केचित्तु– सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्चहेत्वाभासाः

बाधप्रतिरोधयोः प्रतिज्ञार्थप्रमाणविरोधत्वेनैक्यम् ।। २९ ।।

तर्कताण्डवम्

केचित्तु–

सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्चहेत्वाभासाः । तदुक्तं गौतमेन– ‘‘सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकालाः हेत्वाभासाः’’ इति । तत्र साध्यतदभावकोटिद्वयोपस्थापकरूपवत्त्वं सव्यभिचारत्वं, विप्रतिपत्तिवाक्ये सत्प्रतिपक्षे च द्वयोः कोटिद्वयोप-स्थापकत्वेऽपि सव्यभिचारवदेकस्य तदुपस्थापकत्वाभावान्नस-व्यभिचारलक्षणस्यातिव्याप्तिः । विपक्षमात्रवृत्तित्वं विरुद्धत्वम् । समबलप्रमाणप्रतिरुद्धत्वं सत्प्रतिपक्षत्वम् । परामर्शविषयाभाववत्त्वं असिद्धत्वम् । प्रबलप्रमाणविरुद्धत्वं बाधः ।।

तत्र सव्यभिचारः त्रिविधः । साधारणासाधारणानुपसंहारि-भेदात् । तत्र पक्षत्रयवृत्तित्वं साधारणत्वम् । सर्वसपक्षविपक्ष-व्यावृत्तत्वमसाधारणत्वम् । केवलान्वयिधर्मावच्छिन्नपक्षताकत्वमनुप-संहारित्वम् । असिद्धिरपि आश्रयपक्षधर्मत्वव्याप्यत्वासिद्धिभेदेन त्रिविधा । तत्प्रमित्यसिध्या सह चतुर्विधा वा । एवं विरुद्धादेरपि भेदो द्रष्टव्यः ।

तत्र शब्दो नित्यो मेयत्वादिति साधारणस्य सर्वमनित्यं प्रमेय-त्वादित्यनुपसंहारिणश्च साध्यतदभावसाहचर्यं कोटिद्वयोपस्थापकं रूपम् । इयांस्तु भेदः, साधारणस्य पक्षादन्यत्र तत्साहचर्यं, अनुप-संहारिणस्तु पक्ष एवेति । अनित्यः शब्द शब्दत्वादित्यसाधारणस्य तु साध्यवतः तदभाववतश्च व्यावृत्तत्वं तदुपस्थापकमिति सव्यभिचार-लक्षणस्य १नातिव्याप्तिः । आश्रयहेतुव्याप्तीनां लिङ्गपरामर्शविषयत्वा-त्तदभाववत्त्वरूपमाश्रयासिद्ध्याद्यसिद्धित्रयाऽनुगतम् ।।

अत्रासाधारणानुपसंहारिसत्प्रतिपक्षा अनित्यदोषाः । अनुकूल-तर्कावतारदशायामनुमित्यप्रतिबन्धकत्वात् । इतरे तु नित्यदोषाः । तत्रापि बाधप्रतिरोधौ साक्षादनुमितिप्रतिबन्धकौ । न तु करण-विघटनद्वारा । तत्रापि बाधो अनुमितिग्राह्याभावविषय२धीत्वेन । प्रतिरोधस्त्वनुमितिग्राह्याभावविषयधीसामग्रीत्वेन । इतरे त्रयः करणविघटनद्वारा । तत्रापि सव्यभिचारविरुद्धौ व्याप्तिविघटनेन । असिद्धिः परामर्शविषयविघटनेन । तत्राप्याश्रयासिद्धिस्वरूपासिद्धी पक्षधर्मताविघटनेन । व्याप्यत्वासिद्धिस्तु व्याप्तिविघटनेन । तस्माद्द्वावेव हेतुदोषावित्ययुक्तमित्याहुः ।।

तदसत् । यद्रूपेण हि ज्ञानमनुमितिप्रतिबन्धकं तद्रूपेणैव दोषः परं प्रत्युद्भावनीयः । यद्रूपेण चोद्भावनं तद्रूपेणैवासाधकता साधनीया । यद्रूपेण च तत्साधनं तद्रूपेणैव हेत्वाभासादिदोषो विभजनीयः । अन्यथाऽन्यः शस्त्री, अन्यो योद्धा, अन्यो जयी अन्यस्तु श्लाघ्य इतिवद्वैरूप्यापातात् । असाधकतासाधकस्य हेत्वाभासस्याप्रयोज-कत्वापाताच्च । सम्भवतोऽप्यसाधकतासाधनादिव्यवहारानुपयोगिनो निष्प्रयोजनस्य विभागस्यातिप्रसङ्गित्वाच्च ।

सम्भवन्ति हि हेत्वाभासेऽनन्ताः प्रकाराः । उक्तं हि न्यायसारे । ‘‘यद्यपि चैषां सूक्ष्मो भेदोऽनन्तत्वाद्वक्तुं न शक्यते’’ इति ।

