अत्र केचित्– पङ्कजादिशब्दास्तामरसे पद्मशब्दवद्रूढा एव
६१. अथ योगरूढिसमर्थनम् ।
तर्कताण्डवम्
अत्र केचित्– पङ्कजादिशब्दास्तामरसे पद्मशब्दवद्रूढा एव । कोशेषु पद्मपर्यायत्वेन पाठात् । योगस्य कुमुदादावतिप्रसक्तत्वेना-नतिप्रसङ्गाय रूढेरपि स्वीकारे आवश्यकत्वाद् रूढ्यैवोपपत्तेश्च । ‘‘सप्तम्यां जनेर्ड’’ इत्याद्यनुशासनं च ‘‘गमेर्डो’’ इत्यादिवच्छब्द-साधुत्वमात्रपरमित्याहुः ।
तन्न । पङ्कजपदेनौपगवादिपदैरिवावयवार्थस्य पङ्कजनिकर्तृत्वस्यापि प्रतीतेः । गोशब्देन तु गमनकर्तृत्वस्याप्रतीतेः । कोशपाठस्येन्द्रपर्याय-शचीपत्यादिशब्दानामिव यौगिकत्वेऽप्युपपत्तेः ।
न्यायदीपः
यत्तु सुधायां विरोधाद्वैफल्याच्च योगरूढिरयुक्तेति केचिदित्यादिना आनुमानिकपादे योगरूढिमाक्षिप्य तत्समाधानं कृतं तद्विवरितुमाह ।। अत्र केचिदिति ।। अभिधात्रैविध्यविषये योगरूढ्यपलापवादिन इत्याहुरित्य-न्वयः । कोशेषु अमरादिनिघण्टुग्रन्थेषु ।
योगवादिनोपि रूढिरावश्यकीत्याह ।। योगस्येति ।। नन्वेवं योगवृत्त्य-पलापे पाणिनिस्मृतिविरोध इत्यत आह ।। सप्तम्यामिति ।। सप्तम्यन्ते उपपदे जनीप्रादुर्भावे इत्यस्माद्धातोः कर्तरि डप्रत्यये पङ्के जायत इति पङ्कज-मिति तृतीयाद्यपादे व्युत्पादनापर्यायानुशासनं च गमेर्धातोर्डोप्रत्ययो भवती-त्यौणादिकगोशब्दव्युत्पादनवत्साधुत्वमात्रपरमित्यर्थः । न हि गोशब्दे अवयवार्थनिमित्तकत्वमस्ति । तथात्वे महिष्यादावपि गोशब्दप्रयोगापत्तिरिति भावः ।
यत्तु सप्तम्यामित्यादि तत्तावदुद्धरति ।। पङ्कजपदेनेति ।। अप्रतीते-रिति ।। गोत्वप्रतीतेरेवानुभवात् प्रतीत्यनुरोधेनैव वृत्तिकल्पनात् गोशब्दस्य केवलरूढत्वेपि पङ्कजादिपदानां योगरूढत्वमेवोपेयमिति भावः । कोशपाठा-न्यथानुपपत्तिमुद्धरति ।। कोशेति ।। ‘‘वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः’’ इति यौगिकस्यापि रूढेन्द्रादिशब्दपर्यायत्वेन यथापाठस्तथो-पपत्तेरित्यर्थः ।
तर्कताण्डवम्
प्राभाकरास्त्वाहुः– ‘‘पङ्कजपदे रूढिः पद्मत्वभानार्थं वा कुमुदाद्य-भानार्थं वा । आद्येपि भानं स्मृतिरनुभूतिर्वा ।
नाद्यः । पद्मत्वस्य पङ्कजपदाशक्यत्वेप्यदृष्टादिना वा पद्मत्वाधि-करण एव नियतप्रयोगरूपसम्बन्धयुक्तेनाशक्तेनैव पदेन वोद्बुद्ध-संस्कारादेव स्मृतेः ।
नान्त्यः । उक्तरीत्या स्मृतं पद्ममादायव्यक्तिवचनन्यायेन पङ्कप्रातिपदिकजनिधातुडप्रत्ययरूपैरवयवैः पङ्कजनिकर्तृपद्ममित्या-द्यनुभवसम्भवात् ।
