किञ्च परमते तर्कस्य किं विषयविशोधन उपयोगः किं वा व्याप्तिग्रहे
अथ परमते तर्कोपयोगासम्भवः ।। १८ ।।
तर्कताण्डवम्
किञ्च परमते तर्कस्य किं विषयविशोधन उपयोगः किं वा व्याप्तिग्रहे । आद्येऽपि किमुदयनरीत्या अनिष्टप्रसञ्जनत्वमात्रेणोप-योगः, किं वा वर्धमानरीत्या साध्याभावसन्देहनिवर्तनेन, यद्वा तज्जन्यसाध्याभावजिज्ञासानिवर्तनेन, अथवा तज्जन्यसाध्यजिज्ञासो-ज्जीवनेन । नाद्यः । अनिष्टप्रसञ्जनत्वमात्रेण तर्कोपयोगे शङ्काभावेऽपि तर्कापेक्षाप्रसङ्गात् । न द्वितीयः । सन्देहस्य तज्जन्यजिज्ञासयैव निवृत्तेः । निर्धूमत्वज्ञानस्य निरग्निकत्वसन्देहेन सह विषयकृत-विरोधाभावेन तदनिवर्तकत्वाच्च । प्रत्युत निर्धूमत्वस्य साग्निकत्व-निरग्निकत्वरूपकोटिद्वयसाधारण्येन तज्ज्ञानं सन्देहोपोद्वलकमेव । मन्मते तु विषयकृतविरोधः प्रागेवोक्तः ।
किञ्च वह्निव्याप्ते धूमे दृष्टे कथं वह्न्यभावसन्देहः । न च विशेष-दर्शने सति स्वारसिकस्य वह्न्यभावसन्देहस्यासम्भवेपि प्रतिप्रमाणा-हिता तच्छङ्का युक्तेति वाच्यम् । प्रतिप्रमाणेऽनन्यथासिद्धे जाग्रति तर्कसहस्रेणापि तदाहितशङ्कानिवृत्त्ययोगात् । न च तर्कादेव प्रति-प्रमाणस्यान्यथासिद्धिः । त्वन्मते विषयकृतविरोधाभावादित्युक्तत्वात् ।।
न तृतीयः । ज्ञानस्य हीच्छानिवर्तकत्वमनिष्टतावच्छेदकधर्म-प्रकारकत्वेनैव । अन्यथा प्रमेयत्वादिप्रकारकमपि विषादिज्ञानं तन्निवर्तकं स्यात् । न च निर्धूमत्वज्ञानं त्वन्मते निर्धूमतां तदा-पादकत्वेनानिष्टां निरग्नितां वाऽनिष्टतावच्छेदकधर्म१तयोल्लिखति । तथात्वे तर्कस्य प्रामाण्यापातात् । किं तु पक्षनिष्ठतयैवेति कथं तर्केण निरग्निकत्वजिज्ञासानिवृत्तिः ।।
किंच प्रमाणविरुद्धनिर्धूमत्वापादकतया निरग्निकत्वमेवानिष्टं न तु तज्ज्ञानम् । तस्यारोपरूपत्वेन तदनापादकत्वात् । तथा च निरग्नि-कत्वविषयेच्छाया एव निवृत्तिः स्यात् । न तु तज्ज्ञानविषयेच्छा-रूपजिज्ञासायाः ।।
किञ्चेच्छाविच्छेदकमनिष्टत्वं दुःखतत्साधनान्यतरत्वरूपं न त्वप्रामाणिकतदापादकान्यतरत्वरूपम् । आप्तवाक्यादिना स्वस्य दारिद्र्यं निश्चितवतोऽपि धने औत्कण्ट्यदर्शनात् । तथा चाप्रामाणिक-निर्धूमत्वापादके निरग्निकत्वे कथं शब्दसाम्यमात्रेणेच्छाविच्छेदं ब्रूषे ।।
किञ्च साध्याभावजिज्ञासा न साध्यानुमितिप्रतिबन्धिका । येन तन्निवृत्तये तर्कोऽपेक्ष्येत । सा हि साध्याभावविषयकज्ञानविषयिणी । न च साध्याभावविषयविषयकमपि साध्यज्ञानविरोधि । तथात्वे हि पक्षे साध्याभावज्ञानमिति ज्ञानेनाप्यनुमितिः प्रतिबध्येत ।।
नापि चतुर्थः । निर्धूमत्वविषयस्य तर्कस्य भिन्नविषयत्वेनाग्नि-विषयकजिज्ञासोज्जीवकत्वायोगात् । एतेन व्याप्तिग्रहे उपयोग इति द्वितीयोऽपि निरस्तः । निर्धूमत्वज्ञानस्य विषयकृतविरोधाभावादारोप- त्वेन ज्ञातत्वाच्च निरग्निकोऽस्त्विति शङ्कां प्रत्यविरोधित्वादिति दिक् ।।
