यदुक्तं मणौ राजपुरुष इत्यादितत्पुरुषे राजपदस्य ..
समासार्थवादः
७३. तत्पुरुषे लक्षणादिभङ्गः ।
तर्कताण्डवम्
यदुक्तं मणौ राजपुरुष इत्यादितत्पुरुषे राजपदस्य सम्बन्धे सम्बन्धिनि वा लक्षणेति ।
तन्न । त्वन्मते नीलोत्पलमिति कर्मधारये नीलोत्पलयोरभेद-स्येवेहापि राजपुरुषयोः सम्बन्धस्य वृत्तिं विनैव अन्वयतया भानो-पपत्तेः ।
मन्मते च पुरुषपदेनैव राजान्वितपुरुषाभिधानसम्भवात् । अन्यथा कर्मधारयेप्यभेदेऽभिन्ने वा नीलपदस्य लक्षणा स्यात् ।
न्यायदीपः
लक्षणादिस्वरूपं तत्प्राबल्यादिकं च निरूप्येदानीं तस्य विषयव्यवस्थां दर्शयितुं परोक्तं निराह ।। यदुक्तमिति ।। शब्दखण्डे बहुव्रीहिनिरूपणा-नन्तरमुक्तमित्यर्थः । कर्मधारयस्यापि तत्पुरुषत्वात्तत्र च लक्षणानुक्तेराह ।। राजपुरुष इत्यादि ।। तत्पुरुष इति ।।
षष्ठ्यर्थसम्बन्धे निरूढलक्षणयैव राजसम्बद्धपुरुषबुद्ध्युपपत्तेरिति मण्युक्तेराह ।। सम्बन्ध इति ।। लाघवयुक्त्येति भावः । व्याख्यातृ-वचनानुरोधेनाह ।। सम्बन्धिनि वेति ।। वृत्तिरेवान्यलभ्यसम्बन्धादावयुक्ता कुतस्तद्विशेषलक्षणावकाश इति भावेनाह ।। त्वन्मत इति ।। कर्मधार-येति ।। कर्मधारये तु न शक्तिर्न वा लक्षणा तेन विनापि विवक्षितार्थान्वयो-पपत्तेरिति मण्युक्तेरिति भावः ।
ननु– भवन्मतेऽन्वयतया भानानङ्गीकाराल्लक्षणयैव सबन्धधीर्वाच्येत्यत आह ।। मन्मत इति ।। अन्विते शक्त्युपगमादिति भावः ।
तर्कताण्डवम्
नच विरुद्धविभक्त्यनवरुद्धनामार्थयोरभेदेनैवान्वयनियमान्न सम्बन्धोन्वयतया भातीति वाच्यम् । घटो न पटश्चन्द्र इव मुख-मित्यादौ पटनञ्पदार्थयोः पटाभावयोः, चन्द्रेवशब्दार्थयोः चन्द्र-सादृश्ययोः, चाभेदाभावात् ।
तस्मात्कर्मधारये अभेदस्येव विग्रहसमानार्थे षष्ठीतत्पुरुषेपि संवन्धस्य योग्यतादिवशादन्वयतयैव भानमस्तु । नानाविधो ह्यन्वयः । कर्मधारये दर्शनमात्रेण तत्पुरुषेऽभेदान्वयापादने च विपरीतं किं न स्यात् ।
न्यायदीपः
अन्वयबोधस्य वृत्तिं विना लाभेपि न विवक्षितार्थान्वयधीलाभः अतो लक्षणा युक्तेत्याशङ्क्य निराह ।। न च विभक्त्यनवरुद्धेति ।। नीलोत्पलं राजपुरुष इत्यादौ श्रुतविभक्तिः समुदायादुत्पन्नैव न तु समासावयव-प्रातिपदिकात् । तत उत्पन्नं पूर्वोत्तरपदस्थं विभक्तिद्वयं तु ‘‘सुपो धातु-प्रातिपदिकयो’’रिति लुप्तमिति विभक्त्यनवरुद्धेत्युक्तम् । विभक्त्यर्थानवरुद्धेति पाठे सामानाधिकरण्या१योग्याभिन्नविभक्त्यर्थेनाप्रतिबद्धेत्यर्थः ।