नचैवं गामानयेत्यादौ गोशब्दस्यापि गवि शक्तिर्न स्यादिति वाच्यम् । तथात्वे गोशब्दवैयर्थ्यात् । इह तु पङ्कजपदमुक्तकर्तृत्व-स्योपस्थित्यर्थम् ।
नचैवमदृष्टादिनेति पक्षे पङ्कजपदप्रयोगकाले कदाचिददृष्टादिना कुमुदस्यापि स्मृतौ तदादायावयवैः पङ्कजनिकर्तृ कुमुदमित्यनुभूयेतेति वाच्यम् । तत्काले पद्मस्यैव नियतस्मृतिदर्शनेन फलबलेन पद्मसंस्कारस्यैवोद्बोधकल्पनात् ।
न च प्रयोगसम्बन्धपक्षे पङ्कजपदप्रयोगविषये पद्मत्ववत् तद्व्यापकस्य कुसुमत्वादेस्तद्व्याप्यस्य पुण्डरीकत्वादेरपि सत्त्वात्तयोरपि स्मृतिः स्यादिति वाच्यम् । तयोः प्रयोगेण सह समनियमाभावात् ।
नापि कुमुदाद्यभानार्थमिति द्वितीयः । पङ्कजं कुमुदमानयेत्यादौ कुमुदादेरपि भानात् ।
किञ्च तदप्रतीत्यर्थं तत्प्रत्यायकयोगाभाव एव कल्प्यः । न तु पद्मत्वे रूढिः । तस्मात् पङ्कजपदं पद्मे यौगिकमेव’’ इति ।
न्यायदीपः
।। प्राभाकरास्त्विति ।। रूढ्यपलापमाहुरित्यर्थः । तत्प्रकारमाह ।। पङ्कजेति ।। यद्यप्येतन्मतं अत्र मीमांसका इत्यादिनानूद्य मणावेव योगरूढिवादे दूषितम् । तथापि तदुक्तदूषणप्रकारमप्रीयमाणः स्वयं निष्कृष्य तन्मतमनूद्य प्रकारान्तरेण दूषयितुमिमं प्रयत्नमकरोदित्यदोषः ।
अदृष्टादेः कल्प्यत्वं मन्वानः पक्षान्तरमाह ।। पद्मत्वाधिकरण एवेति ।। उक्तेति ।। अदृष्टादिना वेत्युक्तरीत्येत्यर्थः ।। व्यक्तीति ।। व्यक्तिवचनानां सन्निहितविशेषपरत्वनियमादिति न्यायेनेत्यर्थः ।
न्यायस्यायमर्थः । किञ्चिद्व्यक्तितात्पर्यकाणां शब्दानां बुद्धिस्थव्यक्ति-विशेषपरत्वादिति । यथाग्नेय्यग्नीध््रामुपतिष्ठत ‘‘इत्यत्राग्नेर्ढक्’’ इति सूत्रविहितढक्प्रत्ययान्ताग्नेयीशब्देन ज्योतिष्टोमप्रकरणसन्निहितैवाग्निप्रकाशिका अग्न आयाहिवीतय इत्यादिका ऋगुपस्थाप्यत इत्युक्तं तृतीयाध्यायद्वितीया-ष्टमाधिकरणे, यथावा घटेन जलमाहरेत्यादौ सन्निहितं घटादि तथा पङ्कज-पदमपि किञ्चिद्व्यक्तितात्पर्यकतया प्रयुक्तमिति पङ्कजपदगतावयवैः पङ्कज् अ इत्येवंरूपैर्बोध्यमानं पङ्कजनिकर्तृत्वं स्मर्यमाणतया बुद्धिस्थे पद्म एव बोध्यते । पङ्कजनिकर्तृपद्ममिति तथाचान्यथैवानुभवोपपत्तौ किं समुदाय-शक्त्येति भावः ।
एवं तर्हि रूढिमात्रविलय इति भावेनाशङ्क्य निराह ।। नचैवमिति ।। अदृष्टादिना वा गोत्वाधिकरण एव नियतप्रयोगरूपसम्बन्धयुक्तेन गोशब्देनैव वोक्तरीत्या गोपिण्डस्मृतिसम्भवात् न गोपदस्य गविशक्तिः कल्प्येत्यर्थः ।। वैयर्थ्यादिति ।। गोपदादिना गोत्वादेरनुपस्थितावन्यथोपस्थिते गोपिण्डे अवयवार्थसमर्पणरूपेणापि सार्थक्यासम्भवाद्गोपदस्य रूढत्वादिति भावः ।
