उच्यते– लिङ्गाभिमतस्य यत्र यदा यं प्रति..

अथ स्वमते पक्षलक्षणम् ।। ६ ।।

तर्कताण्डवम्

उच्यते–

लिङ्गाभिमतस्य यत्र यदा यं प्रति यद्धीजननानुकूलसहकारि-सम्पत्तिस्तत्र तदा तं प्रति तत् साध्यम् । तादृशसाध्यविशिष्टश्च तदा तं प्रति तस्यानुमितौ पक्षः ।।

न च पक्षताया अप्यनुमितिहेतुत्वेन सहकारिरूपायाः कथं सहकारिसम्पत्तिरूपतेति वाच्यम् । मन्मते पक्षताया अनुमिति-सहकारिसंपत्तिरूपत्त्वेनानुमित्यहेतुत्वात् । त्वन्मतेऽपि हि पक्षता सिद्धिरूपप्रतिबन्धकाभावतया हेतुः । सिद्धेश्च न सिद्धिः प्रतिबन्धिका । किन्त्वनुकूलैवेत्युक्तम् ।।

नन्वेवं सति लिङ्गपरामर्शदशायामेव पक्षता न तु ततः प्राक् । ततश्च लिङ्गपरामर्शः कथं पक्षधर्मताविषयकः स्यादिति चेत् । कात्र कथंता । लिङ्गपरामर्शस्य पक्षधर्मताविषयकत्वं हि न स्वपूर्वकाले स्वकाले च विद्यमाना या पक्षता तदाश्रये व्याप्यवत्त्वविषयकत्वम् । किं तु स्वकाले वस्तुगत्या विद्यमाना या पक्षता तदाश्रये व्याप्यवत्त्व-विषयकत्वम् । लिङ्गपरामर्शकाले च पक्षताऽस्त्येव । पक्षताज्ञानं तु त्वन्मतेऽपि नानुमितिहेतुरिति कात्रानुपपत्तिः । सपक्षविपक्षावप्युक्त-सहकारिसंपत्तिदशायां पक्षावेव । तदसंपत्तिदशायां पक्षोऽप्यपक्ष एव । न हि पक्षत्वं जातिः ।।

एतदेवाभिप्रेत्य मिथ्यात्वानुमानखण्डनटीकायां ‘साध्यधर्मविशिष्टः पक्ष’ इति मूलव्याख्यावसरे ‘यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्म’ इत्युक्तम् । सुधायामपि वस्तुतस्त्वनुमितिविषयः पक्ष इत्युक्तम् । तत्र हि तव्यप्रत्ययेन विषयशब्देन चोक्तसहकारिसम्पत्ति-रूपानुमितिविषयत्वयोग्यतैवाभिप्रेता ।।

यद्वा ग्रन्थद्वयेऽपि व्यापकवत्त्वेनानुमितिविषयत्वं पक्षत्वमभि-प्रेतम् । व्यापकवत्त्वेन विशेषणेन१ तदनुमितिविषयेऽपि व्यापके व्यापकतावच्छेदकादौ च नातिव्याप्तिः । अस्मिंश्च पक्षे लिङ्ग-परामर्शदशायामपि न पक्षता । किं त्वनुमितिदशायामेव । त्वन्मतेऽप्यनुमितिदशायां सिद्धिविरहगर्भिता पक्षता नास्त्येव । अस्मिन्पक्षे लिङ्गपरामर्शस्य पक्षधर्मताविषयकत्वं तु स्वजन्यफल-समानकालीनपक्षताश्रये व्याप्यवत्त्वविषयकत्वम् ।।

