अमुख्यवृत्तौ गौणीतो लक्षणा जघन्या
७२. अथ लक्षणातो गौण्याः प्राबल्यनिर्णयः
तर्कताण्डवम्
अमुख्यवृत्तौ गौणीतो लक्षणा जघन्या ।
ननु–
न तावद्गौण्यां प्रथमोपस्थितसादृश्य एव तात्पर्यम् लक्षणायां तु प्रथमोपस्थितसम्बन्धद्वारा पूतत्वादाविति लक्षणा विलम्बितत्वा-ज्जघन्येति युक्तम् । लक्षणायामपि मञ्चाः क्रोशन्तीत्यादौ मञ्चसम्बन्ध एव तात्पर्यात् ।
नापि गौण्यां तात्पर्यविषये सिंहसादृश्ये निरूपकतया सिंहोनु-प्रविष्टः, लक्षणायां तु तात्पर्यविषये पूतत्वादौ गङ्गा नानुप्रविष्टेति लक्षणा मुख्यार्थासंस्पर्शिनीति जघन्या ।
काकेभ्यो दधि रक्ष्यतामित्यादावपि काकशब्देन दध्युपघातकस्यैव विवक्षितत्वान्न मुख्यार्थसंस्पर्श इति युक्तम् । मञ्चाः क्रोशन्तीत्यादावपि सम्बन्धनिरूपकतया मञ्चानुप्रवेशात् ।
न्यायदीपः
एवं मुख्यवृत्तित्रये प्राबल्यदौर्बल्ये निरूप्यामुख्यवृत्त्योरपि ते आह ।। अमुख्यवृत्ताविति ।। जातावेकवचनम् । जघन्या ।। निकृष्टेत्यर्थः ।।
स्वयं प्रधानबाधादिना लक्षणाया जघन्यत्वं विवक्षुर्लक्षणाजघन्यत्वे प्रकारान्तरेण प्रसक्तं हेतुचतुष्टयं क्रमेणानूद्य निराह ।। ननु न ताव-दित्यादिना अत्रोक्तं सुधायामिति पर्यन्तेन ।। उक्तं विलम्बितत्वं लक्षणायामसिद्धमित्याह ।। लक्षणायामपीति ।। नापीति ।। युक्त-मित्यन्वयः ।
क्वचिदजहत्स्वार्थलक्षणादावस्ति मुख्यार्थकाकादिसंस्पर्श इत्यत आह ।। काकेभ्य इति ।। सम्बन्धेति ।। मञ्चसम्बन्धिपुरुषाः क्रोशन्तीत्यर्थतया मञ्चानां सम्बन्धनिरूपकत्वेन लाक्षणिकार्थेनुप्रवेशादित्यर्थः ।
तर्कताण्डवम्
नापि– सिंहशब्दस्य येन माणवकेनान्वयानुपपत्तिः तत्रैव माणवके वृत्तेर्गौण्यां१ शैघ््रयम् । गङ्गाशब्दस्य तु येन घोषेणान्वयानुपपत्तिस्तं विहायान्यत्र तीरे वृत्ते२र्लक्षणायां मान्द्यम् ।
न च नीलो घट इत्यादौ गुणवाचिनो नीलशब्दस्य येन घटेनान्वयानुपपत्तिस्तत्रैव लक्षणा दृष्टेति वाच्यम् । गुणगुणिनोरभेदेऽ-नुपपत्त्यभावेन भेदे च मतुब्लोपेन तत्र लक्षणाया एवाभावात् ।
लाङ्गलं जीवनमित्यादौ यद्यपि जीवनशब्दस्य येनलाङ्गलेनान्वया-नुपपत्तिस्तत्रैव लाङ्गले वृत्तिस्तथापि अतिप्रियत्वादिना सादृश्याज्जीवन-शब्दो लाङ्गले गौण एव न तु लाक्षणिक इति युक्तम् । गौण्यामपि सिंहस्याध्ययनमित्यादौ अध्ययानान्वयानुपपत्त्या माणवकपरत्वे मान्द्यात् ।।
न्यायदीपः
।। नापीति ।। युक्तमिति दूरेऽन्वयः ।। अन्वयेति ।। अभेदादिरूपा-न्वयानुपपत्तिरित्यर्थः ।। घोषेणान्वयेति ।। आधाराधेयरूपान्वयानु-पपत्तिरित्यर्थः ।। तत्रैव लक्षणेति ।। नीलवान्घट इति मतुबर्थलक्षणेत्यर्थः ।। अभेदे ।। अभेदवादे ।