पङ्कजादियोगरूढस्थलेप्येवमस्त्वित्यत आह ।। इह त्विति ।। पद्मत्वादिस्मृत्यनुभवयोर्या द्वेधोपपत्तिरुक्ता तद्द्वयं क्रमेणाक्षिप्य समाधत्ते ।। न चैवमिति ।। न च प्रयोगेति च ।। तयोरपीति ।। तथाच– कुसुमं पङ्कजनिकर्तृ पुण्डरीकं पङ्कजनिकर्तृ इत्यपि धीः स्यात् । न तु पद्मं पङ्कजनिकर्तृ इत्येव । पद्मत्वापेक्षयाधिकन्यूनधर्माधिकरणेप्यगवयवार्थान्वय- प्रसङ्गः इति भावः ।
।। समनियमेति ।। पद्मत्ववत्येव पङ्कजपदप्रयोगः तत्प्रयोगवति पद्मत्वमितिवत्कुसुमत्ववत्येव पुण्डरीकत्ववत्येव वा पङ्कजपदप्रयोगाभावान्न पङ्कजपदप्रयोगविषये तयोः स्मृतिरिति भावः ।
तर्कताण्डवम्
उच्यते । पङ्कजपदस्य पद्मत्वविशिष्टे शक्त्याभावे किं पङ्कजपद-शक्यमिति प्रश्ने पद्ममित्यभियुक्तानां प्रतिवचनं कोशकाराणां पद्मपर्यायतया पाठश्च न स्यात् । पङ्कजं पद्ममिति कदाचित्सहप्रयोगश्च स्यात् ।
न च प्रतिवचनं ज्ञापकत्वमात्रेण युक्तम् । शक्तेरेव पृष्टत्वात् ।
न च कोशपाठो भ्रमराशक्तस्यापि द्विरेफशब्दस्य भ्रमरपर्यायतया पाठ इव युक्तः । स हि रेफद्वययुक्तभ्रमरशब्दरूपमुख्यार्थसम्बन्धाद् भ्रमरे लाक्षणिक इति वाच्यम् । द्विरेफशब्देन मुख्यार्थानुपपत्त्य-पुरस्कारेणैव भ्रमरप्रतीतेः । योगस्य रेफद्वययुक्तशब्दान्तरेतिप्रसक्तत्वेन भ्रमरशब्देपि रूढेरावश्यकतया भ्रमर एव रूढेरौचित्याच्च ।
न्यायदीपः
पद्मं पङ्कजपदशक्यं तच्छक्तिप्रश्नोत्तरविषयत्वात् सामान्यव्याप्त्या सम्मतवत् । पङ्कजपदं वा पद्मे शक्तं तद्वाचकपद्मादिशब्दपर्यायत्वेन कोशेषु पठ्यमानत्वाल्लोके पद्मादिशब्दैः सहाप्रयुज्यमानत्वाद्वा सम्मतवदिति प्रयोगत्रयं मन्वानो हेतूनामप्रयोजकत्वनिरासाय हेतूच्छित्तिरूपबाधकं तावदाह ।। पङ्कजपदस्येत्यादिना ।।
आद्यप्रयोगस्यान्यथोपपत्तिमाशङ्क्य निराह ।। न च प्रतिवचनमिति ।। शक्तेरेवेति ।। अन्यथा प्रश्नप्रतिवचनयोर्वैरूप्यापत्तेरिति भावः । द्वितीय-हेतोर्वा द्वितीयतर्कस्य वान्यथोपपत्तिमाशङ्क्य निराह ।। न च कोशपाठ इति ।। पाठ इवेति ।। ‘‘द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः’’ इत्यमरादौ पाठ इवेत्यर्थः ।
भ्रमराशक्तत्वं व्यनक्ति ।। स हीति ।। द्विरेफशब्द इत्यर्थः । दृष्टान्ता-सङ्गत्या दूषयति ।। द्विरेफेति ।। कप्तयोगमुखलक्षणयैवोपपत्तौ समुदाय-शक्तिकल्पनं गुर्विति वादिनं प्रत्याह ।। योगस्येति ।। शब्दान्तरे– रामचन्द्र-हरिश्चन्द्रादिशब्दे ।
तर्कताण्डवम्