केचित्तु– ग्रन्थद्वयेऽप्यनुमितिविषयत्वयोग्यतैव पक्षताऽभिप्रेता । योग्यता च समानाधिकरणा प्रमात्वेनाभिमता या साध्याभावविषया धीस्तदभावः । एवं च जगत्यक्षणिकत्ववादिनि व्यधिकरणायां प्रमात्वेनाभिमतायां क्षणिकत्ववादिनि च समानाधिकरणायां प्रमात्वेनानभिमतायां प्रत्यक्षायामक्षणिकत्वप्रमायां च सत्यामपि क्षणिकवादिनः क्षणिकत्वानुमाने जगतः पक्षता युक्ता । धूमानुमाने महानसे सपक्षव्यवहारस्तु निश्चितव्यापकवत्तया सपक्षत्वस्यापि सत्त्वात् । उक्तरूपायां पक्षतायां सत्यामपि पक्षत्वाव्यवहारोऽप्यनु-मित्यविषयत्वात् । तत्र पक्षतायां सत्यामपि कदाचिदनुमित्यभावश्च त्वन्मते संशयोत्तरप्रत्यक्षस्थल इव लिङ्गपरामर्शादितत्सामग्य्र-भावादित्याहुः ।।

न्यायदीपा

साध्यधर्मविशिष्टः पक्ष’ इति मिथ्यात्वानुमानखण्डने भगवत्पादोक्तं पक्षलक्षणमिह विवक्षुः ‘लिङ्गेन यत्प्रतीतिर्जनयितव्या स साध्यधर्म’ इति टीकोक्तं परिष्कुर्वन् साध्यस्वरूपं तावदाह– लिङ्गाभिमतस्येति । पर्वतोऽग्निमान्प्रमेयत्वादिति व्यभिचारिप्रयोगादावव्याप्तिनिरासाय लिङ्गाभि-मतेत्युक्तम् । व्याप्यत्वेनाभिमतस्येत्यर्थः । समानाधिकरणव्यधिकरणसर्व-साध्यस्वरूपनिर्वचनार्थं यत्र यदेत्याद्युक्तम् । देशान्तरे कालान्तरे पुरुषान्तरं प्रति वस्त्वन्तरज्ञाने चानुकूलसहकारिसंपत्तिमादाय देशान्तरादौ साध्यतापत्तिदोषनिरासाय यत्तच्छब्दचतुष्टयम् । सहकारिसंपत्तिः सहकारि-मेलनम् । लिङ्गजन्यानुमितिविषयत्वयोग्यत्वं साध्यत्वमिति फलितार्थः ।।

एतेन साध्यशब्देन किं संदिग्धो धर्मो विवक्षितः किं वा प्रज्ञापनीयः यद्वा प्रमित्सितः । नाद्यः । सत्यां सिद्धावित्यादिपूर्वभङ्गोक्तग्रन्थे निश्चित-स्यापि साध्यत्वोक्तिविरोधात् । प्रमाणसंप्लववादिनां निश्चितेऽप्यनुमान-प्रवृत्तेरङ्गीकाराच्च । न द्वितीयः । स्वार्थानुमाने प्रयोज्यकर्तुरभावेन प्रज्ञापना-भावात् । न तृतीयः । अनिष्टानुमानाभावप्रसङ्गादित्याद्युपप्लवोऽपोढः । लिङ्गजन्यप्रतीतिविषयधर्मस्य साध्यधर्मपदेन विवक्षितत्वात् । तस्य कालान्तरादिकमादायातिप्रसङ्गनिवृत्त्यर्थं यत्र यदेत्येवं निरुक्तत्वात् ।।

एवं च पर्वतनिष्ठधूमेन पर्वतीयवह्न्यनुमित्युत्पादनदशायां वह्नेः साध्यत्वं नदीपूरेणोर्ध्वदेशवृष्ट्यनुमित्युत्पादनवेलायां वृष्टेः साध्यत्वं कृत्तिकोदयेन रोहिण्युदयासत्त्यनुमितिकाले रोहिण्युदयासत्तेः साध्यत्वमित्यादि ध्येयम् । अस्तु साध्यमेवं रूपं ततः किमित्यत आह– तादृशेति । उक्तरूपेत्यर्थः । तं प्रति पुरुषं प्रति । तस्येति । वह्न्यादिवस्तुनः । अत्रापि कालान्तरे पुरुषान्तरं प्रति वस्त्वन्तरानुमितौ वस्त्वन्तरविशिष्टस्य पक्षताव्युदासाय तदा तं प्रति तस्येत्युक्तिः ।।