असाधकतालिङ्गत्वं च बाधप्रतिरोधयोरुभयानुगतेन १प्रतिज्ञार्थे-प्रमाणविरोधित्वेनैव । न तु बाधत्वादिना बाधितत्त्वात्प्रति-रुद्धत्वादित्यस्य हि प्रबलसमबलप्रमाणविरुद्धत्वादित्यर्थः । तत्र चेदमसाधकं प्रमाणविरुद्धत्वादित्येवास्तु । अन्यद्व्यर्थम् । दुर्बलस्य प्रमाणपदेनैव व्यावर्तितत्वात् । प्रमाणतदाभासाविवेक एव हि प्रमाणपदप्रयोगः । न त्वप्रामाण्यनिश्चये । अहीनबलवत्त्वेन वा विशिष्यताम् । तदवान्तरभेदोपादानं व्यर्थमेव ।

न च बाधप्रतिरोधयोरन्योन्यमसङ्करार्थं तदुपादानम् । दूषकता-बीजैक्येन सङ्करस्यैवोचितत्वात् । व्यावर्त्याभावेऽपि विद्यमानत्वमात्रे-णोपादाने प्रबलचाक्षुषप्रत्यक्षविरुद्धत्वादित्याद्यपि प्रयुज्येत । न च परस्यात्यशक्तिज्ञापनार्थत्वान्न वैयर्थ्यमिति वाच्यम् । अशक्तिज्ञापन-स्यैवोद्देश्यत्वात् । बाधाज्ञानमूलाशक्तौ प्रतिरोधाज्ञानमूलाशक्ति-तोऽतिशयाभावाच्च ।।

किञ्च बाधितेनापि त्वामहं जेतुं शक्त इति भावेनेदं प्रयुक्तमित्यपि सुवचत्वात्परस्य शक्त्यतिशय एव किं न सिध्येत् । किं चैवमपि प्रतिरोधे समबलपदवैयर्थ्यं तदवस्थमेव ।।

किंच बाधेऽपि प्रमाणपदेनैव प्रबलत्वेपि लब्धे प्रबलपदं व्यर्थम् । प्रत्युत समबलव्यावर्तकतया हानिकृदेवेति विपरीतफलम् ।।

यद्यपि प्रतिरोधस्य परपक्षप्रतिबन्धमात्रं फलम् । बाधस्य तु स्वपक्षसिद्धिरपि । तथाऽपि स्वपक्षस्थापनायाः पृथक्कर्तव्यत्वात् । बाधस्य परपक्षप्रतिबन्ध एवोद्देश्य इति यावता प्रतिबन्धसिद्धिस्तावदेव वक्तव्यम् । न त्वन्यत् ।।

किं चैवं परस्यातितरामशक्तिज्ञापनाय बहुत्वोपजीव्यत्व-निरवकाशत्वैः प्रबलप्रमाणविरुद्धत्वादिति बाधितत्वे सति सव्यभिचारित्वादित्याद्यपि प्रयुज्येत । एवं स्वस्यातिशक्ति-ज्ञापनायानेकहेतूक्तिरपि स्यादित्यधिकनिग्रहोच्छेदः स्यात् । वादे वादप्रक्रियया प्रवृत्ते शास्त्रे चातिहेयत्वव्युत्पादनाय बहुदोषोक्तिर्युक्ता । न तु जल्पादौ समयबन्धं विना ।।

ननु प्रमितसाध्याभाववत्पक्षकत्वं बाधः । अत्र च न विशेषणवैयर्थ्यमिति चेन्न । त्वयाऽपि साध्याभावप्रमा बाधफल-मित्युक्तत्वेन तस्याः १बाधकत्वायोगात् । बाधस्य ज्ञानोपाधिकत्वे साध्याभावाज्ञानदशायां बाधाभावेन तस्यानित्यदोषत्वापाताच्च । विरोधिज्ञानद्वयसन्निपाते एकत्र प्रमात्वनिश्चयस्य करणप्राबल्यनिश्चयं विनाऽनुपपत्त्याऽऽवश्यकस्य प्रबलप्रमाणविरोधस्यैव दोषत्वौचित्याच्च ।।

किंच प्रतिरोधे क्लृप्तत्वेन बाधेऽपि करणविरोधस्यैव दोषत्वं युक्तम् । किं च प्रतिरोध इव बाधेऽपि आवश्यकेनाहीनबलत्वेनैव प्रतिबन्धसम्भवे किं प्रमात्वविशेषणेन । किंचैवं वह्निः शीतः कृतकत्वादित्यत्र वह्निरुष्ण इति प्रमाबाधो न स्यात् । उष्णस्पर्शस्य शीतस्पर्शाभावानात्मकत्वात् । अभावपदेन विरोधिमात्रविवक्षायां सिद्धं मदभिप्रेतं सत्प्रतिपक्षसाङ्कर्यम् । दूषकानुमानीयहेतुप्रमायाः दूष्यानुमानीयसाध्यविरोधिविषयत्वात् ।।

