किञ्च, (१) संसार्यात्मा ...

अथ सहजशक्तिवादः ।

तर्कताण्डवम्

किञ्च,

(१) संसार्यात्मा अदृष्टात्मत्वेतरसकलस्वजन्यानुकूल-धर्मवान् आत्मत्वात् सत्त्वात् ज्ञेयत्वाद्वा ईश्वरवत्,

(२) विमतो वह्निर्दाहानुकूलवह्नीतरानिरूप्यातीन्द्रिय१धर्मवान् दाहकारणत्वात् आत्मवत् ।।

(३) करवह्निसंयोगो वा कार्यानुकूलभावभूतधर्मवान् कारणत्वात् ज्ञेयत्वाच्च आत्मवदित्याद्यनुमानैरतीन्द्रियशक्तिसिद्धिः ।।

न्यायदीपः

यदपि मणौ‘‘मा भूदर्थापत्तिः शक्तौ मानम् । अनुमानं तु स्यात्’’ इत्यादिना कानिचिदनुमानान्याशङ्क्याप्रयोजकत्वादिना निरस्यानुमानमपि शक्तौ न मानमित्युक्तम् । तन्न । प्रकारान्तरेण शक्तावनवद्यानुमानसम्भवादनुकूल-तर्कसम्भवाच्चेति भावेनाह ।। किञ्चेति ।। इत्याद्यनुमानैरपि शक्तिसिद्धि-रित्यन्वयः । ईश्वरांशे सिद्धत्ववारणाय संसारीत्युक्तिः । तस्यादृष्टात्मत्वेतर-सकलस्वजन्यानुकूलज्ञानेच्छाकृतिरूपधर्मवत्त्वात् ।। अदृष्टेति ।। अदृष्टं चात्मात्वं च ताभ्यामितरः सकलानि यानि स्वजन्यात्मकार्याणि तदनुकूलश्च यो धर्मस्तद्वानित्यर्थः । अदृष्टस्यात्मत्वस्य च सकलस्वजन्यानुकूलधर्मत्वा-त्तदादाय अर्थान्तरवारणायादृष्टात्मत्वेतरेत्युक्तम् ।।

न चानुकूलत्वं जनकत्वं तच्चादृष्टस्यैव नात्मत्वस्य तस्य  जनकता-वच्छेदकत्वादिति वाच्यम् । कार्याभावप्रयोजकाभावप्रतियोगित्वस्यैव तदानु-कूल्यस्याभिप्ररोतत्वात् तस्य च कारणतावच्छेदकोभयसाधारण्यात् । अत एव शक्तेरवच्छेदकत्वेऽपि न बाधशङ्का ।।

नचैवमप्यदृष्टस्य स्वमते मनोधर्मतयाऽऽत्मधर्मत्वाभावान्नार्थान्तरमिति वाच्यम् । स्वस्वामिसम्बन्धेन धनवत्त्ववददृष्टधर्मकत्वस्याप्यात्मनि सम्भवात् । पररीत्या परस्य साधनमित्यप्याहुः ।।

आत्मजन्येच्छादियत्किञ्चिदनुकूलज्ञानादिधर्मवत्त्वेनार्थान्तरवारणाय सकलेति स्वजन्यविशेषणम् । ज्ञानादेर्यावदात्मजन्याननुकूलत्वात् । सिद्धान्ते शक्तिशक्तिमतोरभेदेऽपि विशेषबलेन धर्मधर्मिभावस्यापि सत्त्वान्न बाधः । हेतुपक्षतावच्छेदकैक्यनिमित्तकसिद्धसाधनतानिरासाय हेत्वन्तरोक्तिः सत्त्वा-दिति ज्ञेयत्वादिति ।। ईश्वरवदिति ।। तत्र सकलस्वजन्यानुकूलधर्मो ज्ञानमिच्छा प्रयत्नश्च तस्य कार्यमात्रं प्रति हेतुत्वात्तद्वत्त्वेन दृष्टान्ते साध्यानु-गम इति भावः ।।

चेतने तत्सिद्धावप्यचेतने तु नेत्यतोऽचेतनेऽपि शक्तिं साधयति ।। विमत इति ।। दाह इति ।। दाहानुकूलो वह्नीतराऽनिरूप्यातीन्द्रियो भावभूतो यो धर्मस्तद्वानित्यर्थः । तादृशो धर्मः शक्तिरेवेति भावः । दाहानु-कूलत्वं च दाहाभावप्रयोजकाभावप्रतियोगित्वं पूर्ववद्ध्येयम् । अतीन्द्रियत्वं च अस्मदादिप्रत्यक्षाविषयत्वं ध्येयम् । विशेषणानां कृत्यमग्रे व्यक्तम् ।। आत्मवदिति ।। तत्र तादृशादृष्टरूपधर्मवत्त्वेन साध्यानुगतिर्ध्येया ।।

गुणेऽपि तां साधयति ।। करेति ।। यद्वा वह्नीतरानिरूप्येति विशेष-णोपादनाद्गौरवं मन्वान आह ।। करेति ।। कार्येति ।। स्वकार्येत्यर्थः । अतीन्द्रियेत्यपि ग्राह्यम् । तेनोक्तरूपसंयोगत्वे नार्थान्तरम् । आदिपदेन प्रतिबन्धदशाऽऽपन्नो वह्निर्दाहजनकदशावृत्तिकार्यानुकूलभावधर्मशून्यः दाहाजनकत्वात् तीक्ष्णकुठारात्१ कुण्ठकुठारवदित्यादिमण्युक्तग्रहः ।।

Load More