अथानुमानदोष उच्यते

अथ स्वाभिमतानुमानदोषः ।। २२ ।।

तर्कताण्डवम्

अथानुमानदोष उच्यते ।।

यत्सद्भावे लिङ्गाभिमतं प्रमां न जनयति सोऽनुमानदोषः । प्रमाजनकत्वाभावश्च संशयविपर्ययजनके ज्ञानाजनके चानुगतः ।।

स च त्रिविधः । प्रतिज्ञाहेतुदृष्टान्तभेदेन । तत्र प्रतिज्ञातार्थस्य प्रमाणविरोधः प्रतिज्ञादोषः । स द्विविधः । बलवत् प्रमाणविरोधः । समबलप्रमाणविरोधश्चेति । हीनबलस्याकिञ्चित्करत्वात् । समबलत्वं चाभिमानिकम् ।।

द्वयमपि पुनस्त्रिविधम् । प्रत्यक्षानुमानागमविरोधभेदात् । अनुमानविरोधोऽपि द्विविधः । तेनैव हेतुना हेत्वन्तरेण चेति । तत्राद्यः परैः प्रकरणसम इत्युच्यते । द्वितीयस्तु सत्प्रतिपक्ष इति । न चाद्योऽसम्भवी । एकस्मिन् पक्षे साध्यतदभावव्याप्ययोरिवैकस्मिन् हेतौ साध्यतदभावव्याप्त्योरप्यभिमानतः सम्भवात् ।।

हेतोः साध्यप्रमाजननसामर्थ्याभावो हेतुदोषः । स द्विविधः असिद्धिरव्याप्तिश्चेति । समुचितदेशे हेतोरभावोऽसिद्धिः । व्याप्ति-विरहोऽव्याप्तिः । सा च त्रेधा सम्भवति । साधनस्य साध्याभावेनेव साध्येनाप्यसम्बन्धेन सत्यपि साध्यसम्बन्धे तदभावेनापि सम्बन्धे साध्याभावेनैव सम्बन्धेन चेति ।।

व्याप्तिग्रहणानानुकूल्यं दृष्टान्तदोषः । स द्विविधः । साध्यवैकल्यं साधनवैकल्यं चेति । तत्र प्रमाणविरोधाख्य आद्यो दोषः प्रत्यक्षागम-साधारणः । इतरौ त्वनुमानासाधारणौ ।

उक्तं हि प्रमाणलक्षणटीकायाम् । अत्र प्रतिज्ञाविरोधः साधारणः । इतरौ त्वसाधारणाविति । न च १हैतुदोषविभागस्य न्यूनता । पराभिमताः सव्यभिचारविरुद्धव्याप्यत्वासिद्धयो अव्याप्तावन्तर्भूता इति बाधप्रतिरोधौ तु हेतुदोषावेव नेति, आश्रयासिद्धिव्यधिकरणासिद्धी तु सत्यां व्याप्तौ न दोषाविति वक्ष्यमाणत्वात् । सिद्धसाधनस्य तु मन्मते स्वार्थानुमानेऽदोषत्वात् । परार्थानुमाने चासङ्गतावन्तर्भावात् । अनुकूलतर्काभावस्य प्रतिकूलतर्कस्य चाव्याप्तावन्तर्भावात् । उपाधेरपि सत्प्रतिपक्षेऽव्याप्तौ चान्तर्भावस्योक्तत्वात् । व्यर्थविशेषणादे-श्चाधिक्येऽन्तर्भावात् ।। तस्मादसिद्धिरव्याप्तिश्चेति द्वावेव हेतुदोषौ ।।