किञ्चैवं प्रहतमार्गत्यागेन कुसृष्ट्याश्रयणे प्रमितसाध्याभाव-वत्पक्षकत्वं बाध इतिवत्प्रमितसाध्यसम्बन्धाभाववत्पक्षकत्वं वा प्रमितसाध्यवत्प्रतियोगिकान्योन्याभाववत्पक्षकत्वं वा बाध इत्यपि निर्वक्तुं शक्यत्वाद्बाधो नाना स्यात् । अत्र चैकमेवासाधकतालिङ्गं सर्वं वा । आद्येऽन्यज्ञानेनानुमितिप्रतिबन्धो न स्यात् । अन्यानुमिते-नैकेनैवानुमितिप्रतिबन्ध इति तु नानुभवानुसारि । द्वितीये मिलितं लिङ्गं प्रत्येकं वा । आद्ये एकेनैव पूर्णत्वाच्छेषवैयर्थ्यम् । अन्त्ये हेत्वाभासाधिक्यम् । प्रतिज्ञार्थप्रमाणविरोधव्याप्यत्वेनैकीकरणे चावश्यकत्वाल्लाघवाच्च प्रमाणविरोध एव दोषोऽस्तु ।।

एतेन साध्यविरोध्युपस्थापनसमर्थया समानबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गत्वं वा, समबलसामग्रीप्रतिबन्धेन निर्णयाजनकत्वं वा सत्प्रतिपक्षत्वमिति निरस्तम् । समबलपदवैयर्थ्यात् । तत्त्यागे च बाधसाङ्कर्यात् ।।

एतेनैव परामर्शविषयीभूतप्रतिसाधनत्वं सत्प्रतिपक्षत्वमिति च निरस्तम् । प्रत्यक्षस्य समबलाभ्यां प्रत्यक्षशब्दाभ्यां शब्दस्य च समबलाभ्यां शब्दप्रत्यक्षाभ्यां प्रतिरोधेऽव्याप्तेः । परामर्शविषयीभूत-प्रबलानुमानरूपप्रतिसाधनात्मकबाधसाङ्कर्याच्च । तस्माद्बाधप्रतिरोधयोः प्रतिज्ञार्थप्रमाणविरोधत्वेनैव दोषत्वं न तु प्रबलप्रमाणविरोधत्वादिना ।।

अत एव भगवत्पादैः प्रमाणलक्षणे प्रमाणविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोध इति । अनुव्याख्याने च ‘‘प्रतिज्ञार्थविरुद्धते’’ति तयोरुभयानुगतेन प्रमाणविरोधत्वरूपेणैव दोषत्वमुक्त्वा असिद्धिर-व्याप्तिरिति हेतुविरोधः । साध्यस्य साधनस्य वाऽननुगमो दृष्टान्त-विरोध इत्यसिद्ध्यादीनां चतुर्णामसिद्धित्वादिरूपेणैव दोषत्वमुक्तम् ।।

या तु पद्धतौ प्रमाणविरोधोऽपि द्वेधा प्रबलप्रमाणविरोधः, समबलप्रमाणविरोधश्चेति टीकाकारीया द्वैविध्योक्तिः सा प्रत्यक्षादि-विरोधभेदेन द्वावपि प्रत्येकं त्रिविधाविति १त्रैविध्योक्तिः शिष्यमति-वैशद्याय वस्तुस्थितिप्रदर्शनार्थं वा, प्रतिवादिनो विशेषजिज्ञासायां सोऽपि वक्तव्य इति शिक्षार्थं वा परोक्तयोः कालात्ययापदिष्ट-सत्प्रतिपक्षयोर्विभज्यान्तर्भावोक्त्यर्थं वा ।।

अत एव प्रमाणलक्षणे ‘‘प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधन’’ इत्युक्तम् । न तु बाधत्वादिनाऽसाधकता साध्येत्ये-तदर्थमिति ज्ञेयम् । अन्यथा शिष्यमतिवैशद्यार्थं व्युत्पादनमनुमतमेवेति न स्वीयव्यवहारविरोध इति सुधया, न चात्र प्रबलत्वादिविशेषणस्य प्रयोजनमस्तीत्यादिसुधया च विरोधात् ।।

केचित्तु प्रमाणलक्षणादिकमसाधकतामात्रसाधने प्राबल्य-मनुपयुक्तमित्यभिप्रेत्य प्रवृत्तम् । पद्धतिस्तु अत्यन्तासाधकत्वसाधने प्राबल्यमुपयुक्तमित्यभिप्रेत्य । अत एव मिथ्यात्वानुमानखण्डने बाधप्रतिरोधौ पृथगुक्तावित्याहुः ।।

तस्माद्बाधप्रतिरोधौ प्रमाणविरोधत्वेनैव दोषौ । न तु प्रबलप्रमाण-विरोधत्वादिनेति ।।