ननु साध्यधर्मविशिष्टत्वं साध्यधर्मसम्बन्धित्वम् । तच्च व्याप्यतया साधनस्याप्यस्तीति तत्रातिव्याप्तिरिति चेन्न । धर्मधर्मिभावेन वैशिष्ट्यस्य विवक्षितत्वात् । साध्यपदं सपक्षादावतिव्याप्तिनिरासाय । साध्यविशिष्टः पक्ष इत्येवोक्ते वस्तुतोऽग्निविशिष्टपर्वतस्यापि साध्यत्वात्तद्विशिष्टान्यस्य पक्षत्वं स्यात् । तदर्थं धर्मग्रहणम् । न च वह्निरेव साध्यो न पर्वत इति वाच्यम् । वह्निस्वरूपमात्रस्य प्रागेव सिद्धत्वात् । पर्वतसम्बन्धित्वेना-सिद्धत्वात्तद्रूपेण वह्निः साध्यते इति चेत्तर्हि यथा पर्वतसम्बन्धित्वेन वह्निः साध्यः तथा पर्वतोऽप्यग्निसम्बन्धित्वेन साध्य एव स्वरूपमात्रसिद्धावपि विशिष्टासिद्धेरुभयत्र समानत्वात् ।।

ननु न्यायमते सहकारिसंपत्तिरूपत्वं पक्षतालक्षणमसम्भवीत्यत आह– त्वन्मत इति । उक्तमिति । पूर्वभङ्गे । तथा च तव मतेऽपि पक्षताया न सहकारित्वमिति भावः । नन्वेवमिति । अनुमितिसहकारिसंपत्तेः पक्षतात्वे सतीत्यर्थः । कथं पक्षधर्मताविषयक इति । पक्षताधिकरण-वृत्तिर्यो धर्मः तद्विषयकत्वस्य पक्षधर्मताविषयकत्वेन पक्षतायाः परामर्श१-कालताऽवश्यम्भावादिति भावः ।।

नन्वेवं पक्षतायाः परामर्शकालीनत्वेन परामर्शस्य तदविषयकत्वात्तस्य चरमकालत्वेन तदनन्तरं पक्षताज्ञानस्याशक्यशङ्कत्वात्पक्षताज्ञानं न हेतुरिति स्यादित्यत आह– पक्षताज्ञानं त्विति । त्वन्मतेऽपीति । न केवलं मन्मत इत्यर्थः । प्रतिबन्धकाभावरूपत्वात्प्रतिबन्धकाभावस्य च स्वरूपसत एव हेतुत्वादिति भावः ।।