।। भेदे चेति ।। गुणगुणिनोर्भेदवादे चेत्यर्थः ।। मतुब्लोपेनेति ।। ‘‘तदस्यास्त्यस्मिन्निति’’ सूत्रे ‘‘गुणवचनेभ्योमतुबो लुग्वक्तव्यः’’ इत्यनुशासनादिति भावः ।। लाङ्गलेनान्वयेति ।। अभेदान्वयानु-पपत्तिरित्यर्थः ।
।। सादृश्यादिति ।। जीवनं यथातिप्रियं लाङ्गलमप्येवमिति सादृश्या-दित्यर्थः ।। गौण्यामपीति ।। मान्द्यादित्यन्वयः । यथालक्षणायां येनान्वयानुपपत्तिस्तं विहायान्यत्र वृत्तिरिति मान्द्यमुक्तमेवं सिंहस्य गुरूच्चारणानूच्चारणरूपाध्ययनान्वयानुपपत्त्या सिंहपदस्य सिंहसदृशमाणवक-परत्वस्य वाच्यत्वान्मान्द्यं सममेवेत्यर्थः ।
तर्कताण्डवम्
नापि नयविवेकोक्तरीत्या सिंहो माणवक इत्यत्र सिंहपदं न माणवकमात्रपरम् । पुनरुक्तेः । नापि सादृश्यमात्रपरम् । माणवकपदेन सामानाधिकरण्यायोगात् । किन्तु सादृश्यविशिष्टपरमिति पदतात्पर्य-पूर्विका वाक्यतात्पर्यधीः ।
गङ्गायां घोष इत्यत्र तु गङ्गापदं तीरमात्रपरम् । तीरवाचि-पदान्तराभावात् । गङ्गासम्बन्धस्तु द्वारमित्यादौ द्वाररूपेणार्थेन पिधानमिव घोषरूपेणार्थेनोपस्थापितस्तमादाय १सम्बन्धे वाक्यतात्पर्ये ज्ञाते पदानां सम्भूयकारित्वाद् गङ्गापदस्य सम्बन्धे पश्चात्तात्पर्यधीरिति लक्षणा विलम्बितेति युक्तम् । लक्षणायां वाक्यतात्पर्यबुद्धेः प्राथम्योक्तौ वाक्यार्थप्रमारूपफले लक्षणाया एवाग्रेसरत्वेन तस्या एव प्राबल्यापातात् । सति गङ्गापदे सम्बन्धस्य प्रथममर्थेन उपस्थापना-सम्भवाच्च ।
अन्यथा द्वारं पिधेहीत्यादावपि प्रथमं द्वाररूपार्थोपस्थापितं पिधानमादाय वाक्यतात्पर्ये ज्ञाते पश्चात्पिधेहिपदस्य पिधाने तात्पर्यधीरिति स्यात् ।
तस्माच्चतुर्धाऽपि लक्षणा गौणीतो न जघन्येति ।
अत्रोक्तं सुधायाम्–
‘‘अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि ।
पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात्’’
इत्यनुव्याख्यानव्याख्यावसरे– तत्त्वमसीत्यत्र गौणी चेत्प्रधानं पदद्वयं मुख्यार्थम् । अप्रधानं सामानाधिकरण्यमात्रं सादृश्येगौणम् । पररीत्या लक्षणा चेत्पदद्वयममुख्यार्थं, सामानाधिकरण्यमात्रं मुख्यमिति प्रधानबाधादनेकबाधाच्च लक्षणा जघन्येति ।
न्यायदीपः
।। नापीति ।। अत्रापि युक्तमिति दूरेन्वयः ।। पदतात्पर्येति ।। सिंहासादृश्यविशिष्टे सिंहपदस्य १यत् तात्पर्यं तद्धीपूर्विका सादृश्यविशिष्टस्य माणवकस्य चाभेदरूपवाक्यार्थे पदद्वयसमभिव्याहाररूपवाक्यस्य यत्तात्पर्यं तद्धीरित्यर्थः ।
