यत्तु मणौ– वैकल्पिकव्रीहियवसाध्ये यागे..
४९. अथ व्रीहियवसाध्ये यागे वैजात्यभङ्गः ।
तर्कताण्डवम्
यत्तु मणौ– वैकल्पिकव्रीहियवसाध्ये यागे तृणारण्यादिजन्य-वह्निष्वव वैजात्यमस्त्यन्यथा हि व्यभिचरितयोः व्रीहियवयोर-व्यभिचारगर्भितं यागहेतुत्वं न स्यात् । तथा च व्रीहिभिर्यजेतेत्यादि-श्रुतिरप्रमाणं स्यात् ।
न चैवं विजातीययागसाध्यं१ स्वर्गादिफलं प्रति द्वारभूतेऽपूर्वेपि वैजात्यं स्यादिति शङ्क्यम् । विद्यमानमपि यागगतं वैजात्यमनादृत्य ज्योतिष्टोमत्वेनैव स्वर्गसाधनत्वस्य श्रुत्या बोधितत्वात् । व्रीहिर्भिर्यजेतेत्यादौ तु व्रीहित्वादेरादरादिति ।
तन्न । शक्तिवादिनो मम मते तृणारण्यादावप्येकशक्तिकत्वेन अनुगमस्योक्ततया व्रीह्यादावप्येकशक्तिकत्वेनानुगमे व्यभिचारा-भावात् ।
।। व्रीहियवसाध्ये यागे वैजात्यभङ्गः ।। ४९ ।।
न्यायदीपः
एवमपूर्वं समर्थ्य तस्यैकजातीययागसाध्यत्वेनैवैकजात्यं न पुनर्विजातीय-यागजन्यत्वेप्यैकजात्यमिति भावेन मण्युक्तयागवैजात्यमनूद्य निराह ।। यत्तु मणाविति ।। वैकल्पिकेति ।। ‘‘व्रीहिभिर्यजेत, यवैर्यजेत’’ इत्यादि-वाक्यश्रुतयोः व्रीहियवयोरग्नेययागे विकल्पेन साधनत्वं ‘‘एकार्थास्तु विकल्पे-रन् समुच्चये ह्यावृत्तिः स्यात्प्रधानस्य’’ इति द्वादशाध्यायतृतीयपादे समर्थित-त्वात् वैकल्पिकव्रीहियवेत्युक्तम् ।
।। अन्यथा हीति ।। एैकजात्येहि व्रीह्यभावेपि यवैः यवाभावे च व्रीहिभिर्यागोत्पत्त्या व्यतिरेकव्यभिचरितयोरित्यर्थः । ज्योतिष्टोमत्वेनेति दृष्टान्तार्थमुक्तम् । ज्योतिष्टोमत्वेनेव दर्शपूर्णमासत्वेनैव रूपेणाग्नेयादेः स्वर्ग-साधनत्वस्य ‘‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’’ इति श्रुत्या बोधितत्वा-दित्यर्थः ।
नन्वेवं व्रीहियवयोरौषधद्रव्यत्वेनैव साधनताबोधोस्तु । तथा च तज्जन्ययागे वैजात्यं मास्त्वित्यत आह ।। व्रीहिभिरिति ।। आद-रादिति ।। अन्यथा अतिप्रसङ्गादिति भावः ।। उक्ततयेति ।। तृणादी-नामेकशक्तित्वसाधनवादे ।
।। व्रीहियवसाध्ययागे वैजात्यभङ्गः ।। ४९ ।।