द्वारमित्यादौ तु पिधेहिपदस्यैवाध्याहारः
अध्याहारवादः
७८. अथ शब्दाध्याहारसमर्थनम्
तर्कताण्डवम्
द्वारमित्यादौ तु पिधेहिपदस्यैवाध्याहारः । नत्वर्थस्य । न वा द्वारपदस्यैव पिधाने लक्षणा । प्राभाकरास्तु–
अन्वयप्रतियोग्यलाभादन्वयानुपपत्तिरिति अन्वयप्रतियोगिनोऽर्थ-स्यैवाध्याहारः । न तु पदस्य ।
ननु– पदबोधित एवार्थोऽन्वयप्रतियोगी । अन्यथा घटमानयेत्यादौ स्वयं स्मृतरक्तादेरन्वयधीः स्यादिति चेन्न । द्वारमित्यत्र पिधान इव तत्र रक्ते तात्पर्यग्रह इष्टापत्तेः । तदग्रहे तु तत एवान्वयाबोधात् । अन्यथा तवाऽपि दैववशात्स्मृतरक्तपदाद्रक्तोपस्थितौ रक्तान्वयधीः स्यात् ।
यत्तूक्तं मणौ– क्रियाकारके हि क्रियाकारकपदोपस्थापिते एव परस्परमाकाङ्क्षतः । नतूपस्थितमात्रे । घटः कर्मत्वमानयनं कृतिरित्य-दावपि अन्वयधीप्रसङ्गात् । क्रियाकर्मणोरुपस्थितौ विशेषाभावात् । तस्मादाकाङ्क्षानुरोधेन पदविशेषजन्यपदार्थोपस्थितित्वेन कारणतेति शब्दाध्याहारसिद्धिः ।
किञ्च द्वारमित्यादौ सकर्मकक्रियापदानध्याहारे द्वितीया न स्यात् । न हि सकर्मकक्रियायोग्यतामात्रेण सा । घटः आनयनमित्यादावपि तत्प्रसङ्गात् । एवं पुष्पेभ्य इत्यत्र स्पृहयतिपदानध्याहारे चतुर्थी न स्यात् । न हि स्पृहयत्यर्थयोगमात्रेण सा । पुष्पमिच्छतीत्यत्रापि तत्प्रसङ्गात् । एवं देवदत्त ओदनमित्यत्र क्रियापदानध्याहारे कर्तुरनभि-धानात् तृतीया स्यात् । न तु प्रथमेति ।।
न्यायदीपः
लक्षणास्थलप्रतिषेधप्रस्तावाद् द्वारमित्यत्रापि न लक्षणेत्याह ।। द्वारमित्यादौ त्विति ।। अनुपपत्तिरितीतिशब्दो हेत्वर्थः ।। तवापीति ।। पदाध्याहारवादिनोपीत्यर्थः । प्राभाकरमुखेनैव मण्युक्तमनूद्य निरस्यति ।। यत्त्वित्यादिना ।। तन्नेत्यन्वयः ।
द्वितीयाविभक्त्यादेः साधुत्वान्यथानुपपत्त्या च पदाध्याहार इत्याह ।। किञ्चेति ।। चतुर्थी न स्यादिति ।। ‘‘स्पृहेरीप्सित’’ इति चतुर्थी-विधानादिति भावः ।। इच्छतीत्यत्रापीति ।। स्पृह ईप्सायामिति स्पृहधातो-र्व्याख्यानादीप्सायाश्चाप्तीच्छारूपत्वेन स्पृहयत्यर्थत्वमिच्छतेरिति भावः ।
।। क्रियापदेति ।। करोतीतिपदानध्याहार इत्यर्थः ।। कर्तुरिति ।। ‘‘अनभिहिते’’ इत्यधिकृत्य तिङ्कृत्तद्धितसमासैरनभिहिते कर्तृकारककरण-कारकादौ कर्तृकरणयोस्तृतीयेत्यादिना तृतीयादिविभक्तिविधानादिह च तिङ्-पदानध्याहारे कर्तुस्तिङनभिहितत्वात् ‘‘कर्तृकरणयोस्तृतीया’’ इति कर्तृवाचिदेवदत्तपदे तृतीयाविभक्ति रेव स्यान्न तु प्रथमेत्यर्थः ।
तर्कताण्डवम्
