अनन्तकल्याणगुणैकराशिमशेषदोषोज्झितमप्रमेयम्

।। श्रीः ।।

श्री व्यासतीर्थयतिविरचितं

प्रथमपरिच्छेदः

मङ्गलाचारणम्

तर्कताण्डवम्

अनन्तकल्याणगुणैकराशिमशेषदोषोज्झितमप्रमेयम् ।

मुमुक्षुभिस्सेव्यमनन्तसौख्यप्रदं रमेशंप्रणमामि नित्यम्

।। १ ।।

श्रीशपादाम्बुजासक्तः करुणापूरशीतलः ।

मध्वाख्यो मरुदंशो मे सन्तापान् हन्तु सन्ततम् ।। २ ।।

आनन्दतीर्थोपदिष्टो निधिर्नारायणाह्वयः ।

प्रदर्शितो येन सम्यग् जयतीर्थं तमाश्रये ।। ३ ।।

श्रीमदानन्दतीर्थार्यस्वामिनः कमलापतेः ।

प्रीतये क्रियते व्यासयतिना तर्कताण्डवम् ।। ४ ।।

श्रीराघवेन्द्रयतिविरचितः

न्यायदीपः

विश्वोत्पत्तिस्थितिध्वंसकारणं रमणं श्रियः ।

प्रणम्य पूर्णबोधादीन् व्याकुर्वे तर्कताण्डवम् ।।

गुरुपादकृताऽप्यस्ति व्याख्या साऽत्यन्तविस्तरा ।

व्याख्येयं मन्दबोधाय क्रियतेऽशेषगोचरा ।।

ग्रन्थादौ विशिष्टेष्टदेवतानतिरूपं मङ्गलमाचरति ।। अनन्तेति ।। सत्त्वादिषु गुणत्वप्रसिद्धेः दुःखादीनां गुणत्वेन परैः परिगणनाच्च तद्व्युदासाया-नन्दज्ञानबलद्युतिप्रभृतिशुभधर्मलाभाय कल्याणगुणेत्युक्तिः । तार्किकरीत्या गुणगुणिनोर्भेदभ्रमनिरासाय गुणैकराशिमित्युक्तिः । ‘‘अष्टावेवेश्वरे गुणा’’ इति धीनिरासायानन्तेति । ‘‘दोषैकदृक् पुरोभागी’’ इत्यमरे ‘‘ह्लादैकमयीं’’ इत्यादिकाव्यप्रकाशादौप्रयोगदर्शनात् सङ्ख्यार्थकस्यैवैकशब्दस्य ‘‘पूर्वकालैक’’ इति पूर्वनिपतो न केवलार्थस्येति तत्वनिर्णयटीकाद्युक्त्या गुणैकराशिमित्यस्य साधुत्वं ध्येयम् । उक्तरूपगुणानां मुख्यराशिमिति वा भेदशून्यराशिमिति वाऽर्थः ।

गुणवद्दोषो नाशङ्क्य इत्याह ।। अशेषेति ।। चिन्तासन्तापादिदोषहीन-मित्यर्थः । ननु गुणविशिष्टस्य मायाशबलत्वात्कथं दोषोज्झितत्वमित्यतो नेदं मायाशबलमिति भावेनोक्तं अप्रमेयम्, देशतोऽपरिच्छिन्नमिति । शबलं तु परिच्छिन्नमित्यभ्युपेतत्वादिति भावः । तत्र हेतुर्नित्यमिति । अनिवर्त्यम् । शबलं तु मिथ्यात्वान्निवर्त्यमित्यर्थः । एवं देशकालगुणानन्त्य-रूपब्रह्मशब्दार्थस्यात्रोक्त्या रमेश एव ब्रह्मशब्दार्थ इति सूचितम् । अत एव मुमुक्षुभिः सेव्यम्, न तु मन्दोपास्यमित्यर्थः । किं फलम् ? अनन्त-सौख्यप्रदम्, अविनाशिसुखप्रदमित्यर्थः । स्वार्थे ष्यञ् । अत्र न्यायचिन्तापरे ग्रन्थे ब्रह्मतन्त्राध्यायचतुष्टयोक्तगुणवैशिष्ट्योक्तिः,

‘‘प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।

 मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम्’’

इत्युक्त्या ब्रह्मतन्त्रोक्तप्रमेयनिर्णयोपयुक्तप्रमाणन्यायचिन्तापरत्वा-त्तद्विषयादिनैवास्य विषयादिमत्तेति सूचनार्था । एवं च न्यायपञ्चाध्यायानुरोधेन कुसुमाञ्जलौ पञ्चपरिच्छेदकृतिवद् ब्रह्मतन्त्रानुरोधेन परिच्छेदचतुष्टये कार्येऽपिप्रमाणत्रित्वद्योतनाय परिच्छेदत्रयकृतिरिति ।। १ ।।