२।। सम्बन्ध इति ।। विषयसप्तमी । घोषरूपार्थोपस्थापितसम्बन्धयुक्ते वाक्यतात्पर्ये ज्ञात इत्यर्थः ।। विलम्बितेति ।। वाक्यतात्पर्यज्ञानानन्तरमेव लाक्षणिकपदस्य तात्पर्यज्ञानमिति विलम्बः । गौण्यां तु पूर्वमेव पदतात्पर्य-धीरिति गौणी श्लाध्येति भावः ।। अग्रेसरत्वेन ।। प्रथमप्रवृत्तत्वेनेत्यर्थः ।
यदपि गङ्गासम्बन्धो घोषरूपार्थेनोपस्थित इति कथनं तदपि नेत्याह ।। सतीति ।। अन्यथेति ।। सत्यपि पदेर्थेनैव पदार्थोपस्थापनाङ्गीकार इत्यर्थः ।
।। चतुर्धापीति ।। गौण्यां प्रथमोपस्थितसादृश्य एव तात्पर्यं मुख्यार्थ-संस्पर्शित्वं अनुपपद्यमानान्वयप्रतियोगिवृत्तित्वेन शीघ्रत्वं पूर्वमेव गौणपद-तात्पर्यज्ञानमित्येवं चतुःप्रकारेण गौण्याः श्रेष्ठत्वं उक्तचतुष्टयवैपरीत्याल्लक्षणायां जघन्यत्वमित्येतन्नेत्यर्थः ।। अनुव्याख्यानेति ।। वियत्पादे ‘‘पृथगुपदेशाद्’’ इत्येतदनुव्याख्यानेत्यर्थः ।
औतवादिभिः खलु तत्त्वम्पदयोर्विरुद्धस्वार्थैकदेशलक्षणाया सामा-नाधिकरण्यमात्रं मुख्यमङ्गीकृतमित्यादि सुधावाक्यार्थं निष्कृष्यानुवदति ।। तत्त्वमसीत्यत्रेति ।। जघन्येति ।। इतिशब्दस्येत्युक्तंसुधायामिति पूर्वेणान्वयः ।
तर्कताण्डवम्
अयं च न्यायो यद्यपि तत्त्वमस्यादिवाक्य एव । सिंहश्चैत्र इत्यत्र सिंहसम्बन्धिनि सिंहसदृशे च चैत्रे च लक्षणा चेत्सिंहप्रातिपदिकस्यैव बाधेनानेकबाधाभावात् । तथाप्येकस्यापि प्रधानस्य बाधात्तत्रापि लक्षणा जघन्येति ज्ञेयम् ।।
न्यायदीपः
नन्वत्र द्वितीयो हेतुर्न सार्वत्रिक इति कथं सर्वत्र लक्षणाया जघन्यत्वं साधयेदित्याशङ्कामनूद्य क्वाचित्काभिप्रायिक एवायं हेतुरिति परिहरति ।। अयं चेति ।। द्वितीयो हेतुरित्यर्थः ।
वस्तुतो लक्षणास्थलेपि नानेकबाध इति दर्शयितुं सिंहसम्बन्धीत्युक्तम् । गौणस्थलेपि लक्षणास्वीकारेयं न्यायो नेतिदर्शयितुं सिंहसदृशे चेत्युक्तम् ।
तर्कताण्डवम्
न च सामानाधिकरण्यस्य बाधेप्यनेकविभक्तिबाध इति वाच्यम् । नीलं घटमानयेत्यादौ विशेष्यविभक्त्या घटगतकर्मत्वादेरुक्त्या विशेषण-विभक्तेरेवाभेदार्थकत्वेन तन्मात्रबाधात् । वक्ष्यमाणरीत्या तस्या अप्यबाधाच्च । बहुत्वप्रयुक्तबलादपि स्वभाव बलस्य बलवत्त्वाच्च । प्रातिपदिकप्राधान्यं च प्रयाजशेषेणेत्यादौ सिद्धम् ।।
न्यायदीपः