सहाप्रयोगोप्यनन्यथासिद्ध एव । न हि पङ्कजपदावयवाः कप्तया पङ्कजपदनिष्ठया शक्त्योपस्थितं पद्ममादाय पङ्कजनिकर्तृ पद्ममिति नानुभावयन्ति । किन्तु कल्प्येनादृष्टादिना वाशक्तेनैव पङ्कजपदेन वोपस्थितमेवानुभावयन्तीत्यत्र हेतुरस्ति । येन पद्मपदं१ प्रयुज्येत ।
किञ्चास्य पाचकपदवदरूढत्वे पद्मत्वविशिष्टे समुदायव्युत्पत्तेरपेक्षा न स्यात् । अस्ति च सा । अवयवव्युत्पन्नस्यापि पुंसः समुदाया-व्युत्पन्नस्य पद्मत्वाप्रतीतेः । अवयवाव्युत्पन्नस्यापि वृद्धव्यवहारादिना समुदायव्युत्पन्नस्य तत्प्रतीतेश्च ।
नच नियतप्रयोगरूपसम्बन्धग्रहार्थं वृद्धव्यवहारापेक्षा न तु शक्तिग्रहार्थमिति वाच्यम् । गोशब्दादावपि तत्प्रसङ्गात् ।
न्यायदीपः
तृतीयहेतोरन्यथासिद्धिं निराह ।। सहाप्रयोगोपीति ।। नन्वदृष्टादिना-वेत्युक्तरीतिद्वयेनोपस्थित एवपद्मे पङ्कजपदा वयवार्थान्वयेन पद्मपदाकाङ्क्षा-विरहादस्तु पद्मपदस्या सहप्रयोगनियमः । न तु द्वयोः शक्तत्वेन पर्यायतेत्यतः कथम२न्यथासिद्धत्वमित्यत आह ।। न हीति ।। हेतुरस्तीत्यनेनान्वयः ।
समुदायव्युत्पत्त्यपेक्षान्यथानुपपत्त्या च पद्मे शक्तिः पङ्कजपदस्येति-भावेनाह ।। किञ्चेति ।। इष्टापत्तिं निराह ।। अस्ति च सेति ।।
व्यतिरेकान्वयावाह ।। अवयवेति ।। एतच्चावयवव्युत्पत्त्यान्यथा-सिद्धिनिरासायोक्तम् । समुदाये व्युत्पत्त्यभावे वृद्धव्यवहारापेक्षा नस्यादिति बाधकसूचनाय वृद्धव्यवहारादिनेत्युक्तम् । अत एव तदन्यथासिद्धिमाशङ्क्य निराह ।। न चनियतेति ।। तत्प्रसङ्गादिति ।। शक्तिग्रहार्थत्वा-भावप्रसङ्गादित्यर्थः ।
तर्कताण्डवम्
यत्त्वत्रोक्तं तथात्वे गोशब्दवैयर्थ्यं स्यादिति । तन्न । मया तद्वैयर्थ्यस्यैवापादनात् । कृतिराख्यातार्थ इति पक्षे करोतीत्यत्र धातोरिव गोप्रातिपदिकस्य कर्मत्वाद्युपस्थापकविभक्त्यनुग्रहार्थत्वोप-पत्तेश्च । पङ्कजपदाप्रयोगकाले पद्मत्वस्येव गोपदाप्रयोगकालेऽदृष्टादेः संस्कारानुद्बोधकत्वकल्पनेन गोपदस्य सार्थ कत्वसम्भवाच्च ।
किञ्चावैयर्थ्याय शक्तिकल्पने लाक्षणिकेपि तत्प्रसङ्गः । शक्ति-प्रमाणस्य वृद्धव्यवहारस्याभावात्तत्राशक्तिश्चेत् तत्प्रमाणस्यपङ्कजशब्दे भावाच्छक्तिरस्तु ।
यदि च गवादिशब्देष्वपि न स्मृत्यर्थं शक्तिः किन्त्वनुभवार्थं तर्हि पङ्कजशब्दे तदर्थमेवास्तु ।
स्मृतपद्मत्वविशिष्टकर्तृत्वानुभवो योगेनैव चेद्गामानयेत्यत्रापि स्मृतगोविशिष्टानयनानुभव आनयेत्यनेनैवास्तु । त्वत्पक्षे लक्षणा-स्थवत् ।
न्यायदीपः
