ननु तथापि स्वतस्त्वेऽनभ्यासदशायां संशयो न स्यात्

स्वतस्त्वे संशयोपपादनम्

तर्कताण्डवम्

ननु तथापि स्वतस्त्वेऽनभ्यासदशायां संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यग्रहात् । अग्रहे च धर्मिज्ञानाभावादिति चेन्न । असतिप्रतिबन्धे साक्षिवेद्यत्वनियमो वा साक्षिवेद्यत्वयोग्यता वा स्वतस्त्व-मित्युक्तम् । अप्रामाण्यसंशयस्थले च प्रामाण्यग्रहणशक्ति-प्रतिबन्धिकाऽप्रामाण्यग्रहणसामग्रीसमवहितैव । अन्यथाऽप्रामाण्य-संशयायोगात् । एवं च ज्ञानं गृह्णता साक्षिणा शक्तिप्रतिबन्धात् प्रामाण्याग्रहणेऽप्यस्मदुक्तस्वतस्त्वाहान्या स्वतस्त्वपक्षेऽपि धर्मि-ज्ञानस्य प्रामाण्यानिश्चयस्य च सम्भवेन संशयो युक्त एव । न हि ज्ञानत्वप्रमात्वग्रहणशक्त्योरेकप्रतिबन्धकप्रतिबध्यत्वमपि स्वतस्त्वा-न्तर्गतम् ।

युक्तिरत्नाकरः

उक्तानुमाने प्रतिकूलतर्कपराहतिं शङ्कते ।। नन्विति ।। तथापि उक्तरीत्या बाधोद्धारेपि । अनभ्यासदशायां सजातीयविजातीयसंवादाभाव-दशायामेतच्चापाद्यस्यानिष्टत्वस्य ज्ञापनाय । तथा च प्रामाण्यं यदि स्वाश्रयग्राहकेण नियमेन ग्राह्यं स्यात् न तदा सन्दिग्धेत । न चेष्टापत्तिः । अनभ्यासदशायां तस्यानुभवसिद्धत्वादित्यर्थो लभ्यते । तदुपपादयति ।। ज्ञानग्रहे इति ।।

ज्ञानग्रहेऽपि प्रामाण्यग्रहे च न स्वतस्त्वमिति भावः । अग्रहे ज्ञानस्य ।। असतीति ।। आद्यस्वतस्त्वनिरुक्तौ ग्राह्येत्यादि प्रथमविशेषणेन प्रतिबन्धकासमवहितस्यैव विवक्षितत्वादिति भावः । साक्षीति उभयत्रापि ग्राह्यप्रामाण्याश्रयज्ञानविषयकसाक्षीत्यर्थः । यद्यप्युभयसिद्धेत्यादि तृतीय-स्वतस्त्वनिर्णयाय नैय्यायिकाभिमतग्राह्यत्वसाधारणादेव साक्षिघटितेन सङ्गृह्यते तथापि तस्याः परमतसाधारणस्य तत्रैवोक्त्या स्वमतसाधारणत्वेनोक्त-स्वतस्त्वनिरुक्तिद्वयमेवेह सङ्गृहीतमिति बोध्यम् ।। ग्रहणेति ।। निश्चये-त्यर्थः ।। ग्राहकेति ।। ज्ञापकेत्यर्थः । अत एव संशयनिश्चय-सामग्ये्रत्युभयोरपि प्रतिबन्धकत्वात्प्रामाण्यविरोध्युपस्थापकसामग्य्रोभयं वा एतेत्युभयसाधारण्येनैव प्राक् निरुक्तम् । एवं संशयस्थले प्रतिबन्धक-सद्भावमुपपाद्य द्विविधेऽपि स्वतस्त्वे संशयानुपपत्तिमुद्धरति ।। एवं चेति ।। साक्षिणा शक्तिप्रतिबन्धात् प्रामाण्यग्रहण इत्यनेनाप्रतिबद्धसाक्षिवेद्यत्वनैयत्यं प्रतिबन्धदशायामाग्रहेति साक्षिवेद्यत्वयोग्यत्वं चाक्षतमिति दर्शितम् । अस्मदुक्तस्वतस्त्वान्येत्यनेन च मण्युक्तेऽप्रामाण्यग्राहकेत्यत्र प्रामाण्यविरोधिग्राहकसमवहितेति पर्यवसिम् । ग्राहकपदेन निश्चायकत्वं वा विवक्षितम् उपस्थापकमात्रं वा । नाद्यः लोके विपरीतनिश्चये सामग्य्रा इव तत्संशयसामग्य्रा अपि निश्चयप्रतिबन्धकत्वदर्शनेन अप्रामाण्यनिश्चय-सामग्रीस्थल इव तत्संशयसामग्रीस्थलेपि प्रतिबन्धादेव प्रामाण्यनिश्चयस्य स्वतस्त्ववादिना वाच्यतया तद्ग्रहस्यावश्यकत्वेन निश्चायकविवक्षायोगात् । नान्त्यः उक्तस्वतस्त्वे संशयानुपपत्तेरभावेन राद्धान्तस्त्वित्यादिना संशयानुपपत्तेर्दोषत्वोक्त्ययोगादिति दर्शितम् ।। संशयो युक्त एवेति ।।