नायं नियमो व्यभिचारादित्याह ।। घट इति ।। न पट इत्यत्र नञोव्ययत्वे लुप्तविभक्तिकतया विभक्त्या वा तदर्थेन वानवरुद्धं नेति पदम् । तथा चन्द्र इवेत्यत्रापि ध्येयम् ।
।। विग्रहेति ।। राज्ञः पुरुष इति समासार्थप्रदर्शकवाक्यसमानार्थ इत्यर्थः । बहुव्रीहौ नित्यसमासविधानेन विग्रहसमासयोर्भिन्नार्थत्वेपि विभाषाधिकारे विहितषष्ठीतत्पुरुषस्य विग्रहतुल्यार्थत्वात् विग्रहे च सम्बन्धस्य भानात् समासेपि तद्भानमाकाङ्क्षायोग्यतादिवशात्स्यादिति भावः । राजत्व-विशिष्टपुरुषस्यानयनाद्ययोग्यत्वेनाभेदस्य बाधात्सम्बन्धस्य योग्यतादि-वशादन्वयतयैवेत्युक्तम् ।
अभेदान्वयस्यबाधात् कोनामान्वय इत्यत आह ।। नानाविध इति ।। तत्स्वामिकत्वादिरूपोनेकविध इत्यर्थः ।। विपरीतमिति ।। तत्पुरुष इव कर्मधारयेपि सम्बन्धित्वरूपान्वयधीः स्यादित्यर्थः ।
तर्कताण्डवम्
किञ्चैवं पाचक इत्यादिकृदन्तेषु पचिधातोरेवाकाद्युक्तकर्त्रादिना औपगव इत्यादितद्धितेषु उपगुशब्दस्यैव अणाद्युक्तापत्त्यादिना घट-मित्यादावपि घटादिप्रातिपदिकस्यैव द्वितीयोक्तकर्मत्वादिना सह सम्बन्धे लक्षणा स्यात् ।
न्यायदीपः
यदि सम्बन्धोऽन्वयतया न भायात्तर्हि कृत्तद्धितकारकविभक्त्यन्तेष्वपि प्रातिपदिकस्य लक्षकता स्यादित्याह ।। किञ्चैवमिति ।। डुपचष् पाक इत्यस्मात् ‘‘ण्वुल्तृचौ’’ इति सूत्रेण कर्त्रर्थे ण्वुल्प््रात्यये तस्य ‘‘युवोरनाकौ’’ इत्यकादेशे ‘‘अत उपधाया’’ इति वृद्धौ च पाचक इति रूपम् । तत्र ण्वुल्प््रात्ययस्य ‘‘कृदतिङ्’’ इति सूत्रेण कृत्सज्ज्ञिकत्वात्कृदन्तेष्वित्युक्तम् ।
।। औपगव इति ।। उपगुशब्दादपत्येर्थे ‘‘तद्धिता’’ इत्यधिकारे ‘‘तस्यापत्यम्’’ इति सूत्रेणाण्यप्रत्यये आदिवृद्धौ गुणावादेशयो रूपम् ।
।। द्वितीयोक्तेति ।। ‘‘कर्मणि द्वितीय’’ इत्यनुशासनादिति भावः । षष्ठ्यन्तानां लक्षणेत्यनेन, तृतीयान्तानां च सहेत्यनेनान्वयः । तत्रा-न्वयस्यान्यलभ्यत्वान्न लक्षणा चेत्तर्हि तत्पुरुषेपि तथा स्यात् । समास एवायं नियमो न त्वन्यत्रेत्यस्य नियामकशून्यत्वादिति भावः ।
तर्कताण्डवम्