न्यायदीपः

नन्वेवमाश्रयासिद्धिसाध्यासिद्धिव्यधिकरणासिद्धीनामदोषत्वेऽपि व्यभिचारादीनां हेतुदोषाणां भावादसिद्धिरव्याप्तिरिति द्वावेव हेतुदोषावित्य-युक्तमित्याक्षिपति– केचित्त्वित्यादिना द्वावेव हेतुदोषावित्ययुक्त-मित्याहुरित्यन्तेन । केचित् तार्किकाः । प्रमाणलक्षणटीकादावसिद्धविरुद्धा-नैकान्तिकानध्यवसितकालात्ययापदिष्टप्रकरणसमसत्प्रतिपक्षभेदेन प्राचां रीत्या सप्तविधानुवादेऽपि अनध्यवसितत्वस्यानैकान्तिकेऽन्तर्भावं प्रकरणसमस्या-सम्भावनया परिगणनायोग्यत्वमुपेत्य मण्याद्युक्तदिशा पाञ्चविध्यमनुवदति– सव्यभिचारेति । अत एव नैयायिका इत्यनुक्त्वा केचिदित्युक्तिः । एवं निर्देशे पञ्चत्वपरिगणने च मूलमाह– तदुक्तमिति । मणेरपीदमेव मूल-मित्यपि सूचितम् । प्रकरणसमशब्देन सत्प्रतिपक्ष उच्यते । साध्यसमपदेन चासिद्धिः अतीतकालपदेन बाध इत्युक्तार्थसंवादित्वं ध्येयम् । मण्याद्युक्त-दिशा तेषां लक्षणान्यनुवदति– तत्र तेषु मध्य इत्यादिना । उपस्थापकेति । तदुभयोपस्थितिजनकं यद्रूपं साधारणे सपक्षविपक्षवृत्तित्वेन साध्यतदभावसाहचर्यं, असाधारणे तदुभयव्यावृत्तत्वं, अनुपसंहारिणि च तदुभयशून्यत्वेन पक्ष एव साध्यतदभावसाहचर्यमित्यग्रे व्यक्तम् । तादृशधर्मत्त्वं साधारणादित्रितयसाधारणं लक्षणम् ।।

यद्यपि मणावुभयकोटीत्याद्येवोक्तम् । तथापि तेनासाधारणस्य साध्यतदभावोपस्थापकतया दूषकत्वपक्षे नाव्याप्तिरित्युत्तरग्रन्थपर्यालोचनयो-भयकोटिपदस्य एवमेवार्थोऽभिमत इतीत्थमनुवादः कृतः ।

यत्तु पक्षधरादावुभयकोट्युपस्थितिपदेन व्याप्तिनिश्चयविरोधिसन्देह-जनककोट्युपस्थितिर्विवक्षिता । अन्यथा सर्वमभिधेयं वस्तुत्वादित्यादौ केवलान्वयिसाध्यकानुपसंहारिणि साध्याभावकोटेरप्रसिद्धेरव्याप्तिः स्यात् । उक्तविवक्षायां तु नाव्याप्तिः । केवलान्वयिसाध्यके इदमभिधेयं न वेत्येवं सन्देहायोगेऽपि अभिधेयत्वं पक्षवृत्ति न वेत्येवं संशयसम्भवात् । व्याप्ति-निश्चयविरोधिसंशयश्च साध्यतदभावसंशयः साध्ये पक्षवृत्तित्वसंशयश्च भवतीति कथनं तत्तु मणिवाक्यविरुद्धम् । न चैवं केवलान्वयिसाध्यकानुप-संहारिण्यव्याप्तिः । तस्यात्रासङ्ग्राह्यत्वादित्याहुः ।।

१नन्वथाप्यनित्यः शब्दः शब्दत्वादित्यत्राप्तवाक्यादिना व्याप्तिग्रहदशायां सद्धेतुत्वात् । तत्र सर्वसपक्षविपक्षव्यावृत्तत्वस्योभयकोट्युपस्थापकरूपस्य सत्त्वादतिव्याप्तिरिति वाच्यम् । तत्र व्याप्तिनिश्चयस्य पक्षीयसाध्यगोचरतया तदा पक्षस्यैव सपक्षत्वेन सकलसपक्षव्यावृत्तत्वांशस्य तत्राभावात् । अत्र लिङ्गनिष्ठतया यज्ज्ञानमुभयकोट्युपस्थापकं तादृशधर्मवत्त्वं विवक्षितम् । तेनायमिच्छावान् ज्ञानवत्त्वादित्यत्र प्रामाण्याप्रामाण्योभयकोट्युपस्थापक-रूपज्ञानत्ववति सद्धेतौ नातिव्याप्तिः । ज्ञानत्वस्य प्रामाण्यसंशय-विषयानुमितिवृत्तितया ज्ञानत्वेनैवोभयकोट्युपस्थापकत्वादिति ।।

नन्वेवमपि पर्वतोऽग्निमान् पर्वतोऽग्निमान्न भवतीति विरुद्धार्थ-प्रतिपादकवाक्यद्वये शब्दोऽनित्यः कृतकत्वात् नित्यः शब्दः श्रावणत्वादिति सत्प्रतिपक्षे चातिव्याप्तिरेवेत्यत आह– विप्रतिपत्तीति । विप्रतिपत्तिस्तु प्रत्येकं न तथेति पूर्वपक्षमण्युक्तेः । तथाऽसाधारणग्रन्थे सत्प्रतिपक्षे द्वौ, अत्र त्वेक एवेति चोक्तेरिति भावः । यद्यपि विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत् विमतं सत्यं दृश्यत्वाद्ब्रह्मवदित्यादिप्रकरणसमेऽप्येक-स्यैवोभयोपस्थापकत्वमस्ति, तथाऽपि तस्यैतन्मतेऽसम्भावितत्वेना-सङ्ग्रहान्नातिव्याप्तिशङ्कावकाशः । तस्यापि सव्यभिचारत्वेन सङ्ग्राह्यत्वाददोष इति केचित् ।।

