नचोक्तहेतूनामप्रयोजकता
अपौरुषेयत्वे अनुकूलतर्कः
तर्कताण्डवम्
नचोक्तहेतूनामप्रयोजकता । यदि वेदः पौरुषेयः स्यात् तर्हि
‘‘यतस्ता हरिणा दृष्टाः श्रुता एवाखिलैर्जनैः ।
श्रुतयो दृष्टयश्चेति तेनोच्यन्ते पुरातनैः ।’’
इत्यादिस्मृतिष्वीश्वरेणापि दृष्टत्वस्यैवोक्तिर्न स्यात् । वेदाध्येतॄणां तत्र कर्तृविशेषस्मृतिश्च स्यात् । मुक्तकश्लोकादौ तन्नियमाभावेऽप्य-नेककर्तृकाविच्छिन्नाध्ययनधारणादिमत्युरुतरप्रबन्धात्मके भारतादौ तन्नियमात् । एतेन कर्तृस्मरणस्याविध्यर्थत्वादिति निरस्तम् ।
वेदेप्रतिकल्पमनियतान्यनेकानुपूर्व्याणि तेषां यथावदध्ययनानि चाभ्युदयकारणानि, अन्यथाध्ययनानि च वाग्वज््रातयानर्थकारणानि, अभ्युदयादीनि च विजातीयकारणजन्यत्वात्तार्णाद्यग्निवद्विजातीयानीति कल्प्यत्वात् कल्पनागौरवं च स्यात् । अन्यथेश्वर एकस्मिन्नेव कल्प एकस्मा एकयानुपूर्व्या विशिष्टवेदमुपदिश्यान्यस्मा अन्ययानुपूर्व्या विशिष्टमुपदिशतीति स्यात् । एककल्पीयायाः पूर्वस्या आनुपूर्व्या अपि २स्मरणान्न तत्त्याग इति चेत्तत्किमीश्वरः कल्पान्तरीयां पूर्वा-मानुपूर्वीं व्यस्मार्षीत् ।
धर्मादिसिद्धिश्च न स्यात् ।प्रकारान्तरेण तदसिद्धेरुक्तत्वात् । वेदस्य पौरुषेयत्वे ईश्वरस्य बुद्धजिनादिना, वेदस्य च बुद्धाद्यागमा-दिना, तुल्यताया अपरिहार्यत्वेन, वेदप्रामाण्यं च न स्यात् ।
न्यायदीपः
पौरुषेयत्वरूपविपक्षे बाधकानि विवक्षुस्तत्त्वनिर्णयोदाहृतब्रह्माण्डस्मृतौ दृष्टत्वोक्तिविरोधं तावदाह ।। यदीत्यादिना ।। पौरुषेय इति ।। स्वतन्त्रपुरुषेणेश्वरेणप्रणीतो यदीत्यर्थः । श्रुता एव न तु कृता इत्यर्थः । दृष्टा एवेत्यप्येवकारान्वयमुपेत्याह ।। दृष्टत्वस्यैवेति ।। ‘‘वेदकर्तुरप्रसिद्धेः’’ इति तत्त्वनिर्णयवाक्यसूचितं बाधकमाह ।। वेदेति ।। यदीत्याद्यापादकानु-वृत्तिः सर्वत्र ज्ञेया ।
मुक्तकश्लोका नाम तत्र तत्र नानाग्रन्थस्थाः ततस्तत उद्धृता इति वा,प्रबन्धेष्वनिबद्धा एव तेन तेन पुरुषेण कृताः सुभाषितश्लोका इत्याहुः ।
।। अनेकेति ।। अनेककर्तृकं यदविच्छिन्नमध्ययनं यच्च तादृशं धारणं अविस्मरणेनानुसन्धानं आदिपदोक्तप्रवचनादिकं तद्वतीत्यर्थः । तथाचाल्प-प्रबन्धे तदभावेऽपि भारतादाविवोक्तविशेषणवत्युरुतरप्रबन्धे वेदे स्यादेव कर्तृस्मृतिरध्यापकानाम् । न च साऽस्तीति भावः ।