एतेन– राजपुरुषं राज्ञः पुरुषं राजसम्बन्धिनं पुरुषमानयेत्यादेः पर्यायत्वात्तत्पुरुषे राजसम्बन्धी अन्वये प्रतियोगितया भाति राज-सम्बन्धिनः पुरुषाभेदस्तु अन्वयतया अन्वयप्रतियोग्युपस्थितिश्च न वृत्तिं विनेति वृत्त्यर्थं लक्षणा । नीलोत्पलमित्यत्र तु नीलाभिन्नं नान्वयप्रतियोगि किन्तु नीलपदोक्तनीलमेव नीलाभेदस्त्वन्वय एवेति न तत्र लक्षणेति निरस्तम् । नीलोत्पलं नीलमुत्पलं नीलाभिन्न-मुत्पलमित्यादेरपि पर्यायत्वात्तत्रापि नीलाभिन्नमन्वयप्रतियोगि नीला-भिन्नस्य उत्पलाभेदस्तु अन्वय इत्यपि सुवचत्वात् ।
तस्माद्व्यासे यः सम्बन्धो विभक्तिसापेक्षो भासते स एव समासे तदनपेक्षोऽन्वयतया भासत इत्युक्तम् ।
न्यायदीपः
प्रागुक्तदृष्टान्तवैषम्यमनूद्य निराह ।। एतेनेति ।। निरस्तमित्यन्वयः ।। अन्वयप्रतियोप्युपस्थितिश्चेति ।। राजपदेन राजसम्बन्धीत्यर्थस्य राजपदे लक्षणावृत्तिं विना अलाभादित्यर्थः ।
।। नीलमेवेति ।। नीलगुणयुक्तमेवेत्यर्थः ।। तस्मादिति ।। कर्मधारयादिवैषम्यायोगादित्यर्थः ।। व्यास इति ।। विग्रहवाक्ये ।
तर्कताण्डवम्
वस्तुतस्तु दधि पश्येत्यादौ लुप्तया द्वितीययेव गर्गा हरीतकीत्यादौ लुप्तेन तद्धितेनेव, अस्यापत्यं इः इत्यादौ लुप्तेन अ इति प्रातिपदिके-नेव, व्यतिस इत्यादौ लुप्तेना स्तिधातुनेवेहापि लुप्तया स्मृतया षष्ठ्यैव स्वार्थोपस्थितिः । अन्यथा ह्यलुप्तस्य दधिप्रातिपदिकादेरेव कर्मत्वादौ लक्षणा स्यात् ।
यदि च दधि कर्मत्वं दर्शनं कृतिः इत्यादावन्वयाप्रतीतेः कर्मत्वं विभक्त्यैवाभिधेयं तर्हि राजा सम्बन्धः पुरुषः इत्यादावन्वयाप्रतीतेः सम्बन्धोपि षष्ठ्यैवाभिधेयः ।
न्यायदीपः
ननु– व्यासे विभक्तिसापेक्षः कथं समासे तन्निरपेक्षो भासेत । अन्यथा व्यासेपि तथा भायादित्यनुशयादाह ।। वस्तुतस्त्विति ।। लुप्तयेति ।। स्वमोर्नपुंसकात् इति सूत्रेण लुग्विधानाल्लुप्तयेत्युक्तम् ।
।। गर्गा इति ।। गर्गस्य गोत्रापत्यानीत्यर्थे ‘‘गर्गादिभ्यो यञ्’’ इति यञि कृते ‘‘यञञोश्च’’ इति बहुत्वे यञो लुकि सति गर्गा इति रूपम् । गार्ग्यः गार्ग्यौ गर्गा इति । हरीतकीत्ययं शब्दः प्राग्लक्षणादेरभिधातो भेदसमर्थनवादे विवृतः । अ इति कस्यचिन्नाम । अस्य अकारनामकस्या पत्यमित्यर्थे अत इञ् इति इकारप्रत्यये यस्येति चेति सूत्रेण प्रातिपदिकाकारलोपे इरिति प्रत्ययस्यैव सुबन्तस्य श्रवणम् ।। व्यतिस इति ।। विवृतमेतदुपसर्गाणां वाचकत्वोक्तिवादे ।। स्वार्थेति ।। सम्बन्धोप-स्थितिरित्यर्थः ।