नन्वेवं सपक्षादावपि कदाचिदुक्तसहकारिसंपत्तेः सम्भवात्पक्षेऽपि कदाचित्तदसम्भवादतिव्याप्त्यव्याप्ती स्यातामित्यत आह– सपक्षेति । साध्यलक्षणे धीपदेन प्रमितेरविवक्षितत्वाद्विपक्षस्यापि ग्रहणं कृतम् । सुधायामपीति । भक्तिपादे साध्यासिद्धेरदोषत्वोक्तिप्रस्तावे सुधायामित्यर्थः । स्वोक्तं मूलारूढतया दर्शयति– तत्र हीति । उदाहृतवाक्यद्वये हीत्यर्थः । संपत्तिरूपा योग्यतैवेत्यन्वयः । योग्यतापक्षमाश्रित्यैकं पक्षमुक्त्वा फलोप-धानमाश्रित्य लक्षणान्तरमाह– यद्वेति ।। ननूक्तपक्षद्वये कदाचिदेव पक्षता प्राप्ता न तु परामर्शात्पूर्वं पश्चाच्चेत्यतस्त्वन्मतेऽपि तथैव प्रत्युता-वश्यकानुमितिवेलायामेव नास्तीत्याह– त्वन्मतेऽपीति । सर्वदा पक्षतासत्त्वप्रकारमाह– केचित्त्विति । समानाधिकरणेति । यत्रानु-मित्युत्पादस्तदधिकरणवृत्तिरित्यर्थः । प्रमात्वेनाभिमतसमानाधिकरण-साध्याभावबुद्ध्यभाव इत्यर्थः । बुद्ध्यभाव इत्युक्तेऽसम्भवः । अभाव-बुद्ध्यभाव इत्युक्तेऽपि स एव दोषः । बाधाद्यभावबुद्धेः सत्त्वात् । साध्याभावबुद्ध्यभाव इत्युक्तेऽपि स एव दोषः । भ्रमरूपसाध्याभावबुद्धेः संशयरूपायाः१ सत्त्वात् । प्रमारूपेत्युक्तौ वादिप्रतिवादिनिष्ठपरस्पर-साध्याभावबुद्धेः प्रमारूपत्वनियमाभावेन तादृशबुद्धौ सत्यामपि पक्षता स्यात्सा माभूदित्यभिमतेत्युक्तम् । प्रमात्वेनाभिमततादृशबुद्ध्यभाव इत्युक्तेऽपि व्यधिकरणपुरुषान्तरप्रतिवादिबुद्धिमादायासम्भव एवेति समानाधिकरणेत्यादि सर्वमर्थवत् ।।

परार्थानुमानस्थले पक्षतालक्षणं लक्ष्यनिष्ठतया दर्शयति । एवं चेति । क्षणिकवादिनः यत्सत्तत्क्षणिकं यथा दीपादि सच्चेदं जगदित्येवंरूपक्षणि-कत्वानुमाने जगतः पक्षता युक्तेत्यन्वयः । प्रत्यभिज्ञारूपा जगत्यक्षणिकत्व-धीस्तावत्क्षणिकवादिनोऽक्षणिकवादिनश्चास्ति । तत्र क्षणिकवादिनः प्रमात्वेनानभिमता । अन्यस्य तु प्रमात्वेनाभिमता । सा चानुमातरि क्षणिकवादिनि सत्त्वात्समानाधिकरणा । अक्षणिकवादिनि सत्त्वाद्व्यधिकरणा च । तथा च तादृशसाध्याभावबुद्धौ सत्यामपि समानाधिकरणप्रमात्वाभिमत-बुद्ध्यभावात्पक्षता युक्तेत्यर्थः । अक्षणिकवादिनि क्षणिकवादिनि चेत्यनन्तरं विद्यमानत्वेनेति शेषः । प्रत्यक्षायां प्रत्यभिज्ञानादिसाक्षात्काररूपाया-मित्यर्थः । नन्वेवं महानसादावप्युक्तरूपानुमितिविषयत्वयोग्यत्वसत्त्वात्पक्षता स्यात् । तथा च तत्कार्याणां सपक्षत्वाव्यवहारपक्षत्वव्यवहारानुमिती-नामापात इत्यत आह– धूमेति । पक्षत्वाव्यवहारोऽपीत्यत्र हेतुरनुमित्य-विषयत्वादिति । लिङ्गपरामर्शादीति । तत्र यथा विशकलितव्याप्ति-स्मरणकरादिरूपलिङ्गदर्शनयोर्भावेऽपि व्याप्तिविशिष्टलिङ्गदर्शनरूपपरामर्शा-भावाद्वा परामर्शसत्त्वेऽपि प्रत्यक्षसामग्रीबलवत्त्वेन वा यथा नानुमिति-स्तथेत्यर्थः ।।

अत्र गौरवमरुचिबीजमित्येके । दैवान्महानसादौ सत्यपि परामर्शे प्रत्यक्षसामग्य्रामसत्यां चानुमित्यापत्त्या पक्षत्वव्यवहाराद्यापात इत्यन्ये ।।

।। इति स्वमते पक्षलक्षणम् ।। ६ ।।