तन्न । पदविशेषो ह्यन्वयाविरोधी१ वाच्यः । तथाच अन्वया२-विरोधिपदजन्यपदार्थोपस्थितित्वं शाब्दबोधकारणतावच्छेदकं स्यात् । न च तद्युक्तम् । तदपेक्षया लघुत्वात् पदजन्योपस्थितिसाधारण्ये न सामान्यत्वादावश्यकत्वाच्च अन्वयविरोध्यजन्योपस्थितित्वस्यैव तदवच्छेदकत्वात् । एवं च घटः कर्मत्वमित्यादावुपस्थितेरन्वय-विरोधिपदजन्यत्वान्न ततोन्वयधीः ।
द्वारमित्यादौ तु पिधानोपस्थितेरन्वयविरोध्यजन्यत्वात् ततोऽ-न्वयधीः ।।
यच्चोक्तं– द्वितीयाविभक्त्यादेः साधुत्वाय पदाध्याहार इति ।
तन्न । तथात्वे नीलो घट इत्यादौ पदाध्याहारासिद्ध्यापातात् । न हि तत्र भवतीत्यादिपदाभावेऽसाधुत्वमस्ति ।
किञ्चैवमपभ्रम्शात्मके वाक्ये शब्दाध्याहारो न स्यात् । तस्मादर्थ-स्यैवाध्याहारो न तु शब्दस्येति ।
अत्रोच्यते– स्मृतिरूपो१पस्थितेरेव नास्तीत्युक्तत्वेन तस्या अविरोधिपदजन्यत्वेन हेतुत्वं वा विरोध्यजन्यत्वेन हेतुत्वं वेति चिन्तैवायुक्ता ।।
यच्चोक्तं स्वमते लाघवमिति ।
तन्न । अन्वयविरोधित्वं हि अन्वयबोधे स्वरूपायोग्यत्वम् । तथाचाभावद्वयगर्भितान्वयविरोध्यजन्यत्वापेक्षया तदगर्भितस्वरूप-योग्यतात्मकान्वयाविरोधिपदजन्यत्वमेव लघु ।।
न्यायदीपः
शाब्दबोधं प्रति न त्वदुक्तपदजन्योपस्थितित्वेन पदार्थोपस्थितेः कारणता । किन्त्वन्यथैव । सा चार्थाध्याहारपक्षेपि युक्तेति भावेनाह ।। पदेत्यादिना ।।
प्रागुक्तदोषं निराह ।। एवं चेति ।। तथात्व इति ।। द्वितीयादि-विभक्त्यन्यथानुपपत्त्या पदाध्याहारकल्पन इत्यर्थः ।। अपभ्रम् शेति ।। तत्र सर्वथा साधुत्वाप्रसक्तेरिति भावः ।
पूर्वपक्षमुपसं हरति ।। तस्मादिति ।। इतिशब्दस्य प्राभाकरास्त्विति पूर्वेणान्वयः ।। उक्तत्वेनेति ।। भट्टाभिमताभिहितान्वयभङ्ग उक्तत्वेनेत्यर्थः ।
तर्कताण्डवम्
ननु द्वारमिति पदमप्यन्वयाविरोध्येव । अन्यथा तस्य कर्म-त्वान्वयो न स्यात् । अन्वयाविरोधियावदन्वयप्रतियोग्युप-स्थापकपदत्वेन तु न हेतुता । गौरवादिति चेन्न । ज्ञायमानं हि १कारणं स्वसम्बन्धितया ज्ञातयोरेव अन्वयबोधकम् । पक्षसाध्योभय-सम्बन्धितया ज्ञातस्यैव लिङ्गस्य पक्षसाध्यसम्बन्धबोधकत्वदर्शनात् ।।
अन्यथा वह्निसम्बन्धित्वेन ज्ञाताद्धूमाज्जातानुमितिः कदाचि-द्दैवात्स्मृतघटविषयिणी स्यात् । तथा च शब्दवृत्तिविषयत्वेनाज्ञातस्य पिधानस्य द्वाराऽन्वयं कथं शब्दो बोधयेत् । न चानुमान एवायं नियमः । सामान्ये बाधकाभावात् ।।
न्यायदीपः
अन्वयाविरोधिपदजन्यत्वमेवोपस्थितौ शाब्दबोधहेतुतावच्छेदक-मित्यस्याप्यर्थाध्याहारस्थले सत्त्वान्न पदाध्याहारनिर्बन्ध इति शङ्कते ।। नन्विति ।। यावदिति ।। विशषणादर्थाध्याहारे दोष एवेत्यत आह ।। अन्वयेति ।।
अनुमानस्थले कप्तसामान्यन्यायबलेन पदाध्याहार एव युक्त इति परिहारमाह ।। ज्ञयमानं हीति ।। प्रत्यक्षान्यलिङ्गादिरूपं करणमित्यर्थः । ज्ञातयोरर्थयोरन्योन्यान्वयबोधकमित्यर्थः ।। पक्षेति ।। पक्षवृत्तित्वसाध्य-व्याप्यत्वरूपपक्षसाध्योभयसम्बन्धितयेत्यर्थः ।