दधि पश्येत्यादि वैषम्यमाशङ्क्य साम्येन निराह ।। यदि चेति ।। सम्बन्धोपि षष्ठ्यैवाभिधेय इति ।। प्रकृते षष्ठ्याः लुप्तत्वेपि स्मृतया तयाभिधेय इत्यर्थः ।
तर्कताण्डवम्
न च काष्ठकरणकतण्डुलकर्मकपाककृतिरित्यादिसमासे विभक्त्य-नभिहितस्यान्वयो दृष्ट इति वाच्यम् । स्वादुदधिपश्येत्यादिसमासे दधिपदस्यैव कर्मत्वे लक्षणापातात् । दधिकर्मत्वदर्शनकृतय इत्यादि-समासेपि विभक्तिं विनान्वयाप्रतीतेः । काष्ठकरणकेत्यादिसमासे अन्वयधीस्तु विभक्त्यर्थोपरक्तधर्मिणोभिधानात् । इह तु धर्मिणः पुरुषपदेनैवोक्ततया विग्रहे षष्ठ्या निष्कृष्टस्य सम्बन्धस्यैवोक्ततया च तदेकार्थे समासेपि तस्यैव लक्षणीयत्वात् । पुरुषस्य सम्बन्धं प्रत्याश्रयता राज्ञः पुरुष इत्यत्रेव अन्वयतया भासताम् ।
न चैवं नीलघट इत्यत्रापि नीलरूपं प्रत्याश्रयतान्वयतयैव भासे-तेति नीलपदं नीलरूपाश्रयलक्षकं न स्यादिति वाच्यम् । इष्टापत्तेः ।
अन्यथा व्यतिस इत्यादावपि लुप्तस्यास्तिधातोरर्थः व्यतीत्युपसर्गेण वा सेप्रत्ययेन वा लक्ष्येत । समासश्रवणकाले विग्रहस्थषष्ठ्याः स्मरणनैयत्ये च दधि पश्येत्यादौ द्वितीयादि स्मरणवत्तदर्थधीरेव मानम् ।
न्यायदीपः
एतेन मणौ राज्ञः पुरुष इति विग्रहे समासविधानात्स्मृता लुप्ताषष्ठी सम्बन्धस्मारिकेति पक्षमनूद्य राजपुरुषमानयेत्यस्मात्पूर्वं नियमेन विग्रहास्मरणादिति यद्दूषणमुक्तं तन्निरस्तम् । दधि पश्येत्यादिष्वपि तथात्वापरिहारादित्यग्रे व्यक्तत्वात् । दधि पश्येत्यादावसमासे विभक्त्युप-स्थितस्य सम्बन्धस्य भाननियमेपि समासे नियमो नास्ति । क्वचिद्विभक्त्य-नुक्तस्यापि अन्वयप्रतीतेरिति भावेनाशङ्क्य निराह ।। न चेति ।। काष्ठैस्तण्डुलान्पचीत्यस्यार्थकथनं काष्ठेत्यादि ।
।। समास इति ।। स्वादु दधीत्यादिकर्मधारयसमास इत्यर्थः । क्वचित्समासे विभक्त्यनभिहितस्याप्यन्वयदर्शनेन स्वादु दधीत्यादावपि स्मृतविभक्त्यनुक्तस्यापि कर्मत्वस्य दधिपदाल्लक्षणयोपस्थितस्यान्वयसम्भवेन दधिपदस्य लक्षकत्वं स्यादित्यर्थः । यद्गतं कर्मत्वं विभक्त्यभिधेयमित्युक्तम् तद्वाचिपदस्यैवेत्येवकारार्थः । १स्वाव्याघातकमेतदिति भावः ।
विभक्त्यनभिहितस्याप्यन्वयदृष्टेर्विभक्त्याभिधानं सम्बन्धस्य नापेक्षितमिति यथोच्यते त्वया तथा क्वचित्समासे विभक्तिं विनान्वयाप्रतीतेः स्मृत-विभक्त्याभिधानमावश्यकमित्यपि वक्तुं शक्यमेवेेति भावेनाह ।। दधीति ।।
