ननु त्वन्मते सर्वगोव्यक्तिसङ्ग्राहकस्य ..
किं च क्रियावत्त्वं न द्रव्यलक्षणम् अव्याप्तेः..
ननु त्वन्मते सादृश्येनातीतादेः ..
ननु पुरोवर्तिगोव्यक्तौ मन्मते गोत्वमिव ..
अपि च सादृश्येञ्जनादिवत्सहकारित्वमात्रेण प्रत्यासत्तिशब्दः
ननु तथाऽपि गवयोपि गोसादृश्यप्रतियोगीति..
यद्वा तवेव ममापि पुरोवर्तिगोवर्तिगोत्वं ज्ञातमेव प्रत्यासत्तिः
नन्वेवं सादृश्यस्यैकत्वेऽपि तस्य शक्तिग्रहे..
तस्मास्त्वरूपसत्सादृश्योपस्थापितपरस्परसदृशनानागोत्वावच्छिन्नव्यक्तिषु
यद्वा यथा प्राभाकरमते धेनुशब्दस्य ..
यद्वाऽऽदौ स्वरूपसत्सादृश्यमुक्तरीत्याऽतीतादिकमुपस्थाप्य..
सुधायां त्वयं गौरित्युपदेशो व्याप्तिग्राहकः..
अत्र च वर्तमानसन्निकृष्टमात्रग्राहीति..
यत्तु– सुधायामतीतानागतार्थेष्वित्यनुव्याख्यानस्यानागतादि..
ननु त्वन्मते सर्वगोव्यक्तिसङ्ग्राहकस्य ..
अथ अनुगतजात्यभावेपि शक्तिव्याप्त्यादिग्रहणसमर्थनम् ।
सादृश्येनैव शक्तिव्याप्त्यादिग्रहणं
तर्कताण्डवम्
ननु त्वन्मते सर्वगोव्यक्तिसङ्ग्राहकस्य शक्यतावच्छेदकस्यैकस्य गोत्वस्याभावेन शक्तिग्रहकाले सर्वगोवव्यक्युपस्थित्यसम्भवात् कथं गोशब्दस्य सर्वगोव्यक्युपसंहारेण शक्तिग्रहः । तद्ग्रहे च कथं गोशब्दादपूर्वगोव्यक्तिधीः । एवं सर्वधूमाग्निसङ् ग्राहकयोर्व्याप्यत्व-व्यापकतावच्छेदकयोर्धूमत्वाग्नित्वयोः कार्यत्वकारणत्वावच्छेदकयो-रनुगतयोः घटत्वदण्डत्वयोश्च अभावे कथं सर्वोपसंहारेण व्याप्तेः कार्यकारणभावस्य च ग्रहः । कथं च कारणाकारणविभागः । व्यक्त्यपेक्षया नियतत्वस्य रासभेऽपि सत्त्वाज्जात्यपेक्षया नियमस्य त्वन्मते दण्डादावप्यभावात् ।।
न्यायदीपः
एवं शक्तिस्वरूपं निरूप्यावसरप्राप्तं तद् ग्रहप्रकारं–
‘‘इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते’’ ।
इत्यादिवैशेषिकाधिकरणानुव्याख्यानसुधयोः ‘‘समयप्रवृत्तौ तु सादृश्य-मुपधान’’मिति पद्धतौ चोक्तं समर्थयमानः सुधोक्तं पूर्वपक्षं सङ्क्षिप्यानुवदति ।। ननु त्वन्मत इति ।। अभावेनेति ।। आगामिभङ्गे वक्ष्यमाणदिशेति भावः । अनुगतजातिपक्षे तु पुरोवर्तिचक्षुः संयुक्तघटादौ प्रत्यक्षावगतं घटत्वं प्रत्यासत्तीभूय स्वाश्रयभूतसमस्तघटव्यक्तीः प्रत्यक्षज्ञाने भासयतीति युगपदुप-स्थितानन्तव्यक्तिषु शक्तिग्रहः सुशक इति भावः । तुल्यन्यायविषयत्वादाह ।। एवमिति ।। व्याप्यत्वावच्छेदकव्यापकत्वावच्छेदकयोरित्यर्थः । धूमत्वाग्नित्वयोरित्यनन्तरं एवमित्यनुषङ्गः ।। सर्वोपसंहारेणेति ।। सर्वेषां युगपदेकबुद्धिस्थत्वं सर्वोपसंहारः । तेन च धूमवह्निघटदण्डरूपसर्वव्यक्ति-निष्ठव्यापकभावग्रहः कार्यकारणभावग्रहो भवति स कथमित्यर्थः ।
मास्तु को दोषः पुरोवर्तिनोरेव व्याप्यादिभावग्रहोस्त्वित्यत आह ।। कथं चेति ।। उपलक्षणमेतत् । व्याप्याव्याप्यविभागश्च कथमित्यपि ध्येयम् । कार्यकारणविभागायोगं व्यनक्ति ।। व्यक्तीति ।। नियतपूर्ववृत्ति-त्वादिना हि कारणत्वादिकं वाच्यम् । तत्र नियमश्च दण्डे सति घटः तदभावे तदभाव इति वाच्यः । स च दण्डघटरूपव्यक्तिमादाय चेत्तदा कस्मिंश्चित् घटे जायमाने यत्र रासभोऽपि सन्निहितस्तत्र रासभे सति घट इत्यस्ति नियम इति रासभस्यापि कारणत्वग्रहः स्यात् ।
अथ– दण्डत्वावच्छिन्ने सति घटत्वावच्छिन्नमित्येवं नियमस्तु सिद्धान्तिनो मते न युक्तः । अनुगतदण्डत्वादेरभावात् । एवं व्याप्यत्वादि ग्रहेऽपि ज्ञेयम् । तथा च दण्डान्तरादौ कारणत्वाद्यग्रहेऽपि कारणत्वादि-स्वीकारे रासभादेरपि स्वीकारापत्तेः कारणाकारणादिविभागो न स्यादित्यर्थः ।