प्रमाणलक्षणटीकाद्युक्तदिशाऽऽह– विपक्षमात्रेति । मात्रपदेन सपक्षवृत्तित्वं व्यावर्त्यते न तु पक्षवृत्तित्वमपि । तथात्वेऽसिद्धि-साङ्कर्यापत्तेः । पक्षविपक्षयोरेव वर्तमानो हेतुर्विरुद्ध इति लक्षणटीका-विरोधाच्च । वृक्षः संयोगवान् द्रव्यत्वादित्यत्र द्रव्यत्वहेतोः साध्याभाव-वद्वृत्तित्वेऽपि निश्चितसंयोगरूपसाध्यवत्यपि वृत्तेर्न तत्रातिव्याप्तिः । प्रतियोग्यसमानाधिकरणसाध्याभाववन्मात्रवृत्तित्वं तदर्थ इत्येके ।।

यत्तु मणौ साध्यव्यापकाभावप्रतियोगित्वं वा वृत्तिमतः साध्यवदवृत्तित्वं वा विरुद्धत्वमित्यादि । तन्न । हेत्वभावस्य साध्यव्यापकत्वज्ञानस्य ग्राह्याभावासंस्पर्शितया ग्राह्यभूतव्याप्तिज्ञानाप्रतिबन्धकत्वात् । निश्चित-साध्यवदवृत्तित्वे सति तदभाववद्वृत्तित्वस्य चाव्यभिचरितसहचार-रूपव्याप्त्यभावरूपतया तज्ज्ञानस्य व्याप्तिज्ञानप्रतिबन्धद्वाराऽनुमिति प्रतिबन्धस्य सम्भवादिति भावः । एके तु मण्युक्तस्यैवायं निष्कर्षेणानुवाद इत्याहुः । पक्षत्रयवृत्तिसाधारणेऽतिव्याप्तिवारणाय मात्रपदम् । समबलेति । समबलत्वं चाभिमानिकं ध्येयम् । अन्यथा वस्तुनो द्विरूपताऽऽपत्तेः । ‘‘समबलतयाऽभिमतप्रमाणविरुद्धः सत्प्रतिपक्षः’’ इति लक्षणटीकोक्तेश्च । विरुद्धत्वं प्रतिरुद्धकार्यकत्वम् । बाधेऽतिव्याप्तिनिरासाय समेत्युक्तिः । साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गत्वं सत्प्रतिपक्षत्वमिति मण्युक्तिः । व्याप्तस्य पक्षधर्मताप्रमितिः सिद्धिः तद्रहितोऽसिद्ध इति प्राचां रीतिमाश्रित्य लक्षणटीकोक्तं निष्कृष्याह– परामर्शेति । परामर्शविषयो व्याप्तिः पक्षधर्मता च तदुभयराहित्यमित्यर्थः ।