एतदेवाभिप्रेत्योक्तं पद्धतौ विपरीतशङ्कानिरसनद्वारेणेति । न तूदयनादिरीत्याऽनिष्टप्रसञ्जकत्वादिनेत्यर्थः । अत्र विपरीतशब्देन परमते स्वमत इव निवर्त्यायाः शङ्काया निवर्तकेन तर्केण सह विषयकृतो विरोधो नेति दर्शितम् ।।
न्यायदीपः
नन्वस्तु भवदुक्तरीत्या तर्कस्योपयोगे सति प्रमाणत्वम् । न त्वेवम् । किं त्वन्यथैवोपयोगः । तत्र च तर्कस्याप्रामाण्येऽपि न दोष इत्यत-स्तदुक्तोपयोगं खण्डयितुमाह– किञ्चेति । व्याप्तिग्राहकस्य विषय-परिशोधकस्य वेति परामर्शवादान्ते मण्युक्तेराह– किं विषयेति । तज्जन्येति । साध्याभावसन्देहजन्येत्यर्थः । तज्जन्यजिज्ञासयैवेति । उत्तरात्मविशेषगुणानां पूर्वगुणनिवर्तकत्वादिति भावः । कोटिद्वय-साधारण्येनेति । निर्धूमत्वस्यायोगोलकादाविव साग्निकत्वेऽपि ह्रदादाविव निरग्निकत्वेऽपि सम्भवात् साधारण्येनेत्युक्तम् । भवन्मतेऽपि तर्हि निर्धूमत्वज्ञानाच्छङ्कानिवृत्तिर्न स्यादित्यत आह– मन्मते त्विति । अन्यथोपपत्त्यन्यथानुपपत्तिरूपविषयकृतविरोधस्य सन्देहतर्कयोः पूर्ववादे प्रतिपादितत्वादित्यर्थः । नन्वन्यथोपपन्नत्वशङ्काया धूमादिविषयायास्तर्केण निर्धूमत्वापादनरूपेण निरासेऽपि भिन्नविषयकसाध्यसन्देहस्य कथं निवृत्ति-रित्यतो हेतोरन्यथोपपत्तिशङ्कानिवृत्यैव तदाहितः साध्यसन्देहो निवर्तत एव । प्रत्युत त्वन्मत एव तन्निवृत्तिरयुक्तेति भावेनाह– किञ्चेति ।।
यद्वा तर्कजन्यनिर्धूमत्वज्ञानं किं स्वारसिकसाध्यसन्देहनिवर्तनेनोपयुज्यते अथाऽहितसन्देहनिवर्तनेन । नाद्यः । तस्यैवानुदयात् । नान्त्यः । विरोधिविषयत्वाभावात् । इत्याह– किंचेति । उक्तत्वादिति । प्रत्युतेत्यादिग्रन्थेनोक्तत्वादित्यर्थः । प्रतिप्रमाणं–साध्याभावविषयं तर्कज्ञानं तु निर्धूमत्वविषयमिति विरोधिविषयकत्वं नेति भावः । साध्या-भावजिज्ञासानिवर्तनेनेति पक्षं निराह– न तृतीय इति । जिज्ञासा हि ज्ञानेच्छा । निर्धूमत्वज्ञानेन जिज्ञासानिवृत्तौ निवृत्तिप्रयोजकधर्माभावान्न सामर्थ्यमिति सामान्यन्यायोक्तिपूर्वमाह– ज्ञानस्य हीति । अनिष्टतायां यदवच्छेदकं अहित्वविषत्वकण्टकत्वादिकं तत्प्रकारकत्वेनैवेत्यर्थः । अस्त्वेतदपि ज्ञानं तथेत्यत आह– न चेति । निर्धूमतामित्यत्राप्य-निष्टामित्यन्वेति । नचोल्लिखतीति । प्रमाणविरुद्धत्वादेरनिष्टतावच्छेदक-स्फुरणस्याननुभवादिति भावः । विपक्षे बाधकं चाह– तथात्व इति । अनिष्टमनिष्टतावच्छेदकेनोल्लेखे सति वह्नित्वादिना वह्न्याद्युल्लेखिज्ञानस्येव प्रामाण्यं स्यादित्यर्थः ।।
ननु धूमं पश्यतः कथं निर्धूमत्वादिज्ञाने प्रमाणविरुद्धत्वादिकं न भायात् । न चैवं प्रामाण्यापातः अविद्यमानपक्षनिष्ठत्वभानादप्रामाण्यमस्त्विति चेदेवमपि निर्धूमत्वज्ञानेन निरग्निकत्वेच्छैव निवर्त्या न तु तज्ज्ञानेच्छारूपा जिज्ञासे-त्याह– किञ्चेति । अनिष्टतावच्छेदकप्रकारकं ज्ञानमनिष्टविषयेच्छां निवर्तयति । सा च निरग्निकत्वेच्छैव । तस्या अनिष्टत्वात् । न तु तज्ज्ञाने-च्छारूपा । जिज्ञास्यज्ञानस्यानिष्टत्वाभावादित्यर्थः ।।