कथं तर्हि काष्ठकरणकेत्यादावन्वयधीरित्यत आह ।। काष्ठेति ।। राजपुरुषेत्यादावपि तथैवास्तु । किं स्मृतषष्ठ्यासम्बन्धबोधाङ्गीकारेणेत्यत आह ।। इह त्विति ।। षष्ठ्यापि धर्मिणो अभिधाने समासे षष्ठीस्मृति-र्नापेक्षिता । अन्यतोपि धर्मिणो लाभादित्यत आह ।। षष्ठ्येति ।। निष्कृष्टस्य धर्मिणा विनाकृतस्य ।। लक्षणीयत्वादिति ।। सा च लक्षणा दधिपश्येत्यादाविव नयुक्तेति स्मृतयैव षष्ठ्या सम्बन्धोऽभिधेय इति भावः ।
नन्वेवमपि तत्पुरुषे लक्षणावश्यमाश्रयणीया विभक्त्यभिहित सम्बन्धाश्रयतावाचिनः कस्य चिदभावादित्यत आह ।। पुरुषस्येति ।। अन्यथेति ।। समभिव्याहारलभ्यस्यापि लक्ष्यत्व इत्यर्थः ।
।। लक्ष्यतेति ।। न चेष्टापत्तिः । उपसर्गप्रत्ययसमभिव्याहारेण वा स्मृतधातुना वा व्यत्यस्तोसीत्यर्थस्योपगमादिति भावः । षष्ठीस्मरणनैयत्यं नेत्युक्तं मणावित्यत आह ।। समासेति ।। तदर्थधीरेवेति ।। सा लक्षणयोपपन्ना चेद्दधि पश्येत्यादावपि तथा स्यादिति भावः ।
तर्कताण्डवम्
किञ्च षष्ठीस्मृत्यभावे त्वदभिमता लक्षणैव न सिध्येत् । तथाहि– सम्बन्धे सम्बन्धिनि वा लक्षणा नतावद्वृत्तिं विनैव संसर्गमर्यादया प्रतीतान्वयानुपपत्त्येति युक्तम् । त्वन्मते विभक्त्यनवरुद्धप्रातिपदिकार्थ-योरभेदरूपेऽन्वये व्युत्पत्तेः । इह च राज्ञोऽपि पुरुषत्वेन राजपुरुषयोर-भेदाबाधात् । नीलघट इत्यत्र तु त्वन्मते नीलरूपं न घट इति १नीलशब्दे लक्षणास्तु । न त्वत्र ।
२किं च यदि राजपुरुषयोः सम्बन्ध एव वृत्तिं विना संसर्ग मर्यादया भासेत कथं तर्हि सम्बन्धे लक्षणावृत्तिः ।
न्यायदीपः
लक्षणावादिनापि समासे षष्ठीस्मृतिरवश्यं वाच्येति वक्तुमाह ।। किञ्च षष्ठीति ।। न सिध्येदिति ।। तात्पर्यानुपपत्तिव्यतिरिक्ततद् बीजाभावात्तत्र च पक्षे षष्ठीस्मृतेरावश्यकत्वं वक्ष्यामि इति भावः । प्रतीतान्वयानुपपत्तिर्वा आनयनानुपपत्तिरेव वा बीजमस्त्वित्यत आद्य आह ।। न तावदिति ।।
अभेदान्वयसम्भवेनान्वयानुपपत्तिर्नेति भावेनाह ।। त्बन्मत इति ।। व्युत्पत्तेरिति ।। नीलोत्पलमित्यादावितिभावः । राजपुरुषमित्यत्र नीलोत्पलमित्यादाविव श्रुतविभक्तेः समासादुत्पन्नत्वेन प्रातिपदिक१द्वयस्य विभक्तिद्वयस्यापि समासावयवस्य लुप्तत्वेन विभक्त्यनवरुद्धप्रातिपदिकयो-रित्युक्तम् । यदि व्युत्पत्तिवशादभेदान्वयस्तर्हि नीलघट इत्यादावपि रूपरूप्यभेदधीः स्यादित्यत आह ।। नीलेति ।। लक्षणेति ।। नीलाश्रये लक्षणेत्यर्थः ।