सिद्धान्ते प्यनेकबाधमाशङ्क्य निराह ।। न चेति ।। अनेकेति ।। पूर्वोत्तर-पदगतप्रथमाविभक्त्योः मुख्याभेदार्थत्वादिति भावः । इति न च वाच्यमित्यस्य तन्मात्रबाधादित्युत्तरम् । कुतो विशेषणभूतसिंहप्रातिपदिक-निष्ठविभक्तिमात्रबाध इत्यतो १यथा विभक्त्या मुख्याभेदो लभ्यते तन्मात्रस्यैव सादृश्याभेदार्थकत्वे मुख्यार्थत्यागेन बाधः । अभेदावगमश्चैकयेत्युक्तम् ।। विशेषणेति ।। कुत एतदित्यत उक्तं इत्यादौ विशेष्येत्यादि ।। वक्ष्य-माणेति ।। शूरत्वेनाभेदे सतीत्यादिग्रन्थेन वक्ष्यमाणेत्यर्थः ।
अनेकविभक्तिबाधं गौण्यामभ्युपेत्यापि लक्षणाया जघन्यत्वमाह ।। बहुत्वेति ।। स्वभावबलस्येति ।। प्रातिपदिकबलस्यानन्यप्रयुक्तत्वा-त्स्वभावबलस्येत्युक्तम्–
‘‘द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोः स्वभावो बलवान् . . . . . ’’
इति तत्त्वनिर्णयोक्तेरिति भावः ।
ननु– प्रधानबाधाल्लक्षणा जघन्येत्युक्तिरयुक्ता, प्रातिपदिकप्राधान्यस्या-सिद्धेरित्यत आह ।। प्रातिपदिकेति ।। प्रयाजेति ।। चतुर्थेभिघारणे विप्रकर्षादनुयाजवदभेदः स्यादित्याद्यपादीयत्रयोदशाधिकरणे प्रयाजशेषेण हवींष्यभिघारयतीति वाजपेयगतवाक्ये श्रुतमभिघारणं किं हविः संस्कारार्थमुत प्रतिपत्तिरिति सन्दिह्य हवींषीति द्वितीयया शेषेणेति तृतीययाच प्रधानोप-सर्जनभावावगमात् हविःसंस्कारार्थमिति पूर्वपक्षयित्वा शेषस्य प्रतिपत्त्य-पेक्षत्वाच्छेषपदप्रतिपादकस्वारस्येन प्रयाजशेषं हविःषु क्षारयेदिति प्रतिपत्ति-रेवाभिघारणमिति सिद्धान्तितत्वादिति भावः ।
नन्वत्र न प्रातिपदिकत्वनिमित्तं तत्प्राधान्यं किं तु शेषपदत्वप्रयुक्तमिति चेत् । किं तावता । प्रातिपदिकप्राधान्यानिरासात् । अथैतावता न परितुष्यसि तर्ह्यादिपदोपात्तोऽदितिः पाशान्प्रमुमोक्त्वित्यादिरन्यो दृष्टान्तोऽस्तु । तत्र बहुवचनानुरोधेन बहुपाशयुक्तेषु पशुगणेषु पाशमन्त्रस्योत्कर्षमकृत्वा प्रातिपदिकानुरोधेनैकपाशयुक्ताग्नीषोमीयपशुप्रकरण एव निवेश इति नवमे व्युत्पादितत्वादिति ध्येयम् ।
तर्कताण्डवम्
न च लक्षणायामपि गङ्गापदं मुख्यार्थमेव, सप्तम्येव प्रवाहस्यैव परम्परया घोषाधारतायाममुख्येति वाच्यम् । प्रवाहस्य परम्परयाप्य-नाधारत्वात् । तीराधारताया एवाभिप्रेतत्वाच्च । अनुव्याख्यानोक्तं सादृश्यस्य गौणाभेदत्वं तु चैत्रे शूरत्वेन सिंहाभेदे सत्यपि औत्सर्गि-कस्य पदार्थतावच्छेदकसिंहत्वेनाभेदस्याभावात् ।
उक्तं ह्यनुव्याख्याने–
‘‘चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते ।
अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित्’’ इति ।
न्यायदीपः
लक्षणायां गौणीतौल्यमाशङ्क्य निराह ।। न चेति ।। घोषाधारतीर-सम्बन्धवत्त्वमेव परम्परया तदाधारत्वमिति वादिनं प्रत्याह ।। तीरेति ।। तीरस्य घोषं प्रत्याधारताया इत्यर्थः । तथाच लक्षणायां प्रधानप्राति-पदिकार्थस्यैव बाधात्सा जघन्येति भावः ।