न्यायदीपः

निर्दोषोपपत्तिरनुमेत्युक्तम् । तत्र दोषज्ञाने सत्येव तद्विविक्ततयोपपत्तिः सुज्ञानेत्यतः ‘अथ निर्दोषोपपत्तिरनुमानमित्युक्तम् । के तत्रोपपत्तिदोषा’’ इत्यादिना पद्धत्याद्युक्तेष्वनुमानदोषान्निष्कृष्य विवृण्वान आह– अथेति । एवमनुमानोपयुक्ताशेषोक्त्यनन्तरमित्यवसरसङ्गतिमथपदेन सूचयति । अनुमानपदेनात्र लिङ्गत्वेनाभिमतमुच्यते । तथा चार्थदोषोक्तेरेवेयं प्रतिज्ञा न तु वचनदोषस्यापि । तस्यापि परम्परयाऽर्थदोषत्वेऽपि साक्षादर्थदोष एवात्रोच्यत इत्यर्थः । उपलक्षणमेतत् । प्रतिज्ञादृष्टान्तदोषश्चेच्यत इत्यपि ध्येयम् ।।

यद्वाऽनुमानदोष एतावानिति निष्कृष्योच्यत इत्यर्थः । प्रतिज्ञादृष्टान्त-दोषोक्तिरग्रेतनी अनुमानदोषविवेकार्था । अथवा अनुमानपदेनात्र प्रतिज्ञा-दृष्टान्तरूपपरिकरसहितं लिङ्गमुच्यते । तस्य दोष इत्यर्थः । अत एवाग्रे प्रतिज्ञादित्रितयदोषसाधारणं सामान्यलक्षणमुच्यते ।।

यत्सद्भाव इति । व्याप्त्यादिमल्लिङ्गस्य प्रमितिजनकत्वनियमाद-सम्भवनिरासाय लिङ्गमित्यनुक्त्वा लिङ्गाभिमतमित्युक्तम् । स्वज्ञानद्वारेति योज्यम् । लिङ्गाभिमतस्य प्रमित्यजनकतापादकत्वं दोषत्वमित्यर्थः । एतस्य ज्ञानमात्राजनके संशयविपर्ययजनके च भावाद१व्याप्तिरित्याह– प्रमाजन-कत्वाभावश्चेति । चशब्देन ज्ञानाजनकग्रहः । पद्धत्यादौ यत्सद्भावे लिङ्गाभिमतं ज्ञानं न जनयति, संशयविपर्ययौ वा करोती’त्युक्तिस्तु विस्पष्टा-र्थेति भावः । परोक्तहेत्वाभासानां सर्वेषां न हेतुदोषत्वं किं तु केषाञ्चिदेवेति वक्तुं विभागमाह– स चेति, प्रतिज्ञेति । प्रतिज्ञाहेतुपदाभ्यां तदर्थग्रहणम् । यद्वाऽर्थदोष एव तद्बोधकवचनस्यापीति प्रतिज्ञाहेत्वित्येवोक्तम् । ‘त्रिविधो विरोधः प्रतिज्ञाहेतुदृष्टान्तभेदेने’’त्यादि प्रमाणलक्षणानुरोधेनायं निर्देशोऽग्रे लक्षणोक्तिरपीति ज्ञेयम् । साध्यधर्मविशिष्टो धर्मी प्रतिज्ञातार्थः तस्येत्यर्थः । हीनबलप्रमाणविरोधस्यापि सत्त्वात् त्रिविध इति वाच्यमित्यत आह– हीनबलस्येति । वस्तुनो द्वैरूप्यापातेन समबलत्वमसम्भावितमित्यत आह– समेति । पुनस्त्रिविधमिति । समबलप्रत्यक्षविरोधः, प्रबलप्रत्यक्ष-विरोधः, समबलानुमानविरोधः, प्रबलानुमानविरोधः, समबलागमविरोधः, प्रबलागमविरोध इति त्रिविध इत्यर्थः । त्रिविधमध्ये द्वितीयमपि विभज्याह– अनुमानेति ।।