।। अन्यथेति ।। अन्वयप्रतियोगिनोर्द्वयोरपि २करणसम्बन्धित्वेन ज्ञातत्वस्य करणस्य वा तदुभयसम्बन्धित्वेन ज्ञातस्यानावश्यकत्व इत्यर्थः ।
तावताऽर्थाध्याहारे को दोष इत्यत आह ।। तथा चेति ।। शब्द इति ।। द्वारमिति शब्दः । तत्पक्षे तस्यैवान्वयबोधकत्वात् । शब्दवृत्ति-विषयत्वेन ज्ञातत्वं तु शब्दानुसन्धानं विना न युक्तमिति शब्दाध्याहार-सिद्धिरिति भावः ।
तर्कताण्डवम्
किञ्च– चक्षुरादिकमपि करणं स्वसन्निकृष्ट एव प्रमां जनयतीति शब्दः स्ववृत्त्यविषयत्वेन स्वासन्निकृष्टे पिधाने कथमन्वयप्रमां जनयेत् ।
अन्यथा घटमात्रसन्निकृष्टेन चक्षुषा घटगतरूपधीसम्भवेन चक्षुषो रूपेण सह सन्निकर्षो न कल्प्येत । घटाविति समूहालम्बनधी-रप्येकघटसन्निकर्षेणैवोत्पद्येत ।
न्यायदीपः
नियमस्यानुमानमात्रविषयत्वमुपेत्य दोषान्तरमाह ।। किञ्चेति ।। यद्वा प्रत्यक्षप्रमाणस्थले कप्तन्यायेनापि पदाध्याहार इति भावेनाह ।। किञ्चेति ।। शब्द इति ।। द्वारशब्दः । स्वासन्निकृष्टे– स्वसन्निकर्षरहिते ।
तर्कताण्डवम्
अपि च– यद्यन्वयविरोधिपदाजन्यपदार्थोपस्थितिमात्रं अन्वय-बोधाङ्गं तर्हि घटोस्तीत्युक्ते घटशब्दात्कार्यकारणभावसम्बन्धा-त्स्मृतेनाकाशेनापि सहान्वयबोधः स्यात् ।
न चाकाशान्वये वक्तुस्तात्पर्याभावादेव तदन्वयाबोध इति वाच्यम् । तात्पर्यज्ञानं हि किं वाक्यार्थज्ञानमात्रे कारणं तत्प्रमितौ वा । नाद्यः । छलादिना दूषणानुपपत्तेः । नान्त्यः । आकाशान्वय-प्रमित्यभावेऽपि तत्प्रतीतिप्रसङ्गस्य दुर्वारत्वात् ।
न्यायदीपः
परोक्तोपस्थितिहेतुत्वपक्षे बाधकमाह ।। अपि चेति ।। सहकारि-विरहादेव तत्रान्वयबोधाभाव इत्याशङ्क्य निराह ।। न चेति ।। छलादि-नेति ।। वक्त्त्रनभिमतार्थान्तरज्ञानपूर्वकत्वाच्छलादिदूषणस्येति भावः । आदिपदेन जात्युत्तरादि गृह्यते । अविनाभावादिबुद्ध्यानुमानप्रयोगे सम्बन्धमात्रपमुपादाय जात्युत्तरादिकथनात् । अर्थान्तरभ्रान्तिपूर्वकदूषणाभि-धानं वादिपदार्थः ।
तर्कताण्डवम्
अपि च तीरस्यापि संस्कारोपनीतस्य गङ्गाशब्दवृत्त्यविषयस्यैव तात्पर्यवशादेव घोषान्वयबोधसम्भवाल्लक्षणोच्छेदः स्यात् । तीरे तात्पर्यनिर्वाहार्थमेव वृत्तिश्चेत् पिधानेपि तन्निर्वाहार्थमेव शब्दाध्याहारोस्तु । द्वारशब्दस्य पिधाने लक्षणादेस्त्वन्मतेप्यभावात् ।
न च विभक्तेः प्रकृत्यर्थगतस्वार्थाभिधायकत्वस्य व्युत्पन्नत्वा-द्गङ्गायामिति सप्तम्यर्थान्वयार्थं लक्षणेति वाच्यम् । योगरूढिमनङ्गी-कुर्वतस्तव मते पङ्कजपदवृत्त्यविषयस्यापि पद्मस्य पङ्कजमिति द्वितीयाविभक्त्यर्थान्वयवदुपपत्तेः ।।
न्यायदीपः
