एतेन यदुक्तं मणिकण्ठे । सूत्रोक्तरीत्या हेत्वाभासाः पञ्चैव

मणिकण्ठोक्तहेत्वाभासासङ्करभङ्गः ।। ३७ ।।

तर्कताण्डवम्

एतेन यदुक्तं मणिकण्ठे । सूत्रोक्तरीत्या हेत्वाभासाः पञ्चैव । अनुपसंहारी तु व्याप्यत्वासिद्धावन्तर्भूतः । तत्र यद्यपि विरुद्धे अनैकान्तिकद्वये च व्याप्तिप्रमाव्यतिरेकोऽस्ति । तथाप्यनैकान्तिकयोः संशयकारणसाधारणासाधारणधर्मज्ञाननिबन्धनः प्रमाव्यतिरेकः । विरुद्धे तु साध्यासमानाधिकरणधर्मग्रहनिबन्धनः । तत्रोपजीव्यत्वा-त्तेषामेवोद्भावनम् । न तु प्रमाव्यतिरेकस्यासिद्धस्येति । तदपि निरस्तम् । साधारणादेर्धर्मस्य हि साधारणत्वादिना ज्ञानं संशयहेतुः । साधारणत्वं च सपक्षविपक्षवृत्तित्वम् । तत्र च विपक्षवृत्तित्वमेवा-व्याप्तिरिति सैवोद्भाव्या । न तु सपक्षवृत्तित्वमपि । वैयर्थ्यादित्युक्तं साधारणप्रस्तावे ।।

एवमसाधारणत्वमपि सपक्षविपक्षव्यावृत्तत्वम् । तत्र च वृत्तिमतः सपक्षव्यावृत्तत्वं सन्दिग्धाव्याप्तिरिति सैवोद्भाव्या । न तु विपक्ष-व्यावृत्तत्वमपि । वैयर्थ्यादित्युक्तमसाधारणप्रस्तावे ।

एवं साध्यासामानाधिकरण्यमपि । यत्र हेतुस्तत्र साध्यमिति सामानाधिकरण्याभावः । स च हेतुमति साध्याभावात्मकत्वाद-व्याप्तिरेवेत्युक्तमनुपसंहारिप्रस्तावे ।।

किं चैवं सति व्याप्तस्य पक्षधर्मत्वाप्रमितिरूपासिद्धिरप्याश्रय-हेतुस्वरूपतद्विशेषणासत्त्वज्ञाननिबन्धनेत्याश्रयासत्त्वादीनामपि हेत्वाभासान्तरत्वं स्यात् ।।

ननु चाभावज्ञानाद्भावप्रमाव्यतिरेकः सर्वत्र नैतावता१साधारणत्वं सिध्यति । २यच्चेह निरूप्यत इति चेन्न । व्यभिचारस्यापि व्याप्त्यभावरूपत्वेनाभावज्ञानाद्भावरूपव्याप्तिप्रमाविरह इति साम्यात् ।

किं च प्रतिरोधस्यापि सर्वकार्यसाधारणदोषत्वाद्धेत्वाभासत्वं न स्यात् ।।

यदि च सत्प्रतिपक्षस्य द्वेधा प्रतिबन्धकता साधारण्यसाधारणी च तत्रासाधारणमनुमितिप्रतिबन्धकत्वमादाय हेत्वाभासत्वं तर्ह्यभाव-ज्ञानस्यापि भावप्रमाप्रतिबन्धकत्वं द्वेधेति समम् ।।

न्यायदीपः

हेत्वाभासपञ्चकस्यान्योन्यासाङ्कर्यं मणिकण्ठोक्तमनूद्य निराह– एतेनेति । सूत्रेति । सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासा इति गौतमसूत्रोक्तेरित्यर्थः । पञ्चत्वाक्षेपसमाधी मणिकण्ठोक्तावेवानुवदति– तत्र यद्यपीति । पञ्चसु मध्य इत्यर्थः । अनैकान्तिकद्वये चेति । साधारणा-साधारणरूपे इत्यर्थः । साधारणासाधारणेति । साधारणधर्मासाधारणधर्म-विप्रतिपत्तिभेदेन त्रीणि संशयकारणानि । तत्र साधारणानैकान्तिके साधारण-धर्मज्ञाननिमित्तको व्यतिरेकः, असाधारणधर्मज्ञाननिबन्धनोऽसाधारणा-नैकान्तिके व्याप्तिप्रमाव्यतिरेक इति तयोर्भेदः । तेषामेवेति । साधारणा-साधारणधर्मसाध्यसमानाधिकरणधर्माणामेवेत्यर्थः । साधारणत्वादिज्ञान-मिति । अन्यथा पर्वतोऽग्निमान् १पक्षत्वादित्यादौ प्रमेयत्वेनेव २वृक्षवत्त्व-रूपेण वा जातेऽपि ज्ञाने साध्यसंशयापत्तेरिति भावः । साधारणेति । साधारणस्याव्याप्त्यन्तर्भावप्रस्ताव इत्यर्थः ।। एवमग्रेऽपि ।

उपजीव्यत्वात्तेषामेवोद्भावनमित्यत्रातिप्रसङ्गान्तरं चाह– किं चेति । विरुद्धेऽनैकान्तिकद्वये च प्रमाव्यतिरेकाविशेषेऽप्यवान्तरभेदाद्भेदोक्तौ । योऽतिप्रसङ्ग उक्तः तदुद्धारमाशङ्क्य साम्येन निराह– नन्वित्यादिना । सर्वत्रेति । आश्रयासत्त्वहेतुस्वरूपासत्त्वहेतुविशेषणासत्त्वादिज्ञान-निबन्धनासिद्धिषु सर्वास्वप्याश्रयाद्यभावज्ञानाद्व्याप्तिपक्षधर्मतारूपभावप्रमाविरह इत्यर्थः । एतावतेति । भावप्रमाव्यतिरेकनिमित्तत्वमात्रे३ च भावप्रमा-व्यतिरेकं प्रत्यसाधारणकारणत्वमाश्रयाभावज्ञानाना४मस्तीत्यर्थः । तावता हेत्वा-भासाधिक्यं कुतो नेत्यत आह– तच्चेति । भावप्रमाव्यतिरेकं प्रति यदसाधारणं कारणं तदेवेह हेत्वाभासप्रकरणे विभज्यमानत्वेन निरूप्यत इत्यर्थः । इति साम्यादिति । तथा च साध्याभावव्याप्तरूपविरुद्धस्या-नैकान्तिकद्वयस्य चाव्याप्तित्वेनैकदूषणत्वमेव न तु त्वदुक्तप्रकारेणानेक-हेत्वाभासत्वमिति भावः ।।

नन्वभावज्ञानस्य भावप्रमाव्यतिरेकहेतुत्वे हेत्वाभासत्वरूपासाधारण-दोषत्वं व्याप्त्यभावज्ञानस्य न स्यादित्यतः प्रतिबन्दीमुखेन समाधातुमाह– किं चेति । सर्वकार्येति । अनुमितितदितरसर्वकार्येत्यर्थः । हेत्वाभासत्वं हेत्वसाधारणदोषत्वमित्यर्थः । परमुखेनोत्तरं वाचयित्वा सममित्याह– यदि चेति । सममिति । तथा चासाधारणमनुमितिप्रतिबन्धकत्वमादाय हेत्वा-भासत्वं भविष्यतीति भावः ।।

।। इति मणिकण्ठोक्तहेत्वाभासासङ्करभङ्गः ।। ३७ ।।