ननु– सिह्मश्चैत्र इत्यत्र गौण्या सिह्मसदृशश्चैत्र इत्यर्थः । तत्र सादृश्यविशिष्टचैत्रयोरभेदस्य मुख्यत्वादभेदस्य गौणतोक्तिरयुक्तेत्यत आह ।। अनुव्याख्यानेति ।। अभेदवदैवैता इत्यादि प्रागुदाहृतानुव्याख्या-नोक्तमित्यर्थः । पदार्थतावच्छेदकादन्येन धर्मेणाभेदोस्तीत्यत्र सम्मतिमाह ।। उक्तं हीति ।। ‘‘पृथगुपदेशात्’’ इत्यधिकरणानुव्याख्यान इत्यर्थः ।
तर्कताण्डवम्
सन्न्यायरत्नावल्यां तु– तत्त्वमसीत्यत्रापि जगत्स्रष्टृपरामर्शिनः तच्छब्दस्यैव त्वंशब्दवाच्ये जीवेगौणवृत्त्याश्रयणेन तत्त्वम्पदयोरु-भयोरपि लक्षणाश्रयणस्य पराहतत्वादिति तत्पदस्यैव गौणत्वमुक्तम् । तदपि तत्त्वमसीत्यादिप्रस्तुतपरमेव । फलतः सुधोक्तसादृश्याभेद-पर्यवसितं च ।
सुधामतेऽपि सिह्मस्याध्ययनमित्यादौ सामानाधिकरण्या-भावात्सिह्मप्रातिपदिकमेव सदृशे गौणम् । अत एव न्यायामृते तत्पदस्यैव गौणत्वमुक्तमस्माभिः ।
तर्हि लक्षणाया जघन्यत्वे अनुगतो हेतुः क इति चेदुच्यते । गौण्यां सादृश्यान्तर्गणिकभेदे सत्यपि सादृश्यत्वरूपेणानुगते तात्पर्य-मित्येकार्थघटादिपदादाविव तात्पर्यविषये द्राग्धीः । लक्षणायां तु क्वचित्सम्बन्धे तात्पर्यं, क्वचित् तद्द्वारा पूतत्वे, क्वचिच्छीतलत्वादा-विति, वैरूप्यान्नानार्थाक्षादिशब्दादाविव विलम्बेन तद्धीरिति लक्षणा जघन्या ।।
न्यायदीपः
सुधापक्षे प्राचीनटीकाविरोधनिरासाय तदुक्तमनूद्य तदभिप्रायमाह ।। १न्यायरत्नावल्यां त्विति ।। तत्पदस्यैव गौणत्वमुक्तमित्यन्वयः । न तु सुधापक्ष इव सामानाधिकरण्यं गौणमित्युक्तमित्येवकारार्थः ।। प्रस्तुतेति ।। तेन सिह्मश्चैत्र इत्यादौ पदद्वयास्वारस्याभावादव्यापकत्वं न्यायस्य न दोष इति भावः ।
।। सुधोक्तसादृश्याभेदेति ।। सामानाधिकरण्यं गौणमित्यापि सादृश्या-भेदाभिप्रायकत्वादिति भावः । कुत एवमित्यत आह ।। सिंहेति ।। तर्हीति ।। गौण्यामेकमेव पदमस्वरसं लक्षणायां पदद्वयमित्यस्य तत्त्वमसीति प्रस्तुतवाक्यमात्रपरत्वे गङ्गायां घेष इत्याद्यनुगतो हेतुः क इत्यर्थः ।
।। गौण्यामिति ।। तात्पर्यविषये द्राग्धीरित्यन्वयः ।। अन्तर्गणिक-भेद इति ।। शूरत्वेन पवित्रत्वेन ज्ञानानन्दाद्यात्मकत्वेनावयवसंस्थान-विशेषत्वादिरूपेण नानात्वेपीत्यर्थः ।। सम्बन्ध इति ।। मञ्चाः क्रोशन्ती-त्यादौ सम्बन्धे गङ्गायां घोष इत्यादौ पूतत्वे, इदं गङ्गोदकमित्यादौ शीतल-त्वादावित्यर्थः ।
तर्कताण्डवम्