इष्टापत्तिं मन्वानं प्रत्यनुभवविरोधे सत्यपि दोषान्तरमाह ।। अपि च तीरस्यापीति ।। शब्दाध्याहारोस्त्विति ।। तेन विना पिधानाद्यर्थे तात्पर्यानिर्वाहात् । शब्दवृत्तिविषयस्यैव तात्पर्यविषयत्वादिति भावः । द्वार-पदस्यैव पिधाने शक्त्यभावेपि लक्षणावृत्तिरस्तु । एवं च ज्ञायमानं हीत्यादिनोक्तदोषः कोपि नास्तीत्यत आह ।। द्वारशब्दस्येति ।। त्वन्मत ।। अर्थाध्याहारवादिमते । न केवलं मन्मत इत्यपेरर्थः ।
लक्षणोच्छेददोषो नेत्याशङ्क्य निराह ।। न चेति ।।
तर्कताण्डवम्
किञ्चेहापि कारकपदस्य क्रियापदोपस्थापितान्वितस्वार्थाभिधाय-कत्वस्य व्युत्पन्नत्वात्तदर्थमेव शब्दाध्याहारोस्तु ।
किञ्चैवमन्वयस्यापि वृत्त्यविषयस्यैव तात्पर्यवशादेव शाब्द-बोधसम्भवेनान्विते शक्तिर्न स्यात् । एवं घटमानयेत्युक्ते स्वयं-स्मृतरक्तादेरप्यन्वयधीः स्यादित्यादिपूर्वोक्तदोषोपि सुस्थ एव ।
यच्चोक्तं शब्दासाधुत्वप्रसङ्गः सर्वाध्याहाराननुगत इति । तच्छलम् । मया क्वचिच्छब्दसाधुत्वाय शब्दाध्याहारे सिद्धेऽन्यत्रापि शब्दस्यैवा-ध्याहारः कप्तत्वादित्येवोक्तेः ।
किञ्चार्थाध्याहारे सौर्ययागेऽतिदिष्टेऽग्नये जुष्टं निर्वपामीति मन्त्रेऽग्नि- पदस्थाने सूर्यपदप्रक्षेपरूपाध्याहारोक्तिः, छेदने विनियुक्ते इषेत्वेत्यादि-मन्त्रे छिनद्मीत्यादिशब्दाध्याहारोक्तिः, स्रुवेणावद्यतीत्यादौ ‘‘अर्थाद्वा कल्पनैकदेशत्वात्’’ इत्यादि जैमिनिसूत्रभाष्यादौ द्रवद्रव्यमित्यादि-शब्दाध्याहारोक्तिश्च न स्यात् । न ह्यर्थः शब्दस्यैकदेशः ।।
न्यायदीपः
रूढ्यविषयस्यापि योगवृत्तिविषयतास्तीति वदन्तं प्रति दोषान्तरमाह ।। किञ्चेति ।। तदर्थमेव ।। क्रियान्वितस्वार्थाभिधानार्थमेवेत्यर्थः ।। इत्यादिपूर्वोक्तेति ।। पदबोधित एवार्थोऽन्वयप्रतियोगीत्यादिना तन्नेत्यन्तेनोक्तेत्यर्थः ।। तच्छलमिति ।। अभिप्रायान्तरकल्पनपूर्वक-दोषाभिधानरूपच्छलोत्तरमित्यर्थः ।
।। सौर्ययागेऽतिदिष्ट इति ।। दर्शपूर्णमासयोः श्रुतोऽग्नये जुष्टं निर्वपामीति मन्त्रः सौर्यं चरुं निर्वपेदिति विकृतौ चोदकप्राप्तः । तत्राग्नि-पदस्थाने सूर्यपदप्रक्षेपेणोहितव्य इति नवमे प्रकृतौयथोत्पत्तिवचनमर्थानामिति तृतीयपादीयाद्याधिकरणेऽभिधानादिति भावः ।
।। छेदन इति ।। इषेत्वेति छिनत्ति ऊर्जेत्वेत्यनुमार्ष्टीति विनियुक्त इत्यर्थः ।। छिनद्मीत्यादीति ।। ‘‘समेषु वाक्यभेदः स्यात्’’ इति द्वितीयाद्यपादीयषोडशेऽधिकरणे तथोक्तेरिति भावः ।। सूत्रेति ।। प्रथमा-ध्यायान्त्याधिकरणसूत्रे शाबरभाष्यादौ चेत्यर्थः ।
।। अर्थादिति ।। सामर्थ्यादित्यर्थः । ननु तत्रापि द्रवद्रव्यरूपार्थ-स्यैवाध्याहारोस्त्वित्यत आह ।। न ह्यर्थ इति ।। तथाचैकदेशत्वादिति सूत्रोक्तिविरोध इति भावः ।
