असाधारणत्वमपि सर्वसपक्षविपक्षव्यावृत्तत्वं चेत् विशेष्य-वैयर्थ्यम्
अथासाधारणस्याव्याप्तावन्तर्भावः ।। ३२ ।।
तर्कताण्डवम्
असाधारणत्वमपि सर्वसपक्षविपक्षव्यावृत्तत्वं चेत् विशेष्य-वैयर्थ्यम् । प्रत्युत सर्वविपक्षव्यावृत्तत्वं गुण एव । न तु दोषः । न च विरुद्धव्यावृत्त्यर्थं तत् । दूषकताबीजैक्येन तस्यापि सङ्ग्राह्य-त्वात् ।।
यच्चोक्तम् । असाधारणे उभयव्यावृत्तत्वमेव दूषकताबीजं तच्च विरुद्धे नास्तीति न दूषकताबीजैक्यम् । असाधारणस्य लक्षणं तु सर्वसपक्षव्यावृत्तत्वं तदेवोद्भाव्यमसाधकतासाधकं च । दूष्यानुमान-साध्याभावोपपादकत्वात् । न तु विपक्षव्यावृत्तत्वमपीति । तन्न । अदूषकताबीजेनासाधकतासाधने अप्रयोजकत्वापातात् । न ह्यन्यस्य भुक्त्याऽन्यस्य तृप्तिः ।।
तर्हि सर्वसपक्षव्यावृत्तत्वमेव दूषकताबीजं लक्षणम् उद्भाव्यमसाधकतासाधकं च । विरुद्धोऽपि विरुद्धत्वाज्ञाने सर्वसपक्ष-व्यावृत्तत्वज्ञानदशायामसाधारण एव । न चास्याव्याप्तावन्तर्भावः । पक्षादन्यत्र साध्याभावस्य सत्त्वेऽपि तत्र हेतोरभावात् । पक्षे हेतुसत्त्वेऽपि साध्याभावानिश्चयादिति चेन्न । तथाऽप्यसाधारण-स्यानुकूलतर्कानवतारदशायां तर्काभावादेव सन्दिग्धव्याप्तिकत्वेना-व्याप्तावन्तर्भावात् । तर्कावतारदशायां तु असाधारण्यादुत्तीर्णत्वेन हेत्वाभासत्वस्यैवाभावात् । असाधारणो ह्यनित्यदोषः इदमेव ह्यभिप्रेत्य सुधायामसाधारणस्य दूषणत्वासम्मतेरित्युक्तम् ।।
यद्वाऽसाधारणः सर्वसाध्यवद्व्यावृत्त्या साध्याभावव्याप्तो वा सर्वसाध्याभाववद्व्यावृत्त्या साध्यव्याप्तो वेति सन्देहेनाव्याप्ता१वन्त-र्भावः ।।
अथ वाऽसाधारणस्य पक्षमात्रवृत्तित्वेन नान्वयव्याप्तिधीः । नापि व्यतिरेकव्याप्तिधीः । यत्र नित्यत्वाभावः तत्र शब्दत्वाभाव इति व्यतिरेकव्याप्तेर्यत्रानित्यत्वाभावः तत्र शब्दत्वाभाव इति प्रतिकूलया व्यतिरेकव्याप्त्या प्रतिरुद्धत्वात् । तस्मात् व्याप्तिप्रमित्यसिद्धावव्याप्ता-वन्तर्भावः । अत एव प्रमाणलक्षणटीकायां पक्ष एव वर्तमानत्वेन व्याप्तेरग्रहणादित्युक्तम् ।।
यद्वाऽसाधारणः पक्षे साध्यसन्देहात्सन्दिग्धाव्याप्तः । दृष्टं च पक्ष एव व्यभिचारसन्देहस्य दोषत्वम् । स श्यामो मित्रातनयत्वादित्यादौ । तनयान्तरे श्यामत्वनिश्चयात् ।।