केचित्तु गौण्यां सादृश्यं सर्वत्र विशेषणं, लक्षणायां सम्बन्धस्तु क्वचिदेवेति लक्षणा जघन्येत्याहुः ।
अन्येतु– पूर्वपक्षोक्तौ विलम्बौ मुख्यार्थासंस्पर्शश्च लक्षणायां प्रायिकत्वाज्जातिप्रयुक्तौ । गौण्यां तु क्वाचित्कत्वान्न तत्प्रयुक्ताविति गौणीजातीयाल्लक्षणाजातीयं जघन्यमित्याहुः ।
न्यायदीपः
स्वमते जघन्यत्वमुपपाद्य परोक्तं जघन्यत्वप्रकारत्रयमाह ।। केचित्त्वित्यादिना ।। विशेषणमिति ।। वृत्तिजन्यधीविषय इत्यर्थः ।। क्वचिदेवेति ।। मञ्चाः क्रोशन्तीत्यादावित्यर्थः । गङ्गायां घोष इत्यादौ पूतत्वादेरेव विशेषणत्वादिति भावः ।
अत्रारुचिबीजं तु– मुख्यार्थसम्बन्धोपि सर्वत्र विशेषणमेवेत्यर्थस्य लाक्षणिकादेः शक्यार्थसम्बन्धित्वादिनैव लक्ष्याद्युपस्थापकत्वसमर्थनवादे व्यक्तत्वादिति ध्येयम् ।
।। पूर्वपक्षोक्ताविति ।। पूर्वपक्षग्रन्थे सिह्मशब्दस्य येन माणवकेना-न्वयानुपपत्तिस्तत्रैवेत्यादिना नयविवेकोक्तरीत्येत्यादिना चोक्तौ विलम्बौ इत्यर्थः ।। मुख्यार्थासंस्पर्शश्चेति ।। पूर्वपक्षोक्त इति विपरिणामेनानुषङ्गः । प्रायिकत्वात् बाहुल्यात् । जातिप्रयुक्तौ औत्सर्गिकौ, मुख्यार्थासंस्पर्शो जाति-प्रयुक्त इत्यपि योज्यम् ।
।। न तत्प्रयुक्ताविति ।। सिंह्मस्याध्ययनमित्यादिना लक्षणाया एवाग्रे-सरत्वेनेत्यादिना च पूर्वपक्षोक्तौ विलम्बावित्यनुकर्षः । अत्रापि स्वोक्तदिशा गौणीमात्रतो न लक्षणामात्रस्य जघन्यत्वम् । यत्र गौण्यां विलम्बस्तत्र जघन्यत्वाभावात् । किं तु तज्जातीयात्तज्जातीयस्येत्यरुचिबीजं ध्येयम् ।
तर्कताण्डवम्
अपरे तु न क्वापि लक्षणायां मुख्यार्थसम्बन्धे तात्पर्यम् । किं तु तत्परिचायिते तीरादिगते विशेषे । एवं चोक्तौ विलम्बौ मुख्यार्थस्य तात्पर्यासंस्पर्शश्च लक्षणायां सार्वत्रिकाः । गौण्यां तु न क्वचिदपीति गौणी ज्यायसी ।
सिंहस्याध्ययनमित्यादावप्येकत्र निर्णीतः शास्त्रार्थ इति न्यायाद् बुद्धिस्थमाणवकपरत्वम् । गौडमठे चैत्रगृहे मैत्रो वसतीत्यादावप्य-व्यवहितत्वसादृश्याद्गौडमठशब्दश्चैत्रगृहे गौण एव । न तु सबन्धा-ल्लाक्षणिकः । उक्तरीत्या बाधलाघवादित्याहुः ।
तस्माद्गौणीतो लक्षणा जघन्या ।
तदुक्तं सन्न्यायरत्नावल्याम् ‘‘पूर्वायोगे परग्रहः’’ इत्यनुव्याख्यान-व्याख्यानावसरे– परममुख्यार्थासम्भवे मुख्यार्थः स्वीकार्यः । तद-सम्भवे गौणार्थः । तदसम्भवे लाक्षणिक इति ।
न्यायदीपः
।। तत्परिचायितेति ।। तटस्थभूतेन तेन व्यावर्तित इत्यर्थः ।। विशेष इति ।। पूतत्वशीतलत्वादिरूप इत्यर्थः ।। उक्ताविति ।। पूर्वपक्ष-दशायामुक्तावित्यर्थः ।