तर्कताण्डवम्
यत्तु– शब्दाध्याहारे मीमांसकेन द्वारमित्युक्ते श्रोतुर्नैयायिक-स्याभिप्रायिकपदाभावनिश्चयादन्वयधीर्न स्यात् । नचास्यार्थाध्याहारेपि शुकोदीरिताद् द्वारमिति वाक्यादन्वयधीर्न स्यादिति वाच्यम् । तत्राप्यनिश्चयेन शब्दस्यार्थस्य वा नाध्याहार इत्युभयसम्मत-त्वेनान्वयाबोधस्येष्टत्वादिति ।
तन्न । अर्थाध्याहारपक्षेपि नैयायिकेन द्वारमित्युक्ते श्रोतुर्मीमांस-कस्याभिप्रायिकार्थाध्याहाराभावनिश्चयादन्वयधीर्न स्यादिति साम्यात् । तत्रान्वयबोध एव न भवति, भवन्वाहार्यरूपमर्थाध्याहारमाक्षिपति, मानस एव वान्वयबोध इति कल्पनं तु शब्दाध्याहारेपि समम् ।।
तस्माद् द्वारमित्यादौ साकाङ्क्षे शब्दाध्याहार एव । यत्र तु गङ्गाशब्देन तीरमिव धूमशब्देन वह्निमभिप्रेत्य धूमोस्तीति वदति तत्र धूमशब्दस्य वह्नौ लक्षणैव । यत्र तु पुनर्धूम उक्ते वह्निं स्वयमेव ज्ञास्य-तीत्यभिप्रेत्य धूमोस्तीति वदति तत्र धूमशब्दो धूमपर एव श्रोतु-र्वह्निधीस्त्वनुमानात् । न तु तत्र धूमपदस्य वह्नौ लक्षणा । न वा वह्निपदाध्याहार इति ज्ञेयम् ।
एतदेवाभिप्रेत्य जिज्ञासासूत्रे भाष्यकारादिभिः–
‘‘यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् ।
वाक्यं वेति सतां नीतिः सावकाशो न तद्भवेत्’’
इति कर्तव्यपदाध्याहारः, ‘‘व्यतिहारो विशिंषन्तिहीतरवद्’’ इति सूत्रे च सूत्रभाष्यटीकाकारैरस्तिभगवः प्राणाद्भूय इत्यादिशब्दाध्याहार एवोक्तः ।
।। इति शब्दाध्याहारसमर्थनम् ।। ७८ ।।
न्यायदीपः
शब्दाध्याहारे बाधकशङ्कामनूद्य साम्येन निराह ।। यत्त्वित्यादिना ।। तन्नेति यच्छब्दान्वयः । परमुखेन समाधिं वाचयित्वा तदपि सममित्याह ।। तत्रान्वयेति ।। मानस एवेति ।। शाब्दत्व एव ह्यध्याहारापेक्षा मानसप्रत्यक्षत्वे तु संसर्गबोधस्य न दोष इति भावः ।
।। एतदेवेति ।। शब्दाध्याहारो न त्वर्थाध्याहार इत्येतदेवेत्यर्थः । यत्र वाक्ये माहावाक्ये वा येन पदेन वाक्येन वा विनान्यत्रार्थान्तरेऽवसरे घटना नास्ति तत्र वाक्ये महावाक्ये वा तत्पदं तद्वाक्यं वा प्रतिष्ठितं अध्याहार्यम् । सावकाशे येन पदेन वाक्येन वा विना वाक्यस्य महावाक्यस्य वार्थघटना भवति तत्र तत्पदं तद्वाक्यं वा नाध्याहार्यमित्यर्थः ।
।। सूत्रे चेति ।। तृतीयाध्यायतृतीयपादीयव्याससूत्रे चेत्यर्थः ।। अस्तीति ।। छान्दोग्ये सप्तमे प्राणप्रकरणानन्तरं अस्ति प्राणाद्भूय इति प्रश्नस्य सत्यं वाव प्राणाद्भूय इति परिहारस्य चाभावात् प्राणप्रकरणं सत्यप्रकरणमेकमिति शङ्कायां प्रश्नाद्यध्याहारेण भिन्नप्रकरणमित्युक्तत्वादिति भावः ।
।। इति शब्दाध्याहारसमर्थनम् ।। ७८ ।।
।। समाप्तः अध्याहारवादः ।।