देवतानतिसमनन्तरं भाष्यकर्तॄनर्थयते ।। श्रीशेति ।। अत्राद्येन विशेषणेन सौरभ्यस्य द्वितीयेन शैत्यस्य अंश इति मान्द्यस्य वायुगुणस्योक्ति-र्ज्ञेया । टीकाकर्तॄन् नमति ।। आनन्देति ।। फलोक्तिपूर्वं चिकीर्षितंप्रतिजानीते ।। श्रीमदिति ।। २-४ ।।

श्रीलक्ष्मीनाथतीर्थकृत

तर्कताण्डवटीका

व्यासतीर्थयतीन्द्रेण पूजितं पुरुषोत्तमम् ।

श्रीकृष्णमाश्रये नित्यं सर्वाभीष्टफलप्रदम् ।। १ ।।

पूर्णबोधान्गुरून्वन्दे योगपूर्ण ........ (तृटितमस्ति)

गुरुप्रसादो बलवानिति वेदविनिर्णयः ।। २ ।।

जयतीर्थाख्यतरणिं जगदीशप्रदीपकम् ।

सेवे सेवकभक्तस्य चाज्ञानतिमिरापहम् ।। ३ ।।

व्यासतीर्थार्यमहिमा वर्णितुं केन शक्यते ।

येन वैष्णवसिद्धान्तो विख्यातस्तमहं भजे ।। ४ ।।

यदनुग्रहमात्रेण विदुषामग्रणीर्भवेत् ।

तं यादवेन्द्रमनिशं मम विद्यागुरुं भजे ।। ५ ।।

शब्दे तर्के च वेदान्ते भाट्टे प्राभाकरे तथा ।

रामचन्द्रगुरोस्तुल्यः कोनु वा वर्तते भुवि ।। ६ ।।

लक्ष्मीवल्लभयोगीन्द्रं लक्षणार्यमहं भजे ।

वचसा मनसा नित्यं गुरुराजशिखामणिम् ।। ७ ।।

व्यासतीर्थार्यवरदस्वामिनः कमलापतिः ।

प्रीतये क्रियते तर्कताण्डवस्य प्रकाशनम् ।। ८ ।।

तर्कताण्डवविख्यातो ग्रन्थोयं तर्कवादिनाम् ।

कर्कशो हृदयस्यार्थो व्यज्यते विदुषां मुदे ।। ९ ।।

क्व तर्कताण्डवं चाहं क्वचाल्पमतिमान्भुवि ।

यते च तस्य टीकार्थं व्यासतीर्थकृपावशात् ।। १० ।।

भाष्यानुभाष्यादिग्रन्थेषु तट्टीकासुधादिग्रन्थेषु अल्पमतीनामन्यथाप्रतीत्या प्राप्तं विरोधं परिहर्तुं तर्कताण्डवाख्यं ग्रन्थं कर्तुकामा व्यासतीर्थार्याः अविगीतशिष्टाचारपरम्पराप्राप्तमिष्टदेवताप्रणामरूपं मङ्गलमादावाचरन्ति ।। अनन्तेति ।। रमेशं प्रणमामीति योजना । उत्तमपुरुषप्रयोगादहमिति लभ्यते । नमनस्य भक्तिपूर्वकत्वं प्रेत्युपसर्गेणद्योतयति । भक्तिपूर्वकनमनस्यैव सकलपुरुषार्थसाधनत्वादिति भावः ।

रमायाः सकलविद्याभिमानिदेवतात्वेपि जगन्मातृत्वेपि पतिपारतन्त्र्येणैव तद्वन्दनं कार्यमिति द्योतयितुमाह ।। रमेशमिति ।। आरभमाणस्य तर्कताण्डवस्य१ प्रकरणत्वद्योतनाय तदारम्भोपयुक्तमङ्गलाचरणे तत्प्रतिपाद्य-गुणवत्वेन रमेशं विशिनष्टि ।। अनन्तेति ।। सत्वादीनां शब्दरसादीनां दुःखादीनां च गुणत्वप्रसिद्धेः तद्व्युदासाय कल्याणेत्युक्तम् ।

अनन्ताः अपरिमिताः प्रत्येकं पूर्णाः कल्याणगुणाः तेषां राशिः समुदायः । गुणस्वरूपमिति यावत् । गुणविजातीय२जनकर्मादिव्यावृत्त्यर्थं एकेत्युक्तम् । स च एकशब्दः केवलार्थोत्र विवक्षितः । तेन परनिपातो युक्तः । ततश्च केवलसद्गुणस्वरूप इति फलितोर्थः । कल्याणगुणास्तेषा-मेकराशिः । गुणैकस्वरूपः । तमित्यर्थः । अनेन परमात्मनस्तद्गुणानां च भेदं वदन्तो नैय्यायिकादयो निरस्ताः भवन्ति । यद्यपि पूर्वकालैकसवजग-त्पुराणनवकेवलाः समानाधिकरणेन इत्यनेन एकशब्दस्य पूर्वनिपातो वक्तव्य-स्तथापि दोषैकदृक्पुरोभागी आल्हादमयीत्यादिप्रयोगदर्शनात्सङ्ख्यार्थस्यैक-शब्दस्य पूर्वनिपातेपि केवलार्थस्यैकशब्दस्य न पूर्वनिपातः ।