ननु धर्मिज्ञानात्पूर्वकालीनाप्रामाण्यादिकोटिस्मृतेः कथं संशयहेतुता तत्पूर्वमप्रामाण्यादिकोटिस्मृत्यभावे च धर्मिज्ञानस्य प्रामाण्यविरोध्युप-स्थापकसामग्य्रसमवहितसाक्षिरूपतया प्रामाण्यनिश्चायकत्वावश्यम्भावे कथं संशयः । न च धर्मिज्ञानान्तरभाविकोटिस्मृतेरेव संशयहेतुतेत्यत्र मानाभावः । स्थाणुत्वपुरुषत्वकोटिद्वयसाधारणोर्ध्वतादिविषयकस्य धर्मिज्ञानस्य कोटिस्मारकत्वेनैव संशयं प्रति हेतुत्वावधारणात् । कथमन्यथा साधारणासाधारणधर्मदर्शनविप्रतिपत्तीनां संशयोपयोगः । न हि नित्या-नित्यव्यावृत्तिगन्धवत्वदर्शनस्य विप्रतिपत्तेर्वा कोटिद्वयोपस्थापकत्वमन्तरेण संशयोपयोगः । न च साधारणधर्मदर्शनादिनेवादृष्टादिनापि जानाति कोटिस्मृतिसंशयहेतुः त्रैविध्योक्त्ययोगात् सिद्धान्तेऽप्यसाधारणधर्मदर्शन-विप्रतिपत्योः साधारणधर्मदर्शन एवान्तर्भावेनैकविध्यस्यैवोक्तेरिति चेन्न । दैवात्कोटिस्मृतिमतामूर्ध्वत्वादिविशिष्टपुरोवर्तिधर्मिदर्शनेनापि संशयस्यानुभव-सिद्धत्वात् । साधारणधर्मदर्शनस्योक्तरीया कोटिस्मारकत्वेन संशयहेतुत्व-सिद्धावपि धर्मिज्ञानात्पूर्वकालीनादृष्टादिजन्यकोटिस्मृतेः संशयाहेतुत्व-मित्यस्यालाभाच्च । तेनैवासाधारणधर्मदर्शनरूपधर्मिज्ञानस्य संशयेऽ-नुपयोगप्रसङ्गः । दैवात् स्थाणुत्वपुरुषत्वकोटिस्मृतिमतो नयनोन्मीलना-नन्तरमनेकवस्तुदर्शनेऽपि यत्रैवोर्ध्वतादिसाधारणधर्मदर्शनं तत्रैव संशयो नान्यत्रैवेत्येवंविधधर्मिनियमार्थत्वात् । न चैवं संशयत्रैविध्योक्तिविरोधः । अदृष्टादिजन्यकोटिस्मृतिस्थले धर्मिज्ञानजन्यकोटिस्मृतिस्थले चोक्तरीत्या साधारणधर्मदर्शनस्य संशयोपयोगिमात्रेण तदुपपत्तिः साधारणधर्मदर्शन-विप्रतिपत्योस्तु प्रकारान्तरेणोपयोगासम्भवे कोटिस्मारकत्वेनैवोपयोग इत्यन्यदेतत् । अस्तु वा धर्मिज्ञानस्य साधारणधर्मदर्शनयोः कोटिस्मृतिद्वारैव संशयहेतुता । तथापि न स्वतस्त्वेन संशयानुपपत्तिः । न च धर्मिज्ञानात्पूर्वमप्रामाण्यकोटिस्मृत्यभावे प्रामाण्यविरोध्युपस्थापकसामग्य्रसमहित एव धर्मिज्ञानरूपसाक्षीति प्रामाण्यनिश्चय एव स्यात् न संशय इति वाच्यम् । अप्रामाण्यसंशयहेतुदोषस्यैव तत्र सत्वात् । सामग्रीपदेनापि तस्यैवा-प्रामाण्यसंशयाद्येसाधारणकारणतया विवक्षितत्वादत एव स्वतस्त्वनिरुक्त्यवसरे दोषशङ्कादिरूपे प्रामाण्यविरोधिग्राहकसामग्रीसमवधानात्मके प्रतिबन्धे सतीत्युक्तम् ।