तर्कताण्डवम्
नापि राज्ञोऽस्मदादिकर्तृकानयनान्वयानुपपत्त्या लक्षणा । राजषुरुषस्तिष्ठतीत्यादौ तदभावात् ।
तस्माद्राजपदस्य सम्बन्धिनि निरूढतात्पर्यानुपपत्त्यैव निरूढ-लक्षणा वाच्या । इह चोक्ततात्पर्यग्राहकस्यान्यस्य अभावाद्राजपदस्य तत्पुरुषस्थत्वज्ञानमेव तद्ग्राहकं वाच्यम् । तज्ज्ञानं च विग्रहस्थ-षष्ठीस्मृतिं विना नेति कथं तदस्मृतिः । षष्ठीलोपानभिज्ञस्य तु राजपदे शक्तिभ्रमात्तदर्थधीः ।
न्यायदीपः
द्वितीयं निराह ।। नापीति ।। एवं प्रसक्तं निरस्य प्रतिज्ञातं सहेतुकमुप-संहरति ।। तस्मादित्यादिना ।। लोपाज्ञस्य समासेऽर्थबोधो न स्यादित्यत आह ।। षष्ठीति ।। सुपो धातुप्रातिपदिकयोरिति विहितषष्ठीलोपानभिज्ञ-स्येत्यर्थः ।। शक्तिभ्रमादिति ।। राजपदं राजसम्बन्धिनि शक्तमिति भ्रमादित्यर्थः ।
तर्कताण्डवम्
किञ्च सम्बन्धलक्षणापक्षे त्वन्मते नामार्थयोरभेदान्वयात् सम्बन्धपुुरुषयोरभेदधीः स्यात् । सम्बन्धिलक्षणापक्षे तु राजसम्बन्धि-पुरुष इति कर्मधारयस्येव राजपुरुष इत्यादितत्पुरुषस्यापि राज-सम्बन्धिपुरुषयोरभेदोर्थः स्यात् न च तद्युक्तम् । राज्ञः पुरुष इति व्यास इव तत्समनार्थे समासेपि राजपुरुषयोः सम्बन्धस्यैवानुभवात् ।।
यत्तु सम्बन्धिलक्षणापक्षे सम्बन्धिपुरुषयोरभेदात् कर्मधारया-पत्तिरिति ।
तन्न । सम्बन्धिलक्षणायाः स्वोपजीव्यतत्पुरुषाघातकत्वात् । तदेवं विभक्तिर्व्यासे श्रुता सम्बन्धबोधिका समासे तु लुप्ता स्मृतेत्येव भेदः । अत एव भाष्ये समासाद्व्यासे सुबलोपादिरेव विशेष इत्युक्तम् ।।
न्यायदीपः
लक्षणापक्षे बाधकं चाह ।। किञ्चेति ।। स्वोपजीव्येति ।। तत्पुरुष-समासं ज्ञात्वा राजपदं राजसम्बन्धिलक्षकमित्युपेयत्वेन तदुपजीविनः कथं तद् बाधकत्वम् । ‘‘सन्निपालक्षणो विधिरनिमित्तं तद्विघातस्येति’’ शाब्दिक-न्यायादिति भावः । एवं हि व्याससमासयोर्भेदो न स्यात् ।
उभयत्र विभक्त्यैव सम्बन्धाभिधानादिति चोद्यं परिहरन् किञ्च षष्ठीस्मृत्य-भाव इत्यादिनोक्तमुपसंहरति ।। तदेवमिति ।। भाष्ये महाभाष्ये ।
तर्कताण्डवम्
तस्माद्राजपुरुष इत्यादौ पूर्वपदे अर्धपिप्पलीत्यादावुत्तरपदे लक्षणेति तार्किकादिमतमयुक्तम् ।