ननु तत्र संशयः उपाध्याहितः । स एव च संशयोऽनुमिति-प्रतिबन्धकः । फलबलेनैव तथा कल्पनात् । न त्वन्यः । तस्यानु-मानाङ्गत्वात् । सदनुमाने तु संशयो नोपाध्याहित इति । अन्यथाऽनु-मानमात्रोच्छेदादिति चेत् । इहापि संशयः सर्वसपक्षविपक्ष-व्यावृत्त्याहितः स एव च संशयः प्रतिबन्धकः । फलबलात् । सदनुमाने तु संशयो न तदाहित इति नातिप्रसङ्गः ।।
किंचेह साध्याभावसंशयो हेत्वधिकरणत्वेन ज्ञायमाने सर्वस्मि-न्नप्यस्ति । अत्र हेतोः सर्वसपक्षव्यावृत्ततया सन्दिग्ध-साध्यवन्मात्रवृत्तित्वात् । स एव संशयः प्रतिबन्धकः । फलबलात् । सदनुमाने तु हेतुः सन्दिग्धसाध्यवत्पक्षवृत्तिरपि सन्दिग्धसाध्य-वन्मात्रवृत्तिर्न । निश्चितसाध्ये सपक्षेऽपि वृत्तेः ।।
ननु सन्दिग्धसाध्यवन्मात्रवृत्तित्वं सदनुमाने केवलव्यतिरेकिण्य-प्यस्तीति तस्याप्यव्याप्त्यन्तर्भावः स्यादिति चेन्न । अनुकूलतर्का-नवतारदशायामिष्टत्वात् । मदभिप्रेतस्यान्वयव्याप्त्यभावान्त-र्भावस्याहानेश्च । असाधारणे व्यतिरेकव्याप्तिस्तु प्रतिकूलव्यतिरेक-व्याप्त्या प्रतिरुद्धेत्युक्तम् ।।
एतेन सर्वसपक्षव्यावृत्तत्वरूपमसाधारणत्वं विपक्षवृत्तित्वरूपा-व्याप्तेरुपजीव्यमित्यसाधारणत्वमेव दोष इत्यव्याप्त्यज्ञानदशायाम-साधारणत्वमपि दोष इति च निरस्तम् । उपजीव्यत्वेऽपि व्याप्त्याद्य-भावरूपत्वाभावेन स्वतो दूषकत्वाभावात् । व्याप्त्यभावव्याप्यतया दूषकत्वे चाव्याप्त्युन्नायकत्वेनोपाधिवत्स्वतो हेत्वाभासत्वायोगात् । अनुकूलतर्केऽवतीर्णे उत्तीर्णासाधारणत्वे हेतावव्याप्त्यज्ञानदशायां सर्वसपक्षव्यावृत्तत्वज्ञानेऽप्यनुमित्यप्रतिबन्धाच्च । तस्मादसाधारणोऽ-व्याप्तावन्तर्भूत एव । एतदेवाभिप्रेत्य पद्धतौ असाधारणप्रस्तावे ‘‘सर्वथाऽव्याप्तावन्तर्भूत’’ इत्युक्तम् ।।
केचित्तु असाधारणः सर्वसपक्षव्यावृत्तत्वात्साध्याभावस्य, सर्वविपक्षव्यावृत्तत्वात्साध्यस्य च साधक इति सत्प्रतिपक्षान्तर्भूतः । न हि विरोधे स्वभिन्नत्वं तन्त्रम् । गौरवादित्याहुः ।।
न्यायदीपः
साध्यवतस्तदभाववतश्चेत्यादिमण्युक्तं निष्कृष्यानुवदति– यच्चेति । सपक्षविपक्षव्यावृत्तत्वमित्यर्थः । सपक्षव्यावृत्तत्वस्य दूषकत्वे नित्यः शब्दः कृतकत्वात् इत्यादिविरुद्धस्यापि तथात्वाद्विपक्षव्यावृत्तत्वमुक्तम् । विरुद्धस्य विपक्षवृत्तित्वात् । विरुद्ध इत्युपलक्षणम् । सद्धेतौ च नास्तीत्यपि ध्येयम् । अदूषकताबीजेनेति । दूषकताबीजादन्यत्वेनेत्यर्थः । सर्वसपक्षव्यावृत्तत्व-मस्तु मास्त्वसाधकत्वमित्युक्ते बाधकाभावादिति भावः । अन्यस्य दूषकताबीजत्वे तदन्यस्य नासाधकतासाधकत्वमित्येतदर्थान्तरन्यासेन व्यनक्ति– न हीति । सर्वसपक्षव्यावृत्तत्वमात्रमुद्भाव्यमित्यादिमण्युक्तानु-रोधेनाह– तर्हीत्यादि । इदमेवेति । तर्कावतारकालीनादोषत्वमेवेत्यर्थः । ‘‘साध्यव्यापकवैलोम्यमव्याप्ति’’रित्येतद्व्याख्यानावसरे उक्तमित्यर्थः ।।
‘‘सत्यपि सपक्षे तत्रावर्तमानस्य किं व्याप्तिरेव नास्त्युत केवल-व्यतिरेकिवदस्तीति सन्देहावस्कन्दना’’दिति पद्धत्युक्तं हृदि कृत्वाऽऽह– यद्वाऽऽसाधारण इति । व्यतिरेकव्याप्तिसम्भवो१ऽयं न हेत्वाभास इति पद्धत्युक्तं कस्यचिन्मतमपाकुर्वाणः लक्षणटीकारीत्याऽन्तर्भावमाह– अथवेति ।।
ननु न व्यतिरेकव्याप्तिधीरित्ययुक्तम् । व्याप्तिसम्भवेन तद्धीसम्भवा-दित्यतो व्याप्तेः सम्भवेऽपि प्रतिरोधान्न तद्धीरित्याह– यत्रेति । व्याप्तेर-ग्रहणादित्यस्य न पक्ष एव व्याप्तेरनिश्चयात् किं तु सन्देहादित्यप्यर्थमुपेत्याह– यद्वेति । निश्चितसाध्याभाववति हेतुसन्देह इव सन्दिग्धसाध्याभाववति हेतुनिश्चयेऽपि व्यभिचारसन्देहेन सन्दिग्धव्याप्त्यभावरूपत्वात्सन्दिग्धाव्याप्त इत्यर्थः । ‘‘सन्दिग्धे न्यायः प्रवर्तते’’ इत्यनुमानमात्रे साध्यसन्देहस्या-वर्जनीयतया पक्षीयव्यभिचारसन्देहस्य दोषत्वेऽनुमानमात्रोच्छेदात्कथं सन्दिग्धाव्याप्तत्वमित्यतः स्वारसिकस्यादोषत्वेऽप्याहितस्य दोषत्वमेव प्रकृते चाहितसन्देह इति भावेनाह– दृष्टं हीति । उपाधीति । शाकपाक-जत्वोपाधीत्यर्थः । पक्षीयसन्दिग्धव्यभिचारस्य १साधारणे दोषत्वेऽपि न सद्धेतुमात्रोच्छेदः वैषम्यादिति भावेनाह– किञ्चेति । इह असाधारणे । अस्मिन् पक्षे बाधकमाशङ्क्य निराह– ननु सन्दिग्धेति ।।
नन्वेवं व्यतिरेकिवदेवान्वयव्याप्त्यभावेऽप्यसाधारणो हेतुः सद्धेतुः स्यात् । व्यतिरेक्यनुमान इव व्यतिरेकव्याप्तिसम्भवादित्यतस्तद्वैषम्यमाह– असाधारण इति । प्रकारद्वयेन पृथग्दोषत्वमनूद्य निराह– एतेनेति । सर्वसपक्ष-व्यावृत्तत्वमव्याप्तेरुपजीव्यमित्यप्ययुक्तमित्याह– अनुकूलतर्क इति । अव्याप्त्यज्ञानदशायामिति । तथा चान्वयव्यतिरेकाभ्यामव्याप्तिरेव दोष इति भावः । केचिदिति । तार्किकैकदेशिन इत्यर्थः । तदा तु प्रतिज्ञाविरोधेऽन्तर्भावः स्पष्ट इति भावः ।।
इति असाधारणस्याव्याप्तावन्तर्भावः ।। ३२ ।।