यत्तु मणौ परामर्शविषयाभावो नासिद्धः व्यर्थविशेषणत्वात् किं तु आश्रयासिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिरिति प्रत्येकमेव दोष इत्युक्तम् । तत्त्वितरव्यभिचारादित्वदुक्तलक्षणेऽपि तुल्यमित्यग्रे व्यक्तम् । सङ्ग्राहक-मात्रत्वेऽस्यापि तथात्वादिति भावः । ‘‘प्रमाणबाधितविषयः कालात्ययाप-दिष्ट’’ इति लक्षणटीकाद्युक्तेराह– प्रबलेति । प्राबल्यमत्र वास्तवं वाऽभि-मानिकं वा ध्येयम् । सत्प्रतिपक्षेऽतिव्याप्तिनिरासाय प्रबलेति । प्रबल-प्रमाणनिर्धारिताभावप्रतियोगिसाध्यकत्वं बाध इत्यर्थः । वक्ष्यमाणान्तर्भाव-सुबोधाय मण्याद्युक्तदिशाऽवान्तरविभागमाह– तत्र । तेषु मध्ये इति । पक्षत्रयेति । पक्षसपक्षविपक्षवृत्तित्वमित्यर्थः । यथा शब्दोऽनित्यः प्रमेयत्वादिति । सर्वेति । यथा भूर्नित्या गन्धवत्वादिति । ‘‘केवलान्वयि-धर्मावच्छिन्नपक्षको वे’’ति मण्युक्तरीत्याऽऽह– केवलान्वयीति । यथा सर्वमनित्यं मेयत्वादित्यादि । प्राचीनमतावष्टम्भेन पद्धत्याद्युक्तदिशाऽऽह– तत्प्रमितीति । भेदो द्रष्टव्य इति । स च पद्धतिलक्षणटीकयोर्व्यक्तः । ग्रन्थगौरवभयात् प्रकृते वक्ष्यमाणान्तर्भावानुपयोगाच्च नास्माभिरपि लिख्यते । सव्यभिचारादिलक्षणं साधारणादित्रयेऽसिद्धित्रये च व्यनक्ति– तत्र शब्द इत्यादिना । अनित्यदोषत्वं व्यनक्ति– अनुकूलेति । न तु करणेति । परामर्शरूपकरणेत्यर्थः । अनुमितीति । पूर्वप्रयुक्तहेतुजन्यानुमिति ग्राह्यस्याभावविषयकधीत्यर्थः । इतर इति । सव्यभिचारविरुद्धासिद्धास्त्रय इत्यर्थः । द्वारेत्यनन्तरं अनुमितिप्रतिबन्धका इत्यनुकर्षः । त्वदुक्तरीत्या पाञ्चविध्यसम्भवेऽपि तेन रूपेण ज्ञातानां तेषामनुमित्यप्रतिबन्धकतया तथानुद्भाव्यत्वेनैवं व्युत्पादनमयुक्तमपि त्वस्मदुक्तरीत्यैव तेन रूपेण ज्ञातानामनुमितिप्रतिबन्धकत्वादुद्भावनीयत्वाच्चेति भावेनोक्तरीत्या ज्ञातानां प्रतिबन्धकत्वमित्येतदसाधकतालिङ्गत्वं चेत्यादिना वक्तुं सामान्यन्यायमाह– यद्रूपेणेति । यद्धर्मप्रकारेणेत्यर्थः । असाधकतेति । इदमसाधकं एवं-त्वादिति । कुत एवमित्यत आह– अन्यथेति । वैरूप्येति । अन्यज्ञानं प्रतिबन्धकमन्यदुद्भाव्यं ततोऽन्यदसाधकतासाधकं तदन्यस्य विभाग इति वैरूप्यापातादित्यर्थः । अप्रयोजकत्वेति । अन्यथेत्यत्रानुषङ्गः । तद्रूपेण ज्ञानस्यानुमित्यप्रतिबन्धकत्व१ इत्यर्थः । नन्वसाधकतायामनुपयोगिनोऽपि सम्भवमात्रेण विभागस्योक्तौ को दोष इत्यत आह– सम्भवतोऽपीति । अतिप्रसङ्गित्वाच्चेत्युक्तं व्यनक्ति– सम्भवन्ति हीति । तथा च तेषामपि परिगणनापातेन पञ्चैवेत्युक्तिरयुक्तेति भावः । ते च प्रकाराः प्रमाणलक्षण-टीकायां व्यक्ताः । अस्त्वेवं येन रूपेण ज्ञानमित्यादिनोक्तं प्रकृते किमित्यतः

‘‘विरोधोऽपि त्रिधैव स्यात्प्रतिज्ञार्थविरुद्धता । लिङ्गराहित्यमव्याप्तिः’’

इति युक्तिपादीयानुव्याख्यानव्याख्यावसरे सुधोक्तरीतिमनुसृत्याऽऽह– असाधकतालिङ्गत्वं चेति । कुत इत्यतः वह्निरनुष्णः पदार्थत्वादित्यादौ वादिनोक्ते प्रतिवादिना पदार्थत्वादिति हेतुः असाधकः बाधितत्वात्स-त्प्रतिपक्षत्वादित्युच्यमाने सति वादिना व्यर्थविशेषणत्वदूषणं वक्तुमापाद्यत इत्याह– बाधितत्वाप्रतिरुद्धत्वादित्यस्य हीति ।।

ननु विरुद्धत्वादिज्ञानादेव स्वार्थानुमितेरिव परार्थानुमितेरपि प्रतिबन्धात्किमसाधकतानुमानेन । यद्द्वाक्ये प्रतिवाद्युक्तदूषणावगतिः स निगृहीत इति समयबन्धेन कथाप्रवृत्तौ दूषणमात्रमुद्भाव्यम् । अन्यथाऽ-र्थान्तरत्वम् । एवं चासाधकतानुमानस्यैवानावश्यकत्वाद्व्यर्थविशेषणत्वा-नवकाश इति चेन्न । द्वयं ह्युद्देश्यम् । परानुमितिप्रतिबन्धः, स्थापनाया असाधकतासाधनं च । तत्राद्यं दूषणमात्रज्ञानादेव । द्वितीयं तु तस्य दूषणस्य लिङ्गत्वज्ञानात् । प्रतिबन्धकत्ववदनेनापि रूपेण त्वसम्भव इत्यभिप्रायेण वाऽसाधकतासाधनमिति मणावेवोक्तत्वादिति भावः ।।

दुर्बलप्रमाणविरोधस्य अकिञ्चित्करत्वेनासाधकत्वासाधकतया तद्व्यावृत्तये प्रबलेत्याद्यर्थवदित्यत आह– दुर्बलस्येति । दुर्बलं हि हीनबलत्वादेवा-प्रमाणत्वेन निर्णीतमिति प्रमाणपदप्रयोग एव तत्र न युक्त इति तेन तद्व्यावृत्तिरित्यर्थः । ननु कथं तर्हि सत्प्रतिपक्षस्थले वस्तुतो हीनबले समबलतयाऽभिमन्यमाने प्रमाणपदप्रयोग इत्यत आह– प्रमाणेति । न त्विति । हीनबले तु तन्निश्चय एवास्तीति भावः । उभयानुगतं हीनबल-व्यावर्तकं धर्मान्तरमाह– अहीनेति । तदवान्तरेति । प्रबलसमबलेत्य-वान्तरभेदेत्यर्थः । तथा चैकमेवेदं दूषणं स्यादिति पञ्चेति विभागभङ्ग इति भावः । तदिति । प्रबलसमबलेति विशेषणोपादनं बाधप्रतिरोधयोरित्यर्थः । १दूषकताबीजस्येति । प्रमाणविरोधरूपत्वस्य वा अहीनबलप्रमाण-विरोधत्वरूपस्य वा एकत्वेनेत्यर्थः ।।

