पदार्थस्तु व्यक्तिरेव

अथ प्राभाकरोक्तपदशक्तिभङ्गः

पदार्थस्तु व्यक्तिरेव

तर्कताण्डवम्

पदार्थस्तु व्यक्तिरेव । शक्तिग्राहकस्यानयनादिव्यवहारस्य तत्रैव सम्भवात् । अन्यथा शब्दात्तत्प्रतीतेरसम्भवाच्च ।

अत्र प्राभाकराः । अनिर्धारितयत्किञ्चिद्व्यक्तेः शक्यत्वे का व्यक्तिः शक्येत्यनध्यवसायेन गां दद्यादित्यादिवाक्यात्प्रवृत्तिर्न स्यात् । सर्वस्याः प्रत्येकं शक्यत्वे यत्र शक्तिग्रहस्तत्रैव शाब्दधीः स्यात् । अन्यत्र तु तदग्रहादपूर्वव्यक्तिधीर्न स्यात् । सर्वत्वेन शक्यत्वे गां दद्यादित्यादिशास्त्रमशक्यानुष्ठानार्थोपदेशकं स्यात् । तस्माच्छक्य-व्यक्त्यनुगमायाशक्यव्यक्तिव्यावृत्तये च सर्वैकौदासीन्येन विशेषणेन वोपलक्षणेन वा गोत्वेनावच्छिन्ना व्यक्तिः शक्येति शक्तिग्रहो वाच्यः । तथा च स्वत एवान्यव्यावृत्तगोत्वस्य प्रथमोपस्थितत्वाल्लघुत्वाच्च नागृहीतविशेषणन्यायेन जातिरेव शक्या ।।

न्यायदीपः

नन्वन्विते पदार्थे पदानां शक्तिरित्युक्तम् । तत्र कः पदार्थः किं जातिरुत व्यक्तिरिति तत्राह ।। पदार्थस्त्वित्यादिना प्रकरणपञ्चकेन । पदस्य शक्यान्वयप्रतियोग्यर्थस्त्वित्यर्थः । व्यक्तय एव वाच्या इति पद्धत्युक्तेरिति भावः । अत्रैवकारः पराभ्युपगतानुगतजातिव्यावर्तको न तु घटत्वादि-तत्तदसाधारणधर्मनिरासकः । तस्यापि वाच्यत्वात् । यद्वा घटत्वादे-र्वाच्यत्वेऽपि वाच्यतावच्छेदकत्वेनैव न तु प्राधान्येनेति तदभिप्रायेणैवकारः । न तु तस्यावाच्यत्वेनेत्यग्रे व्यक्तम् ।। अन्यथेति ।। व्यक्तौ शक्तेरभाव इत्यर्थः । अत्रेति ।। व्यक्तेः शक्यत्वपक्षे दोषमाहुः प्राभाकराः इत्यर्थः । पदशक्तिवादपूर्वपक्षे मण्युक्तं निष्कृत्याह ।। अनिर्धारितेत्यादिना उच्यत इत्यन्तेन ।।

व्यक्तौ शक्तिरिति वदता वक्तव्यम् किमेकस्यां व्यक्तावथ सर्वासु व्यक्तिष्विति । अन्त्येपि किं प्रत्येकं तत्तद्व्यक्तिषु पृथक्पृथक्शक्तिरुत सर्वत्वेन रूपेण सर्वास्वपि व्यक्तिष्वेकैव । आद्ये दोषो ।। अनिर्धारितेति ।। द्वितीय आह ।। सर्वस्या इति ।। एकदा सर्वासामुपस्थित्ययोगेन प्रत्येकं सर्वासु शक्तिग्रहायोगेन क्वचिदेवेति वाच्यत्वादिति भावः । तृतीय आह ।। सर्वत्वेनेति ।। गामिति पदेन सर्वगोव्यक्त्युपस्थित्या सर्वासामपि दानकर्मत्वप्रतीतेरिति भावः ।

एवं व्यक्तिपक्षे बाधकमुक्त्वा स्वपक्षमुपसंहारमुखेन सयुक्तिकमाह ।। तस्मादिति ।। केवलव्यक्तौ शक्तिपक्षस्यायोगादित्यर्थः ।। शक्येति ।। शक्यानां व्यक्तीनामनुगमाय सङ्ग्रहाय, अशक्यानामश्वादीनां व्यवच्छेदाय चेत्यर्थः । विशिष्टं शक्यमिति पक्ष आह ।। विशेषणेन वेति ।। गोत्वेनेत्यन्वयः । व्यक्तिमात्रमेव शक्यमिति पक्ष आह ।। उपलक्षणेन वेति ।। किं तत इत्यत आह ।। तथाचेति ।। गोत्वरूपधर्मेणैव गोव्यक्तीनामनुगतत्वान्यव्यावृत्तत्वयोः सपाद्यत्वे सतीत्यर्थः ।। स्वत एवेति ।। व्यक्तिवदनुगतधर्ममुखापेक्षां विनैवेत्यर्थः ।

Load More