एवं प्रथमाध्यायार्थमुक्त्वा द्वितीयाध्यायार्थवत्त्वेनापि रमेशं विशिनषि्ट ।। अशेषेति ।। जरामरणपारतन्त्र्यादिसमस्तदोषरहितमित्यर्थः । तृतीयाध्यायार्थवत्त्वेनापि विशिनष्टि ।। मुमुक्षुभिः सेव्यमिति ।। यद्वा सगुणस्य मायाशबलितत्त्वेन कथमशेषदोषोज्झितत्त्वमित्यत आह ।। मुमुक्षुभिः सेव्यमिति ।। चतुर्थाध्यायार्थवत्त्वेनापि विशिनष्टि ।। अनन्तसौख्यप्रदमिति ।। नाशरहितस्वरूपानान्दप्रदमित्यर्थः । मुक्तानामिति शेषः । उक्तं च–

अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।

आनन्ददश्च मुक्तानां स एवैको जनार्दनः ।।

इति । उक्तविशेषणेषु सम्भावकमाह ।। अप्रमेयमिति ।। साकल्येन सकलवेदाद्यगोचरमित्यर्थः । अनन्तकल्याणगुणान्तर्गतजगत्कर्तृत्त्वा- न्यथानुपपत्तिलब्धविग्रहवत्त्वात् विग्रहस्य च१ नाशविनाभावात् अनित्यत्तवं देहहानिर्दुःखप्राप्तिरपूर्णता इत्यत आह ।। नित्यमिति ।।

अनित्यत्त्वं देहहानिर्दुःखप्राप्तिरपूर्णता ।

नाशश्चतुर्विधो ज्ञेयः तदभावो हरेस्स्मृतः ।।

इत्यादिप्रमाणोक्तचतुर्विधनाशरहितम् । अथवा नित्यं सर्वदा अनन्त-सौख्यप्रदमिति योजनीयम् । अनेन कालान्तरे रुद्रादेः मोक्षदत्वं निराकृतं भवति ।। १ ।।

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।

इति वचनाद्देवताप्रणामानन्तरं गुरून्प्रार्थयते ।।

श्रीशेति ।। श्रीशः रमेशः । तस्य पादौ अम्बुजे इति तयोः आसक्तः निरतिशयभक्तियुक्तः । करुणाख्यपूरेण शीतलः । मध्व इत्याख्या नाम यस्य सः । मरुदंशः मरुतः वायोः तृतीयांशः । सन्तापान् । सन्ततं निरन्तरम् । नाशयत्वित्यर्थः ।। २ ।।

ग्रन्थकरणे स्वप्रकाश्यग्रन्थकर्तृटीकाकारस्याश्रयणमावश्यकमिति मनसि निधाय तस्यातीव माहात्म्यं प्रकटयन्नाह ।। आनन्देति ।। नारायणाख्य-निधिः सर्वपुरुषार्थसाधनभूतः आनन्दतीर्थोपदिष्टः अस्तीत्येवोपदिष्टः । येन जयतीर्थाख्येन सम्यक्प्रदर्शितः । तं जयतीर्थं आश्रये ग्रन्थकरणसमये तदीयप्रसादो मे भवत्वितु भावः ।। ३ ।।

वेदव्यासेन क्रियमाणे वैष्णवमतोद्धारे आचार्याणां प्रथमाङ्गत्वं जयतीर्था-चार्याणां द्वितीयाङ्गत्वमिति द्योतयितुं द्वयोरेव वन्दनं कृत्वा प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तते इति न्यायात्कीदृशप्रयोजनायेदं ग्रन्थकरणमित्यपेक्षायां परमप्रयोजनं संज्ञया वदन्स्वनामपूर्वकं चिकीर्षितं प्रतिजानीये ।। श्रीमदानन्देति ।। अनेनादावानन्दतीर्थस्य प्रीत्यर्थं अनन्तरं रमायाः प्रीत्यर्थं अनन्तरं सर्वोत्तमस्य श्रीकृष्णस्य प्रीत्यर्थं तर्कताण्डवाख्यग्रन्थः क्रियते । तेषां प्रीतिः परमपुरुषार्थप्राप्तय इति भावः । तर्कताण्डवमित्यने-नावान्तरप्रयोजनं सूचितम् । तर्केन नर्तनं क्रियत इत्यनेन तार्किकमतदूषण-स्यावान्तरप्रयोजनत्वलाभात् । अनेनैवानन्दतीर्थानां प्रीतिः परमप्रयोजन-मित्येतत्प्राच्युक्तमुपपादितं भवति । यद्वा तर्के ब्रह्मतर्कादिरूपे तदुक्त-प्रमेयविषये इति यावत् । ताण्डवं नर्तनं क्रियते । तदीयप्रमेयसाधाना-हितोल्लासादिनेति भावः ।। ४ ।।

Load More