ननु पक्षद्वयेऽपि त्रिरूपो हेतुः प्रकरणसम इति समबलो भवति । स च न युक्तः । शब्दोऽनित्यः गुणत्वात्, शब्दो नित्यः गुणत्वादित्यत्रा-नित्यत्ववादिनो हि घटरूपादिः सपक्षः, नित्यत्ववादिनः स एव विपक्षः । तथा च सपक्षे सत्त्वं ततो व्यावृत्तत्वं च द्वयमेकस्य न युक्तम् । अत उभयनिरूपितव्याप्त्योरेकत्रायुक्तत्वात्तेनैव हेतुना विरोधोऽसम्भवीत्याशङ्क्य निराह– न चाद्य इति । व्याप्ययोरिवेति । सत्प्रतिपक्षहेत्वोरिवेत्यर्थः । एकस्यैव हेतोः, वादिनः साध्यव्याप्यत्वाभिमानः, प्रतिवादिनस्तदभावव्याप्य-त्वाभिमान इति सपक्षसत्त्वादिकमप्यभिमानत एवेति ध्येयम् । एवं प्रतिज्ञादोषं निरूप्य हेतुदोषमाह– हेतोरिति । लिङ्गस्येत्यर्थः । सामर्थ्येति । व्याप्तिसमुचितदेशवृत्तित्वरूपसामर्थ्याभाव इत्यर्थः । अनुगतसामान्याभावे विभागायोगात्पद्धत्याद्यनुक्तमपि स्वयमाह– व्याप्तीति । अन्यथानुपपत्ति-रूपव्याप्तिविरह इत्यर्थः । साधनस्य साध्याभावेनेवेत्यादित्रयमपि परैः क्रमादसाधारणानैकान्तिकसाधारणानैकान्तिकविरुद्धशब्दैर्गीयते ।।

प्रतिज्ञाहेतुदोषौ निरूप्य दृष्टान्तदोषमाह– व्याप्तीति । ग्रहणपदेन प्रमाग्रहः । यस्मिन् सति व्याप्तिर्न प्रमातुं शक्यते स दृष्टान्तदोषः । एवं विरोधत्रयं निरूप्य तद्विवेकमाह– तत्रेति । प्रतिज्ञाहेतुदृष्टान्तविरोधमध्ये । इतरौ त्विति । हेतुदृष्टान्तदोषौ । निरूपितविभागस्य फलं वक्तुमाह– न चेति । परोक्तानां सव्यभिचारविरुद्धसत्प्रतिपक्षबाधितानां मण्याद्युक्तानां तदवान्तरभेदानां च बहूनां सत्त्वात् । तेषां चेहापरिगणनादिति भावः । कुतो न न्यूनतेत्यत आह– पराभिमता इति । इतिशब्दद्वयस्याप्यग्रेतनेति-शब्दस्येव वक्ष्यमाणत्वादित्यनेनान्वयः । असङ्गताविति । विरोधोऽसङ्गति-श्चेति द्वावर्थदोषौ । तत्र विरोधस्यैवात्र प्रपञ्चनं कृतम् । न त्वसङ्गतेः । सा त्वाकाङ्क्षाविरहोऽसङ्गतिरित्यादिना पद्धत्यादौ प्रपञ्चितेतीह त्यक्ता । इष्टापत्तिः सिद्धसाधनत्वादसङ्गतमेवेति प्रमाणलक्षणाद्युक्तेरिति भावः । उक्तत्वादिति । उपाधेर्दूषकताबीजोक्तिप्रस्तावे उक्तत्वादित्यर्थः ।।

व्यर्थेति । यद्यपि, ‘विशेषणे, वैयर्थ्यमेकासिद्धौ च विशिष्टासिद्धिरेव हि’ इति भक्तिपादीयानुव्याख्यानसुधायां विशेषणवैयर्थ्ये तु विशिष्टस्य व्याप्यत्वाभावाद्दोषत्वमित्युक्तम् । तथाऽपि यद्वाऽऽधिक्यान्तर्भूतमेवैतदित्य-प्युक्तत्वादेवमुक्तमित्यदोषः ।।

।। स्वाभिमतानुमानदोषः ।। २२ ।।