ननु सम्भवमात्रेण तथा प्रयोगे को दोष इत्यत आह– व्यावर्त्येति । बाधो हि प्रबलप्रत्यक्षविरोधप्रबलानुमानविरोधप्रबलागमविरोधादिभेदेनानेकविधो लक्षणटीकायां व्यक्तः । तथा च प्रबलप्रमाणविरुद्धत्वादिवत्प्रत्यक्ष-विरोधेऽप्यवान्तरभेदोपपादनेन प्रबलचाक्षुषप्रबलस्पार्शनविरोधादिभेदेनाप्यु-द्भाव्येत । न चैवमङ्गीकृतम् । तथात्वे पञ्चत्वविभागभङ्गप्रसङ्गादिति भावः । अत्यशक्तीति । प्रबलविरोधमपि त्वं न ज्ञातवान् किमु प्रमाणविरोध-मात्रमित्यशक्तिज्ञापनार्थत्वादित्यर्थः । अशक्तिज्ञापनस्यैवेति । अशक्ति-ज्ञापनमात्रेण परापजयस्य स्वजयस्य च सम्भवेन तन्मात्रस्यैवोद्देश्यत्वेनाति-शयिताशक्तिज्ञापनस्यानुद्देश्यतया तादर्थ्येन सार्थक्योक्तिरयुक्ता । तन्मात्रं चावान्तरभेदानुपादानेनाप्युक्तदिशा सिध्यत्येवेति भावः । अतिशयेना-शक्तिज्ञापनस्य लाभे कुतः परित्याज्य इत्यत आह– बाधाज्ञानेति ।

ननु प्रबलमपि न जानासि किमु समबलमित्यस्ति कश्चिदतिशय इति मन्वानं प्रत्याह– किं चेति । सुवचत्वाद्वादिनेति योज्यम् । परस्येति । बाधितानुमानप्रयोक्तुर्वादिन इत्यर्थः । एवमपीति । बाधे प्रबलेति प्रमाणविशेषणस्यात्यशक्तिज्ञापनार्थतया सार्थक्येऽपीत्यर्थः । तदवस्थमेवेति । सम्भाविततत्कृत्यस्य सर्वस्य प्राङ्निरासादिति भावः । प्रबलपदं व्यर्थमित्येव न किन्तु विरुद्धार्थकत्वाच्च नोपादेयमसाधकत्वानुमानमित्याह– किञ्च बाधेऽपीति । इदमसाधकं प्रमाणविरुद्धत्वादित्युक्ते प्रबलप्रमाणविरुद्धत्वस्य स्वाभिमतस्य लाभाद्दोषत्वेन समबलप्रमाणविरोधसाधारण्ये सम्भवति तद्व्यावर्तकत्वाद्धानिकृदेवेत्यर्थः ।।

