अन्येतु सिंहनिष्ठशौर्यादिगुणा लक्ष्यमाणाः सिंहशब्दस्य ..

७०. अथ परोक्तस्य गौण्या लक्षणातो भेदस्य भङ्गः

तर्कताण्डवम्

अन्येतु सिंहनिष्ठशौर्यादिगुणा लक्ष्यमाणाः सिंहशब्दस्य माणवके वृत्तौ निमित्तमित्याहुः । तन्न । व्यधिकरणानां गुणानां माणवके वृत्तौ निमित्तत्वायोगात् । लक्ष्यमाणगुणसादृश्या द्गुणान्तरं ततो गुणी लक्ष्यत इति गौणी लक्षितलक्षणैवेति तु नानुभवानुसारि । किञ्चावश्यकत्वात् लाघवाच्च सिंहेन सह माणवके यत्सादृश्यं तदेव निमित्तं युक्तम् ।

न्यायदीपः

परोक्तभेदप्रकारमनूद्य सुधोक्तदिशा निराह ।। अन्येत्वित्यादिना ।। लक्ष्यमाणेति ।। सिंहो माणवक इत्यादौ ।

‘‘लक्ष्यमाणगुणैर्योगाद्दृत्तिरिष्टातु गौणता’’

इति काव्यप्रकाशिकाद्युक्तदिशा सिंहशब्देन लक्ष्यमाणसिंहनिष्ठगुणानां माणवके सिंहशब्दवृत्तौ निमित्तत्वं न युज्यते । अन्यनिष्ठगुणानामन्यत्र शब्दवृत्तौ निमित्तत्वं न युज्यते । अन्यनिष्ठगुणानामन्यत्र शब्दवृत्तौ निमित्तत्वेऽतिप्रसङ्गात् । सिंहनिष्ठगुणसदृशाः क्रौर्यादयो माणवकनिष्ठा लक्षणीयाः । तैश्च गुणी माणवको लक्ष्यत इति लक्षितलक्षणैव । न तु शुद्धलक्षणेति । लक्षणागौण्योरयमेव भेद इत्यर्थः । अनुभवे विवादिनं प्रत्याह ।। किञ्चेति ।। आवश्यकत्वादिति ।। गुणान्तरलक्षणार्थं मुख्यार्थनिष्ठगुण-सादृश्यस्य त्वयाप्युक्तत्वादिति भावः ।

तर्कताण्डवम्

केचित्तु सादृश्यस्य सम्बन्धविशेषत्वेपि यत्र सम्बन्धत्वेन हेतुता सा लक्षणा, यत्र तु सादृश्यत्वेन हेतुता सा गौणीत्याहुः ।

तन्न । सादृश्यं सम्बन्धविशेषो नेत्युक्तत्वेन क्लिष्टकल्पनायोगात् । यत्र संयोगत्वादिना हेतुता तस्या वृत्त्यन्तरत्वापाताच्च ।

इतरे तु यत्रोपस्थापकस्यापि वाक्यार्थेऽन्वयः सा गौणी । तत्र सादृश्यस्यापि प्रतीतेः । यत्र तु न तस्य वाक्यार्थेन्वयः सा लक्षणा । तत्र सम्बन्धस्याप्रतीते रित्याहुः । तन्न । लक्षणायामपि सम्बन्ध-प्रतीतेरुक्तत्वात् ।

अन्ये तु यत्र धर्मे तात्पर्यं सा गौणी । सिंहो देवदत्त इत्यत्र धर्मिणो देवदत्तपदेनैवोक्तेः । यत्र तु धर्मिंमात्रे तात्पर्यं सा लक्षणा । तत्र तीरस्य पदान्तरेणानुक्तेरित्याहुः । तन्न । सिंहमानयेति गौण्यामपि धर्मिवाचिपदाभावात् ।

अपरे तु सामानाधिकरण्ये गौणी, वैयधिकरण्ये लक्षणेत्याहुः ।

तन्न । अग्नेरध्यनं गङ्गा घोषवतीत्यपि दर्शनात् ।

।। परोक्तस्य गौण्या लक्षणातो भेदस्य भङ्गः ।। ७० ।।

न्यायदीपः

लक्षणागौण्योः प्रकारान्तरेण भेदमनूद्य निराह ।। केचित्त्वित्यादिना ।। हेतुतावच्छेदकभेदाद्भेदे अतिप्रसङ्गमाह ।। यत्र संयोगत्वादिनेति ।।

।। उपस्थापकस्यापीति ।। सादृश्यसम्बन्धयोरमुख्यरूपार्थान्तरोप-स्थापकयोः शाब्दबोधे भानाभाननिमित्तवाक्यार्थान्वयानन्वयाभ्यां गौणलक्षणयो-र्भेदमाहुरित्यर्थः ।

।। उक्तत्वादिति ।। शक्यसम्बन्धित्वेनैव लक्ष्याद्यर्थकत्वसमर्थनवादे उक्तत्वादित्यर्थः । लक्षणावृत्तिलक्षणं गौण्यामप्यस्तीत्याह ।। सिंहमान-येति ।। सिंहसदृशमाणवकमानयेत्यर्थके वाक्य इत्यर्थः ।। सामानाधिकरण्य इति ।। पदस्य पदान्तरेण सामानाधिकरण्ये सतीत्यर्थः । एवमग्रेपि । सिंहश्चैत्र इत्यादावेकविभक्तित्वेन सामानाधिकरण्यं, गङ्गायां घोष इत्यादौ भिन्नविभक्तित्वेन वैयधिकरण्यमिति भावः । माणवकस्याध्ययनमितिवाक्ये माणवके पावित्र्यादिसूचनायाग्निसादृश्यं वक्तुमग्नेरध्ययनमित्यादिवाक्यप्रयोग-दर्शनादित्यर्थः ।

।। परोक्तस्य गौण्या लक्षणातो भेदस्य भङ्गः ।। ७० ।।