ननु– सिंहस्याध्ययनमित्यादौ अध्ययनान्वयानुपपत्त्या माणवकपरत्वेन मान्द्यादिति गौण्यामपि विलम्ब उक्तः पूर्वपक्षग्रन्थ इत्यत आह ।। सिंहस्येति ।। शास्त्रार्थ इत्यनन्तरमपरत्रेति शेषः । एवं प्रकृतेपि सिंहो माणवक इत्यत्र निर्णीतः शास्त्रार्थो माणवकान्वयानुपपत्त्या माणवकपरत्व-रूपोपरत्र सिंहस्य अध्ययनमित्यादावपि ग्राह्य इत्यर्थः ।
यत्तु गौडमाठ इत्यस्य गौडमठसामीप्यलक्षणकत्वमुक्तं तन्नेत्याह ।। गौडमठ इति ।। गौडमठैकदेशो गौडमठाव्यवहितो यथा तथा चैत्रगृहमपीत्यर्थः ।। उक्तरीत्येति ।। नीलङ्घटमानयेत्यादौ विशेष्य-विभक्तेरित्यादिनोक्तरीत्या चैत्रमठपदगतविभक्तिमात्रबाधादित्यर्थः ।
अत्रापि मञ्चाः क्रोशन्तीत्यादौ मुख्यार्थसम्बन्धे तात्पर्यदृष्टेर्नक्वापि तत्र तात्पर्यमित्ययुक्तमित्यादि ध्येयम् । सुधादावस्फुटत्वादाह ।। तदुक्तमिति ।।
तर्कताण्डवम्
अत्र चानुव्याख्यानोक्तपूर्वत्वं,
‘‘. . . . . . . विष्णावन्यत्र मुख्यता ।
उपलक्षणा च गौणी च त्रिस्रः शब्दस्य वृत्तयः’’ ।
इति न व्यवहितोद्देश्याभिप्रायेण । किन्तु,
‘‘प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः’’ ।
इति अव्यवहितलक्षणोक्त्यभिप्रायेण ।
अत एव तत्रोत्तरत्र–
‘‘मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ।
सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः’’ ।
इति गौणस्य प्राथम्योक्तिः । न्यायविवरणेपि रूढोपचारो रूढ-लक्षणा उपचारो लक्षणेति गौण्याः प्राथम्योक्तिः । गौण्यामपि अनिरूढगौणी निरूढगौणीतो जघन्या । एवं लक्षणायामपि द्रष्टव्यम् ।
।। लक्षणातो गौण्याः प्राबल्यनिर्णयः ।। ७२ ।।
न्यायदीपः
ननु– सन्न्यायरत्नावल्युक्तिरयुक्ता । ‘‘तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता’’ इति श्लोके गौणीतो लक्षणायाः पूर्वमुद्दिष्टत्वात्तदनुरोधेन लक्षणायोगे गौणग्रह इत्येव वक्तव्यत्वादित्यत आह ।। अत्र चेति ।। अव्यवहि-तेति ।। पूर्वत्रिपाद्या प्रकृतलक्षणेत्यर्थः ।
कुत एवं व्यवहितोद्देशाभिप्रायेण गौण्या जघन्यत्वोक्तिरनुव्याख्यानाभिमता किं न स्यादित्यत आह ।। अत एवेति ।। गौण्या ज्यायस्त्वादेवेत्यर्थः । न्यायविवरणनिर्देशादपि सूचितमित्याह ।। न्यायविवरणेपीति ।। गौण्यामपीति ।।
एतेनामुख्यवृत्तिष्वपि स्वीकारे तारतम्यमस्ति अर्थप्रतीतिसन्निकर्ष-विप्रकर्षाभ्यामिति सुधोक्तिरपि व्याख्याता भावति ।
।। लक्षणातो गौण्याः प्राबल्यनिर्णयः ।। ७२ ।।
।। समाप्तः वृत्तित्रयवादः ।।