।। धातोरिवेति ।। यथा कृधातोरपि तत्र कृतिवाचित्वे वैयर्थ्या-त्प्रत्ययानुग्रहार्थत्वं केवलप्रत्ययप्रयोगायोगेन धातुसाहित्येनैव प्रत्यय-प्रयोगात्तद्वदिहापीत्यर्थः । अदृष्टादिनावेत्यादिनोक्तदिशा जायमानगोपिण्डोप-स्थितिर्गोपदप्रयोगे सत्येव नान्यथा ।
अतोपि सार्थक्यमित्याह ।। पङ्कजेति ।। पद्मत्वस्येवेति ।। यथा पद्मत्वगोचरस्मृतिजनकसंस्कारोद्बोधकत्वमदृष्टादेवेति कल्प्यते तथेत्यर्थः ।। संस्कारेति ।। गोत्वगोचरसंस्कारानुद्बोधकत्वेत्यर्थः ।। लाक्षणिकेपीति ।। गङ्गायां घोष इत्यादौ गङ्गापदेन विना तीरोपस्थितौ गङ्गापदवैयर्थ्यापत्त्या गङ्गापदस्य तीरे गोपदस्य गोपिण्ड इव शक्तिः स्यात् । तथाच लक्षणोच्छेद इति भावः ।
।। तत्रेति ।। लाक्षणिके गङ्गादिशब्दे शक्तिर्न चेदित्यर्थः ।। तत्प्रमाणस्येति ।। शक्तिग्राहकप्रमाणस्य वृद्धव्यवहारस्येत्यर्थः । न हि गवादिशब्दे स्मृत्यर्थं शक्तिः किं त्वनुभवार्थमित्यादिना मण्युक्तप्रकराशयमनूद्य सममित्याह ।। यदि चेत्यादिना ।।
ननु पङ्कजशब्दसमुदायवृत्तिं विनैव पद्मेवयवार्थविशिष्टानुभवोवयववृत्त्यैव भविष्यतीत्याशङ्क्य एतदपि गोपदे सममिति तत्रापि रूढिर्नस्यादिति भावेनाह ।। स्मृतेति ।। त्वत्पक्ष इति ।। लाक्षणिकं पदं नानुभावकमिति-तार्किकमते गङ्गायां घोष इत्यत्र घोषपदस्यैव तीरान्वयानुभावकत्वं यथा तथैवास्तु गोपदस्य पिण्डे शक्तिर्मास्त्विति भावः ।
तर्कताण्डवम्
ननु व्युत्पत्त्यादेस्तौल्येनानयनपदवद्गोपदमपि स्वार्थानुभावकम् । अन्यथा वैपरीत्यं स्यात् । गङ्गापदं तु न नदी तीरे व्युत्पन्नमिति चेत्पङ्कजमानयेत्यत्रापि तत्तौल्येन द्वयमप्यनुभावकम् ।
ननु पङ्कजपदे यौगिकार्थानुभावकत्वेनापि तदुपपन्नं गोपदे तु न तदस्तीति चेत्तर्हि जातिविशिष्टव्यक्तौ व्युत्पन्नं गोपदमनन्यथा-सिद्धनियतपूर्ववर्तित्वादिविशिष्टे धर्मिणि व्युत्पन्नं कारणादिपदं च स्वार्थैकदेशस्यैवानुभावकं स्यात् ।
न्यायदीपः
लक्षणास्थलवैषम्यमाशङ्क्य निराह ।। नन्विति ।। तत्तौल्येनेति ।। क्रियायामानयनपदस्येव पङ्कजपदसमुदायस्यापि पद्मेपि व्युत्पत्तिसाम्येना-नयनत्वविशिष्टानयनानुभावकं यथानयनपदं तथा पङ्कजपदमपि पद्मत्व-विशिष्टपद्मानुभावकमेव । न तु पद्मत्वेन स्मृतपद्मेवयववृत्त्या पङ्कजनिक्त-र्तृत्वमात्रानुभावकमित्यर्थः ।
गामानयेत्येतद्वैषम्यमाशङ्क्य निराह ।। ननु पङ्कजेति ।। तर्हीति ।। व्युत्पत्तिबलेन पद्मत्वपङ्कजनिकर्तृत्वोभयविशिष्टानुभवेऽपि एकदेशानुभवाङ्गीकारे सतीत्यर्थः । कारणादीत्यादिपदेन कार्यादिग्रहः ।
तर्कताण्डवम्