नन्वनिष्टविषयकत्वान्निरग्निकत्वज्ञानमप्यनिष्टमेवेत्यतो विषयस्याप्य-निष्टत्वमभ्युपेत्योक्तम् । वस्तुतस्तदपि नेत्याह– किंचेच्छेति । न चाप्रामाणिकेति । अप्रामाणिकत्वं वा, तदापादकत्वं वा, येन निर्धूमत्वमप्रामाणिकमिति निरग्निकत्वं च तदापादकमित्युभयमनिष्टं स्यादित्यर्थः । धन इति । तस्य स्वस्मिन्नप्रामाणिकत्वनिश्चयेऽप्यनिष्टत्वा-भावात्प्रत्युतौत्कण्ठ्यरूपेच्छाविषयत्वेनेष्टत्वस्यैव दर्शनादित्यर्थः । शब्द-साम्यमात्रेणेति । दुःखं तत्साधनं वा यथानिष्टमुच्यते तथाऽप्रामाणिके तदापादके वाऽङ्गीकारानर्हत्वमात्रेणानिष्टपदमस्तीति शब्दसाम्यमात्रेणेत्यर्थः । निर्धूमत्वादिज्ञानेन ह्यनुमितिप्रतिबन्धकं निरस्यम् । साध्याभावजिज्ञासा तु न प्रतिबन्धिकेति तन्निरासायासो व्यर्थ एवेत्याह– किञ्चेति । इति ज्ञाने-नापीति । साध्याभावज्ञानविषयकज्ञानस्यापि स्वविषयज्ञानद्वारा साध्याभाव-विषयकत्वादिति भावः ।।
मणिकण्ठे तु– साध्याभावमात्रविषयकजिज्ञासा ह्यनुमितिप्रतिबन्धिका । न तु साध्यतदभावोभयविषया । संशयेन चोभयकोटिकैव जिज्ञासा जन्यते । न तु साध्याभावमात्रकोटिका जिज्ञासा । तस्मिन्काले साध्याभावमात्र-जिज्ञासोत्पत्तौ कारणाभावात्किं तन्निवर्तकतर्केणेत्युक्तम् । तत्र साध्याभावमात्र जिज्ञासाया अप्युक्तदिशा प्रतिबन्धकत्वाभावो ध्येयः ।। साध्याभावसंशय-जन्यसाध्यजिज्ञासोज्जीवकत्वेन तर्कस्योपयोग इति पक्षं निराह– नापि चतुर्थ इति । द्वितीयोऽपि निरस्त इति । १धूमत्वज्ञानं हि धूमस्य निरग्निकत्व-रूपसाध्याभावसामानाधिकरण्यरूपव्यभिचारज्ञाननिवृत्तिद्वाराऽव्यभिचरित-सामानाधिकरण्यरूपव्याप्तिग्रहोपयोगीति वाच्यम् । ज्ञानस्य व्यभिचारज्ञान-निवर्तकत्वं तद्विरोधिविषयत्वेनैव । न च निर्धूमत्वज्ञानं साध्याभाव-सामानाधिकरण्यविरोधिविषयकं येन व्याप्तिग्रहोपयोगि स्यादिति भावेनाह–निर्धूमत्वज्ञानस्येति ।।
किञ्च त्वन्मते केवलान्वयिसाध्यकहेतुप्रयोगस्थले साध्याभावाप्रसिद्ध्या मास्तु प्रमेयत्वमित्यादिशङ्कानुदयेन तत्र तन्निवर्तनासम्भवात्कथं तत्र तर्कस्योपयोगः । अपि च तर्कस्यापि व्याप्तिसापेक्षत्वेन तर्काङ्गव्याप्तिज्ञानेऽपि तर्कापेक्षायामनवस्थापातेन न व्याप्तिग्रहोपयोगित्वं तर्कस्य स्यात् । यदि क्वचित्तर्केण विनापि व्याप्तिग्रहस्तर्हि व्यभिचारात्कथं तर्कस्य तदुपयोगित्वम् । सिद्धान्ते तु स्वतन्त्रप्रमाणत्वान्न व्याप्तिग्रह एवोपयोगः । उपयोगोऽपि बहुप्रकारेण प्रागेवोपपादित इत्याद्यनुसन्धायाह– दिगिति । स्वमत इवेति । अन्यथोपपत्त्यन्यथानुपपत्तिरूपविरुद्धविषयकत्वं यथा स्वमते तथा न परमत इत्यर्थः ।।
।। इति परमते तर्कोपयोगासम्भवः ।। १८ ।।