ननु समबलव्यावृत्त्यर्थकस्य न हानिकरत्वेन विपरीतफलत्वं बाधस्य स्वपक्षस्थापनपरपक्षप्रतिक्षेपलक्षणद्विरूपत्वात् समबले च तदभावादनुकूल-फलमेव प्रबलपदम् । अत एव नानर्थकमपीति चोद्यमनूद्यावद्यति– यद्य-पीत्यादिना । अत्यशक्तिज्ञापनार्थतया सार्थक्येऽतिप्रसङ्गं चाह– किञ्चैवं परस्येति । ननु कथं तर्हि वादकथायां शास्त्रे चानेकदोषः परोक्तानुमानेषु प्रदर्श्यते तत्राप्याधिक्यनिग्रहस्थानापत्तिरित्यत आह– वाद इति । १न तु जल्पादौ । जल्पवितण्डाकथयोर्नानेकोक्तिर्युक्तेत्ययुक्तम् । यावत्स्फुरति द्वयं त्रयं ततोऽधिकं वा तावत्सर्वं वाच्यमिति समयबन्धे सति २तदनुक्तौ दोषाभावादित्यत आह– समयबन्धं विनेति । मणिकृन्मतमाशङ्क्य निराह– नन्विति । अवधृतप्रामाण्यकनिश्चयविषयसाध्याभाववत्पक्षकत्वमित्यर्थः । साध्याभावज्ञानस्य प्रमात्वनिश्चये३ बाध इत्यभ्युपगमाद्विरोधिज्ञानद्वये-त्याद्यग्रेतनग्रन्थाच्च । यद्वा साध्याभावप्रमा बाध इति मतेनेदम् । साध्याभावज्ञानस्य प्रमात्वनिश्चयो बाध इति मतेऽवधृतप्रामाण्यक-निश्चयविषयसाध्याभाववत्पक्षकत्वमर्थमुपेत्य दोषान्तरकथनं विरोधिज्ञान-द्वयेत्यादीति ध्येयम् । इत्युक्तत्वेति । तथा च प्रबलप्रमाणविरोध एव बाधो वाच्यः । तदैव साध्याभावप्रमायाः फलत्वसिद्धिरित्यस्त्येव विशेषण-वैयर्थ्यमिति भावः । विरोधिज्ञानद्वयेति । साध्यतदभावगोचरविरोधिज्ञान-द्वयेत्यर्थः । करणेति । तज्ज्ञानकरणेत्यर्थः । प्रतिरोधे सत्प्रतिपक्षे एवमपि वैयर्थ्यमेवास्मिन् पक्षे प्रभवत्येवेत्याह– किं च प्रतिरोध इवेति । प्रतिरोधेऽपि समबलेत्यस्य व्यर्थत्वादिना ४बलत्वेन विशेषणस्य प्रागुपपादा-नात् प्रतिरोध इवेत्युक्तम् । प्रमात्वेति । साध्याभावज्ञाने प्रमात्वविशेषणे-नेत्यर्थः । अहीनबलप्रमाणविरोधत्वेन वा अहीनबलसाधकविरोधत्वेन वा अहीनबलावगतसाध्याभाववत्पक्षकत्वेन वा प्रतिबन्धसम्भव इत्यर्थः । प्रमितसाध्याभाववत्पक्षकत्वं बाध इति लक्षणेऽव्याप्तिं चाह– किञ्चैवमिति । अव्याप्त्युद्धारमाशङ्कते– अभावेति । प्रमितसाध्यविरोधिमत्पक्षकत्व-मित्यर्थोऽभिमत इति भावः । सिद्धमिति । मदभिप्रेतं सत्प्रतिपक्षसाङ्कर्यं सिद्धमित्यर्थः । तत्कथमित्यतो व्यनक्ति– दूषकेति । वाद्युक्तस्थापनानु-मानप्रतिभटतया प्रतिवाद्युक्तेत्यर्थः । तथा च प्रतिपक्षोऽप्येवमेवेति बाधप्रतिपक्षयोरेकदूषणत्वमेव प्राप्तमिति पञ्चेति विभागभङ्ग इति भावः । प्रहतेति । सर्वावगतप्रमाणविरोधरूपमार्गत्यागेनेत्यर्थः । अस्तु नाम को दोष इत्यत आह– अत्र चेति ।।

ननूक्तरूपाणां त्रयाणां मध्ये द्वयं लिङ्गरूपम् । एकं तु लिङ्गिभूतम् । तत्र ताभ्यां लिङ्गाभ्यामनुमितमेकं बाधत्वेन दूषणमस्त्विति चेत् किं लिङ्गं किं लिङ्गीति निर्धारकप्रमाणाभावात् । अनुभवविरुद्धं चैतदित्यप्याह– अन्येति । द्वितीय इति । सर्वं वेति पक्षे ।। हेत्वाभासाधिक्यमिति ।। पञ्चभ्योऽधिकहेत्वाभासगणनापात इत्यर्थः । मण्याद्युक्तलक्षणानि निराह– एतेनेति । वैयर्थ्यादिति । तथोपपादितत्वादिति भावः । केनचिदुक्तं लक्षणान्तरं चाव्याप्त्या निराह– एतेनैवेति । अनुव्याख्याने चेति । युक्तिपादे न विलक्षणत्वाधिकरणानुव्याख्यान इत्यर्थः । तयोरिति । बाधप्रतिपक्षयोरित्यर्थः । प्रमाणलक्षणवाक्ये आह– असिद्धिरित्यादि । असिद्धत्वादिरूपेणेति । असिद्धित्वाव्याप्तित्वसाध्यविकलत्वसाधन-विकलत्वरूपेणेत्यर्थः । उक्तमिति । प्रमाणलक्षण इत्यनुकर्षः । प्रमाणविरुद्धत्वेनैकीकरणे प्रमाणपद्धतिविरोधमाशङ्क्य तदभिप्रायोक्त्या निराह– या त्विति । विभज्येति । समबलप्रमाणविरोधे सत्प्रतिपक्षस्यान्तर्भावः बाधस्य प्रबलप्रमाणविरोध इति विभज्यान्तर्भावोक्त्यर्थं चेत्यर्थः । सुधयेति । प्रागुक्तानुव्याख्यानव्याख्यानरूपया युक्तिपादीयसुधयेत्यर्थः । समाध्यन्तर-मप्यन्यापदेशेनाह– केचित्त्विति ।।

अत्रारुचिबीजं तु असाधकत्वज्ञापनमात्रेण परस्य पराजये किमत्यन्ता-साधकत्वज्ञापनेन । ग्रन्थान्तरे पृथगुक्तिस्तु पररीत्याऽपि सम्भवति । अत एव साध्याप्रसिद्धेरदोषत्वेऽपि ‘‘अनिर्वचनीयासिद्धेरप्रसिद्धविशेषणः पक्ष’’ इति पररीत्या तत्र तत्र व्यवहार इति ।।

।। इति बाधप्रतिरोधयोः प्रतिज्ञार्थप्रमाणविरोधत्वेनैक्यम् ।। २९ ।।