अथ यावत्यर्थेव्युत्पत्तिः स सर्वोप्यनुभाव्यः । व्युत्पत्तिविषयत्व-तौल्यादिति चेत्तर्ह्यवयव्युत्पत्तेः पङ्कजादिकमिव समुदायव्युत्पत्तेः पद्मत्वं विषय एवेति तदप्यनुभाव्यमेव ।
इयांस्तु भेदः । गोशब्दे कारणादिशब्देचेकैव शक्तिरिह तु नानेति ।
किञ्च त्वदुक्तरीतिद्वयेन स्मृतकर्तृत्वान्वितपद्मानुभवो रूढ्यै-वास्त्विति योगो न सिध्येत् । यदि चावयवमात्रव्युत्पन्नस्य कर्तृत्व-प्रतीतेर्योगसिद्धिस्तर्हि समुदायमात्रव्युत्पन्नस्य पद्मत्वप्रतीते रूढिसिद्धि-रित्युक्तम् । तस्मादश्वकर्णादिशब्दवद्व्युत्पत्तिद्वयसापेक्षत्वाद्योग-रूढोयम् । एतावांस्तु विशेषोऽश्वकर्णादिषु योगरूढी भिन्नविषये इह त्वेकविषये इति ।
अपि च पद्मत्वविशिष्टस्य पङ्कजपदवृत्त्यविषयत्वे पङ्कजमान-येत्यादौ विभक्त्यर्थान्वयः शाब्दानुभवप्रवेशश्च नस्यात् । विभक्तीनां प्रकृत्यर्थान्वितस्वार्थाभिधायित्वस्य शाब्देनैव शाब्दान्वयस्य च व्युत्पत्तिसिद्धत्वात् । शिष्टं शब्दाध्याहारप्रस्तावे वक्ष्यते ।
न्यायदीपः
परमुखेनैव समाधिं वाचयित्वा समं पङ्कजपदमपीत्याह ।। अथेति ।। ननु केवलरूढगवादिपदैः कथं पङ्कजपदस्य साम्योक्तिरित्यत आह ।। इयां-स्त्विति ।। इह त्विति ।। पङ्कजपदावयवसमुदायभेदेनेत्यर्थः ।
प्रतिबन्द्यापि योगरूढिं साधयितुं प्रतिबन्दिमुपादत्ते ।। किञ्चेति ।। रीतिद्वयेनेति ।। अदृष्टादिना वा पङ्कजनिकर्तर्येव नियतप्रयोगसम्बन्धयुक्ते-नावयवशक्तिशून्य१पदपङ्कजपदेनैवा२बुद्धसंस्कारादेव पङ्कजनिकर्तरि स्मृति तत्र समुदायशक्त्या पद्मत्वविशिष्टानुभव इति पूर्वोक्तवैपरीत्यं किं नस्यादित्यर्थः ।
प्रतिबन्द्युद्धारमाशङ्क्य सममित्याह ।। यदिचेति ।। भिन्नविषय इति ।। वृक्षविशेषरूढिः अश्वकर्णसदृशकर्णवति पशुविशेषयोग इति भिन्नविषय इत्यर्थः ।
विभक्त्यर्थाद्यन्वयानुपपत्त्या च रूढिसिद्धिमाह ।। अपि चेति ।। उभयत्र हेतुमाह ।। विभक्तीनामिति ।। नन्वन्वयप्रतियोग्यलाभादन्वयानु-पपत्तिरित्यन्वयप्रतियोगिलाभेनैव भाव्यम् न तु तस्य शब्दशक्त्यैव लाभेनैवेति नियम इत्यत आह ।। शिष्टमिति ।।
तर्कताण्डवम्
न च पङ्कजपदेन स्मृते पद्मे १पद्मत्वस्य प्रकृत्यर्थत्वशाब्दत्वे स्त इति वाच्यम् । ते हि न यथाकथंचित् प्रकृतिशब्दजन्यधीविषयत्वे । कार्यकारणसम्बन्धात् स्मृते आकाशादौ साहचर्यात् स्मृते पटशब्दे आश्रयाश्रयिसम्बन्धात् स्मृतायां घटपदनिष्ठायां शक्तौ च तयोः सत्त्वेन विभक्त्यर्थान्वयाद्यापातात् ।
नापि ते नियतप्रयोगसम्बन्धेन प्रकृत्यादिजन्यधीविषयत्वे । शक्तिलक्षणादिसम्बन्धेन तज्जन्यधीविषयेवाच्ये लाक्षणिकादौ विभक्त्यर्थानन्वयाद्यापातात् ।