नापि– समासे पदानि वर्णवन्निरर्थकानि । तस्माज्जहत्स्वार्था वृत्तिरिति राजसम्बन्धिपुरुषेऽखण्डशक्तिरिति वैयाकरणमतं युक्तम् ।
अवयवार्थानुभवात् । उक्तरीत्यान्यलभ्यतयाऽखण्डशक्तिकल्पका-भावाच्च । वाक्यस्यापि स्वार्थेऽखण्डशक्तिप्रसङ्गाच्च ।।
अत एव समर्थसूत्रे भाष्ये– वृत्तेर्जहदजहत्वेन द्वैविध्यमुक्त्वा आद्यपक्षेपि ‘‘जहदप्यसौ स्वार्थं नात्यन्तं जहाति । किन्तु परार्थ-विरोधिनमेव स्वार्थम् । यथा तक्षा राजकर्मणि प्रवर्तमानः स्वं तक्षकर्म जहाति । न तु हिक्कितहसितकण्डूयितानि’’ इत्यादिना वृत्तौ विग्रह इवासंसृष्टार्थपरत्वाभावेऽपि पांसुपिण्डवत्संसृष्टार्थपरत्वमस्तीत्युक्तत्वात् जहत्पक्षोप्यजहत्पक्ष एव प्रवेशितः ।
अत एव पदमञ्जर्यां च ‘‘अन्ये तु जहत्स्वार्थावृत्तिरिति वदन्तो वृत्तिपदानामानर्थक्यमेवाहुः, तन्न रोचामहे’’ इत्यादिना द्वितीयपक्ष एव सिद्धान्तितः ।।
न्यायदीपः
परदूषणमुपसंहरति ।। तस्मादिति ।। अर्धपिप्पलीति ।। पिप्पल्या अर्धं अर्धपिप्पलीति ‘‘अर्धं नपुंसकं’’ इत्यर्धपदस्य षष्ठ्यन्तेन समासे ‘‘उपसर्जनं पूर्वं’’ इति पूर्वनिपातादुत्तरपदे लुप्तषष्ठ्यन्ते लक्षणेत्यर्थः । तस्मा- न्निरर्थकत्वात् जहत्स्वार्था परित्यक्तावयवार्था वृत्तिः समास इत्यर्थः ।
।। उक्तरीत्येति ।। भङ्गादौ वा वस्तुतस्त्वित्यादिना वोक्तरीत्येत्यर्थः ।। अत एवेति ।। अवयवार्थानुभवादेवेत्यर्थः । द्वितीयस्य प्रथमे पादे ‘‘समर्थः पदविधिः’’ इति सूत्रे महाभाष्य इत्यर्थः ।। वृत्तेरिति ।। समासस्येत्यर्थः ।
तर्कताण्डवम्
नच छिद्रेतरत्वादिवदन्वयप्रकारतया सबन्धभानं शाब्द बोधे वृत्त्यनुपस्थितस्यान्वयाप्रकारत्वात् । छिद्रेतरत्वमपि न प्रकारः । तत्र प्रवृत्तिस्तु सन्निहित इव योग्यत्वात् । तस्मात् तत्पुरुषे योगरूपा मुख्यवृत्तिरेव ।
अत एव श्रुतौ ‘‘तं यद्देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वामदेवस्तस्माद्वामदेव इत्याचक्षते । एतमेव सन्तं’’ इति षष्ठीतत्पुुरषे वामदेवशब्दे, सूत्रे च द्युभ्वाद्यायतनशब्दे, अनुव्याख्याने च–
‘‘दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः ।
गुणा नारा इति ज्ञेयास्तद्वान्नारायणः स्मृतः’’ ।
इति नारायणशब्दे,
‘‘वाक्यार्थोपि हि वाक्यार्थशब्देनैवोदितो भवेत्’’ ।
इति वाक्यार्थशब्दे चाभिधैवोक्ता ।
