत्याह ।। प्रतियोगिरूपविरोधिन इति ।।

नन्वेवमस्तु विरोधिन्यपि शक्तिः । अन्यस्मिंस्तु कथं शक्तिः । तत्र लाघव- युक्तेरनुक्तेरित्यतो लक्षणापक्षे बाधकोक्त्या शक्तिं साधयति ।। किञ्चेति ।।

।। मुख्यार्थेति ।। नञः प्रतिषेधो हि मुख्यार्थ उक्तः, न घट इति तु घटप्रतिषेधरूपमुख्यार्थसम्बद्धं घटान्योन्याभावयुक्तं भूतलं लक्षणया बोधयतीति वाच्यम् । त्वया च घटवति भूतले घटप्रतिषेधे सत्यपि भूतलेन तस्य सम्बन्धो नेति स्वीकृतम् । प्रतियोगिदेशान्यदेशत्वरूपत्वात्सम्बन्धस्य । तथा च मुख्यार्थसम्बन्धाभावाल्लक्षणा न युक्तेत्यतः शक्तिरेवोपेयेति भावः ।

तर्कताण्डवम्

अन्ये तु– घटो न पट इत्यादौ भेद एव नञ् । भेदस्य स्वरूपत्वे तस्य घटाभिन्नत्वेन सामानाधिकरण्यसम्भवात् । धर्मत्वेपि घटे तद्वैशिष्ट्यस्यान्वयत्वेन भानोपपत्तेः । तथा च केवलान्योन्याभावात्कथं संसर्गाभावो लघुरित्याहुः ।।

किञ्च गौरवभयात्प्रमितशक्तित्यागे हरीतीकीशब्दस्य वृक्ष एव शक्तिर्लाघवात् फले तु लक्षणा, चशब्दस्यापि लाघवात् समुच्चये शक्तिः इतरेतरयोगे तु लक्षणा, एवकारस्यापि लाघवादयोगव्यवच्छेदे शक्तिः अत्यन्तायोगव्यवच्छेदे तु लक्षणेत्यादि स्यात् ।।

नच हरीतकीशब्दे इष्टापत्तिः । फले तद्धितलुबुक्त्ययोगात् । अन्यथा गङ्गाशब्दस्यापि सम्बन्धे तद्धितस्तल्लोपश्चोच्येत ।

न्यायदीपः

एवमन्यस्मिन्नञः शक्तिरित्यत्र स्वयं लक्षणानुपपत्तिरूपयुक्तिमुक्त्वा अन्योन्याभावे शक्तिरित्यत्र लाघवयुक्तिमन्यमुखेन दर्शयति ।। अन्ये त्विति ।। भेद इति सप्तम्यन्तम् । कथं तर्हि सामानाधिकरण्यमित्यत आह ।। भेदस्येति ।। धर्मत्व इति ।। भेदस्येत्यनुषङ्गः ।

अत्रारुचिबीजं तु– स्वरूपत्वपक्षे भेदवाचिघटवाचिपदयोः पर्यायता-पत्त्या घटकरीरपदयोरिव सहप्रयोगायोगः । भिन्न इति प्रयोगायोगश्च । भेदं वा सविशेषाभेदं वोपेत्य भेदस्य धर्मत्वोपगमपक्षेपि सामानाधिकरण्यायोग एव । अन्यथा नीलोत्पलमित्यादौ गुणवचनेभ्यो मतुब्लोपादिर्न वाच्यः स्यात् । वैशिष्ट्यस्यान्वयतया भानोपपत्तेः । अतः स्वोक्तरीतिरेवाश्रयणीयेति ।

अतिप्रसङ्गाच्च त्रिषु शक्तिरुपेयेत्याह ।। किञ्चेति ।। फले तद्धित-लुबिति ।। तस्य विकार इत्यनेन हरीतक्याः फलमिति फलेर्थेऽण्यप्रत्यये हरीतक्यादिभ्यश्चेत्यनेन तद्धितप्रत्ययस्य लुग्विधानं न स्यादित्यर्थः । कुतो न स्यादित्यतो विपक्षे बाधकमाह ।। अन्यथेति ।।

तर्कताण्डवम्

अपिच तदन्यतद्विरोधिनोर्लक्ष्यत्वे तीरस्यैव मुख्यार्थानुपपत्ति-पुरःसरा धीः स्यात् । नचेष्टापत्तिः । अब्राह्मणस्तिष्ठतीत्यादौ प्रतिषेधानुपपत्तेरभानेपि ब्राह्मणादन्यप्रतीतेः ।।

किञ्च न घट इत्येवोक्ते प्रतिषेधो वा पर्युदासो वेति सन्देहो न स्यात् । अस्ति चोपपदाद्यभावेऽक्षादिष्विव सन्देहः । न हि गङ्ग-स्तीत्येवोक्तेपि नीरं वा तीरं वेति सन्दिह्यते । मुख्ये शब्दस्वारस्यात् ।

तस्मात् त्रिष्वपि नञः शक्तिरेव । उक्तं चैतरेयभाष्ये अ इत्ययं शब्दः प्रस्तुतस्याभावं विरोधिनमन्यं च वदतीति । कर्मनिर्णये चा-सद्विलक्षणमित्यत्र अभावान्यविरोधिनां मध्ये नञः कोऽर्थ इति ।

।। इति नञर्थनिर्णयः ।। ७६ ।।

न्यायदीपः

लक्षणाबीजाभावाच्च न लक्षणा युक्ता किन्तु शक्तिरेवेत्याह ।। अपि चेति ।। संशयान्यथानुपपत्त्या च शक्तिरेवेत्याह ।। किञ्चेति ।। अन्यथा नेक्षेतोद्यन्तमित्यस्य चतुर्थाद्यपादे तृतीयाधिकरणे न तौ पशौ करोति नानुयाजेष्वित्यादेर्दशमे सन्देहपूर्वं विचारं न कुर्यादिति भावः ।