न च तत्र दोषशङ्केति दोषजन्यत्वे शङ्केति व्याख्यातत्वात् कथमेतदिति वाच्यम् । दोषश्च शङ्का चेति दोषशङ्केति विग्रहे दोषस्य तज्जन्यत्वशङ्कायाश्च लाभात् । अत एवात्राप्यसति प्रतिबन्धे साक्षिवेद्यत्वनियम इति प्रामाण्य-विरोधीत्यादेः प्रतिबन्धकत्वमात्रार्थकत्वमभिहितम् । एवं प्रामाण्यसंशयस्थले आवश्यकतज्जन्यदोषेणैव प्रतिबन्धात् धर्मिज्ञाने प्रामाण्यनिश्चायके सति ततः कोटिद्वयस्मृतौ प्रामाण्याप्रामाण्यसंशयो युक्त एवेति भावः ।

न्यायदीपः

उक्तानुमानेषुप्रतिकूलतर्कपराहतिं मण्याद्युक्तमाशङ्कते ।। नन्विति ।। तथाऽपीति ।।प्रबलबाधरूपदोषाभावेऽपीत्यर्थः ।। प्रामाण्यग्रहादिति ।। अन्यथा स्वतस्त्वभङ्गापत्तेरिति भावः ।। अग्रहे चेति ।। ज्ञानस्येत्यनुषङ्गः । यथा हि त्वन्मते जातिव्यक्त्योरेकवित्तिवेद्यत्वनियमेपि दोषवशादिदं रूप्य-मिति भ्रमस्थले शुक्तिग्रहेपि न शुक्तित्वग्रहः तथा मन्मतेपि ज्ञानप्रामाण्ययोः एकवित्तिवेद्यत्वनियमेपि संशयस्थले ज्ञानग्रहे सत्यपि तेन तत्प्रामाण्याग्रहेपि न स्वतस्त्वभङ्गः ।

अस्माभिरुक्तस्वतस्त्वस्य तत्रापि सत्वादिति भावेन ‘‘धर्म्युपलब्धावपि व्याघातादिदर्शनेन साक्षिणिप्रतिबद्धे प्रामाण्यविषये मनसि संशयोपपत्तेः’’ इति तत्वनिर्णयटीकां विवृण्वानः समाधत्ते ।। असतिप्रतिबन्ध इति ।। प्रामाण्यविरोध्युपस्थापकसामग्र्यसमवधाने सतीत्यर्थः । अत्र सर्वत्र साक्षी प्रागुक्तरूप एव ज्ञेयः ।। ग्रहणेति ।। निश्चयेत्यर्थः ।। अन्यथेति ।। उक्तरूपसामग्र्यभाव इत्यर्थः ।

अस्तु सामग्री ततः किमित्यत आह ।। एवं चेति ।। प्रामाण्यविरोध्युप-स्थापकसामग्री-समवधाने सतीत्यर्थः ।। धर्मिज्ञानस्येति ।। व्यवसायरूपस्य संशये धर्मिणो यज्ज्ञानं तस्येत्यर्थः ।। संशयो युक्त एवेति ।। मानसोऽयं बोध्यः । न तु साक्षिरूपः तस्य सुदृढनिर्णयरूपत्वात् ।

अस्मदुक्तस्वतस्त्वाहान्येत्युक्तं व्यनक्ति ।। न हीति ।। असतिप्रतिबन्धे ज्ञानगोचरसाक्षिवेद्यत्वनैयत्यमित्यस्यप्रतिबन्धे सति साक्षिणा ज्ञानं प्रामाण्यं चोभयं न गृह्यत इति यद्यर्थस्तदा परं स्वतस्त्वहानिः । नह्येवं विवक्ष्यत इति भावः ।

Load More