सुधायां च ब्रह्मजिज्ञासेत्यत्र कर्मणि षष्ठीत्युक्तम् । यथा योगो यथा कुम्भकारः औपगवः राजपुरुष इति तत्पुरुषे योगरूपा मुख्यवृत्ति- रेवोक्ता । श्रुतावाचक्षत इत्यनेन सूत्रे च समन्वयसूत्रस्थसंशब्देन मुख्यैव वृत्तिरुक्ता ।
।। तत्पुरुषे लक्षणादिभङ्गः ।। ७३ ।।
न्यायदीपः
ननु सम्बन्धबोधार्थं न लुप्तविभक्तिस्मृतिरावश्यकी । प्रकारान्तरेणापि सम्बन्धबोधसम्भवादित्याशङ्क्य निराह ।। नचेति ।। यथा घटेन जलमाहरेत्यत्र घटपदेन छिद्रेतरत्वप्रकारिका धीर्जायते । अन्यथा छिद्रेतरघटे प्रवृत्तिर्न स्यात् । तथाच प्रकृतेपि राजसम्बन्धीपुरुष इति राजपुरुषान्वये प्रकारतया सम्बन्धस्य भानमित्यर्थः । दृष्टान्तं च निराह ।। छिद्रेति ।। सन्निहित इति ।। सन्निहिते यथेत्यर्थः ।
।। श्रुताविति ।। ऐतरेयोपनिषदि । तं प्रकृतप्राणनामकं, यत्यस्मात्, नोआस्माकं, वामःमनोहरः । देववाम इति वक्तव्ये वामदेव इति परनिपातो निरुक्तिबलाद्ध्येयः । वामदेवशब्देभिधैवोक्तेत्यन्वयः ।
।। सूत्रे चेति ।। ‘‘द्युभ्वाद्यायतनं स्वशब्दात्’’ इति व्याससूत्रे च द्युभ्वादेरायतनं द्युभ्वाद्यायतनमिति शब्देऽभिधैवोक्तेत्यन्वयः । अनुव्याख्याने च नारायणशब्दे वाक्यार्थशब्दे चाभिधैवोक्तेत्यर्थः ।। तत इति ।। अरविरुद्धत्वादित्यर्थः ।
।। तद्वानिति ।। नाराणामयनं नारायण इति षष्ठीतत्पुरुषो ध्येयः । नारायणशब्द इत्यादौ षष्ठीतत्पुरुष इत्यनुषञ्जनीयम् ।। षष्ठीत्युक्तमिति ।। न तु ब्रह्मकर्मत्वे ब्रह्मपदं लाक्षणिकमित्युक्तमित्यर्थः ।। तथेति ।। सुधायामेवानुमानिकपादे वृत्तिलक्षणोक्तिप्रस्तावे ‘‘योगो यथा’’ इत्यादिना तत्पुरुषेपि योगरूपमुख्यवृत्तिरेवोक्तेत्यर्थः । कृत्तद्धितसमासानां क्रमेणोदाहरणं कुम्भकार इत्यादि ।
नन्वयं वै न इति श्रुतौ मुख्यवृत्तिरिति कुत इत्यत आह ।। श्रुताविति ।। क्रियायुक्तस्याङो मुख्यत्वार्थकत्वादिति भावः ।। सूत्रे चेति ।। ‘‘तत्तु समन्वयात्’’ इति सर्वशब्दसमन्वयप्रतिज्ञासूत्रे संशब्देन मुख्यवृत्तिं शब्दा-नामुक्त्वा तस्यैव ‘‘ज्योतिरुपक्रमात्’’ इत्यादौ प्रपञ्चनेन वामदेवादिशब्दे मुख्यवृत्तिरेवाभिमतेत्यर्थः ।
यद्वा सौत्रद्युभ्वाद्यायतनशब्दे अभिधावृत्तिरुक्तेति कुत इत्यत आह ।। सूत्रे चेति ।। द्युभ्याद्यायतनसूत्रे चेत्यर्थः । एतेन शब्दानां लक्षणां वदन्तो निरस्ता ध्येयाः ।
।। तत्पुरुषे लक्षणादिभङ्गः ।। ७३ ।।