एतेन गूढकर्तृकवाक्ये सत्यपि पौरुषेयत्वे कर्तृस्मृतिर्नेति व्यभिचार इतिप्रत्युक्तम् । उक्तविशेषणवत्युत्तरप्रबन्धे तस्यावश्यकत्वादिति ।
एतेन ‘‘कपिलकणादगौतमैस्तच्छिष्यैश्चाद्यपर्यन्तं वेदे सकर्तृकत्व-स्मृतिरस्ति’’ इति मणिकुसुमाञ्जल्यादावुक्तं निरस्तम् । अध्यापकानां स्मृतेरसिद्धेः ।
यत्तु सुधायां ‘‘किञ्चेश्वरः सर्गादौ यं वेदं निर्मायैकस्मै शिष्यायोपदिशति तमेवान्यस्मा उपदिशति वेदान्तरं वा’’ इत्यादिनोक्तं तदपि बाधकं स्पष्टं विवृण्वन्नाह ।। वेद इत्यादिना ।। आनुपूर्व्याणीत्यस्य, कारणान्यनर्थ-कारणानीत्यनयोश्च, ‘‘इति कल्प्यत्वात्’’ इत्यनेनप्रत्येकमन्वयः ।। यथावदिति ।। तस्मिंस्तस्मिन्कल्प इत्यर्थः ।। वाग्वज्रतयेति ।। वाग्रूपवज्रतयेत्यर्थः ।
‘‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात्’’ ।
इत्यादेरिति भावः ।
।। अभ्युदयादीनि चेति ।।प्रतिकल्पं जायमानानि स्वर्गादीनीत्यर्थः ।। विजातीयेति ।। भिन्नभिन्नानुपूर्वीरूपत्वाद्विजातीयकारणेत्यर्थः ।। तार्णेति ।। तृणजन्याग्नावरणिजन्याग्नितो वैजात्यम् आरणेयाग्नौ च तार्णाद्यग्नितो वैजात्यं यथा त्वन्मते तथेत्यर्थः । एतच्चाग्रे तृणादीनामेक-शक्तिसाधनवादे द्वितीयपरिच्छेदे व्यक्तम् ।
ननूक्तकल्पनाचतुष्टयमपि न दोषायेत्यतः प्रागुक्तापाद्यस्यानिष्टत्वद्योतनाय विपक्षे बाधकमाह ।। अन्यथेति ।। उक्तकल्पनाचतुष्टयस्य गौरवतया दोषत्वानभ्युपगम इत्यर्थः ।। इति स्यादिति ।। गौरवस्य तवादोषत्वादिति भावः । वैलक्षण्यमाशङ्क्य समंप्रकृतेऽपीति भावेनाह ।। एकेत्यादिना ।।
‘‘न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् ।’’
इत्यनुभाष्याद्युक्तबाधकञ्चाह ।। धर्मादीति ।। यदि वेदः पौरुषेयः स्यादित्यनुवृत्तिः ।। उक्तत्वादिति ।। न च हेतुत्रयेऽपि विशेषणासिद्धि-रित्यादिग्रन्थेनेत्यर्थः । अन्यत्रादृष्टस्य सर्वज्ञत्वस्य कल्पनमित्यत्र तत्त्वनिर्णयटीकायां तर्हि जिनादावपि तत् स्यादित्यापादितं साम्यमीश्वर-वादेऽपि सममिति भावेनाह ।। वेदस्य पौरुषेयत्व इति ।। ईश्वरकृतत्व इत्यर्थः ।। बुद्धजिनादिनेति ।। ईश्वरसार्वज्ञ्यवद् बुद्धादावपि तद्भावस्या-पादनसम्भवादिति भावः ।