यत्तु मणिरुचिदत्तयोरुक्तम्– नानुयाजेष्वित्यादौ नञ्समासपक्षेऽननुयाजे-ष्विति स्यात् अतोऽसमस्तं पदद्वयमेतदित्युक्त्वा; नसमास एवायं किं न स्यात् तस्मिन्पक्षेऽननुयाजेष्वितिस्यादिति दोषाभावादित्याशङ्क्य निषेधार्थकनशब्दो निषेधार्थक अकारो वा नास्त्येव येन समासेनोपपत्तिः ‘‘अमानोनाः प्रतिषेध’’ इति तु नञ एव समासवाक्यभेदेन लुप्तनकारा-लुप्तनकारभेदेन अ इति न इति भेदेन निर्देशः अन्यथा निषेधार्थकनकारसत्त्वे प्रसज्यप्रतिषेधार्थको नञेव न स्यात् तेनैव गतार्थत्वात् गमिकर्मीकृत-नैकनीवृतानैकयशाः नैककीर्तिरित्यादौ नञ्समासेपि नञुत्तरपदस्य सर्वोत्तरपदत्वाभावान्नलोपाभावोपपत्तौ न तदर्थं तेषु नसमासः कल्प्यः तथैव भागवृत्तावुक्तेः एवं च नञो निषेधैकशक्तिकत्वसिद्धिरिति तदेतेनैव निरस्तम् । नञोर्थत्रये शक्तेः प्रामाणिकतयोपपादितत्वेनैव प्रतिषेधैकार्थवाचितयैवोक्ता-कारनशब्दयोर्नञ्त्वायोगस्य सूचितत्वात् ।

यदपि निषेधार्थकनशब्देनैव गतार्थत्वान्निषेधार्थकनञेव न स्यादिति । तदपि न । तथात्वे हि निषेधार्थकमाशब्देनैव गतार्थत्वान्माङपि न स्यादिति ‘‘अमानोना’’ इत्यत्र माङ एवायं निर्देशो न माशब्दस्येत्यापि स्यात् ।

यदि च माहि भूदित्यादौ माङः प्रयोगस्येव प्रथमेध्याये ‘‘चादयोऽसत्त्व’’ इत्यत्र तृतीये’’ माङि लुङ्’’ इत्यत्र च वृत्त्यादावुक्तदिशा मास्तुमाभव-त्वित्यादिप्रयोगस्यापि दर्शनान्माशब्दोप्यस्तीति कल्प्यते तर्हि ‘‘नसंहता-स्तस्य नभिन्नवृत्तयः’’ इति भारव्यादिकाव्यनाटकालङ्कारादिग्रन्थेषु बहुशो नसमासप्रयोगस्य दर्शनात् तत्तद्व्याख्यातृभिर्नसमासोयमिति तत्र तत्र व्याख्यानाच्च नशब्दोप्यस्तु ।

किञ्च समासप्रकरणे महाविभाषानुवृत्त्या समासस्येवासमासस्य समास-समानार्थकवाक्यस्यापि सम्भवेन नार्षेयं वृणीते न होतारं नानुयाजेष्वित्या-दावसमासेन नैकयशा इत्यादौ सर्वोत्तरपदाभावेन च न लोपाभावोक्तावपि नकिरिन्द्रत्वदुत्तरः नकिष्टं घ्नन्त्यन्तितो नदूरादित्यादौ नकश्चिदित्यर्थके ‘‘नप्रयोजनवत्त्वात्’’ इति ब्रह्मसूत्रे च कथं न लोपाभावः ।

किञ्च नलोपसूत्रे उत्तरपदेपरत इत्यस्य सर्वोत्तरपदेपरत इति विवक्षैव न युक्ता । तथात्वे–

‘‘अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्’’ ।

‘‘अनेकसूर्याभकिरीटकुण्डलः’’ ।

इत्यादौ नलोपाभावापत्तेः ।

अपि च लुप्तालुप्तनकारभेदेन पृथङि्नर्देशे फलाभावेनाकारनशब्दयो-र्निषेधार्थकयोरङ्गीकार्यत्वाच्च, समासे लुप्तनकारस्यैव सत्त्वनियमाभावेन तदभिप्रायेण नञ्प््राकृतिक एवायमकारो निर्दिष्ट इति वक्तुमशक्यत्वाच्च, अमानोनञ् इति निर्देशापाताच्च, ‘‘चादयोऽसत्त्व’’ इति सूत्रोक्तचादिगणपाठे नञं तत्र पृथक्पठित्वा ‘‘अमानोनाः प्रतिषेध’’ इति पृथक्पाठाच्च, कौमुदी-प्रसादे ‘‘अ विप्र इव भाषसे नैकः सुप्तेषु जागृयात्’’ इत्यकारनशब्दयोः प्रयोगस्य दर्शितत्वाच्च, नपदस्याभावे नञिति ञकारमनुबध्य नलोपो नञ इत्यादौ सानुवन्धनिर्देशे कृत्याभावेन सर्वत्र न शब्दस्यैव निर्देशापाताच्च, अस्त्येव पृङ्नशब्द इत्याद्यूह्यम् । अत एव सुधायां चन्द्रिकायां च ‘‘अमानोनाः प्रतिषेध’’ इति नसमास इत्युक्तम् ।

।। इति नञर्थनिर्णयः ।। ७६ ।।