पङ्कजशब्दे शक्तिकार्यस्य विभक्त्यर्थान्वयादेः शक्तिग्राहकप्रयोगेणैव निर्वाहाच्छक्तित्यागे गोशब्दादावपि तेनैव तन्निर्वाहाच्छक्तित्यागा-पत्तेश्च ।
प्रयोगसम्बन्धस्य विभक्त्यर्थान्वयादौ तन्त्रत्वे तस्य लक्षणादि-वद्वृत्त्यन्तरत्वापत्तेश्च ।
नचेष्टापत्तिः । क्लृप्तशक्त्यैवोपपत्तेः । गोशब्दादावपि तस्यैव वृत्त्यन्तरत्वापत्तेश्च । अन्यथाननुगमात् ।
ननु गोशब्दादौ शक्तिं विना नियतः प्रयोग एवायुक्तः अन्ध-परम्परात्वापातादिति चेत्समं प्रकृतेपि ।
तस्मात्कप्तवृत्तिविषयत्वरूपं प्रकृत्यर्थत्वादिकमेव विभक्त्यर्था-न्वयादौ तन्त्रम् ।
न्यायदीपः
तदुक्तहेतू प्रकृते स्त इत्याशङ्क्य निराह ।। न च पङ्कजेति ।। प्रकृत्यर्थतत्वादिकं किं कार्यकारणसम्बन्धेन प्रकृतिजन्यधीविषयत्वम् अथ साहचर्यसम्बन्धेन उताश्रयाश्रयिसम्बन्धेन वा नियतप्रयोगरूपसम्बन्धेन वा । न चतुष्टयमपि युक्तमिति क्रमेण निराह ।। ते हीत्यादिना तस्मादित्य-न्तेन ।। ते इति द्विवचनम् । कार्यकारणतया स्मृते आकाशकालादावित्यर्थः ।
।। साहचर्यादिति ।। आनय पङ्कजं पटेनेत्यादिवाक्ये पूर्वस्मा-त्पङ्कपदात्साहचर्यसम्बन्धेन स्मृते पटपदे इत्यर्थः ।। तयोरिति ।। प्रकृत्यर्थशाब्दत्वयोरित्यर्थः । आदिपदस्य शाब्दानुभवापातादित्यर्थः ।। नापि ते इति ।। प्रकृत्यर्थशाब्दत्व इत्यर्थः ।
।। तस्यैवेति ।। १प्रयोगरूपसम्बन्धत्वेन तु रूढिरूपस्येत्यर्थः ।। अन्यथेति ।। पङ्कजादौ प्रयोगसम्बन्धेन जन्यधीविषयत्वप्रकृत्यर्थत्वादिकं गवादिशब्दे तु समुदायशक्त्या तज्जन्यधीविषयत्वं प्रकृत्याद्यर्थत्वमित्यननुगमा-दित्यर्थः ।। तन्त्रमिति ।। तथा च पङ्कजमानयेत्यादौ तदभावा२द्विभक्त्य-र्थान्वयशाब्दान्वयपद्मत्वविशिष्टश्च न स्यात् इति सुस्थमिति भावः ।
तर्कताण्डवम्
पाचकमानयेत्यत्रापि पाककर्तुः पाचकपदयोगवृत्तिविषयत्वादेव कर्मत्वान्वयादिकम् । पद्मत्वविशिष्टस्तु न पङ्कजपदयोगविषयः । किं तु कर्तृत्वविशिष्ट एव ।
येषां तु तार्किकाणां यौगिकं पदं वाक्यं तेषां वाक्ये वृत्त्य-भावात्पाचकस्य कर्मत्वाद्यन्वयो न स्यादेव ।
किञ्च योगमात्रं चेत् कुमुदादावपि प्रतीतिप्रयोगौ स्याताम् । न च नियता पद्मोपस्थितिस्तत्प्रतिबन्धिका । रूढिं विना तस्या एवायोगात् ।
नापि पूर्वपूर्वाप्रयोगःप्रतिबन्धकः । प्रयोगहेतौ सत्यप्रयोग-स्यैवायोगात् ।
नापि १ग्रामग्रामादिशब्दस्येव पङ्कजपदस्य कुमुदेऽसाधुत्वग्रहः प्रतिबन्धकः । तस्य ग्रामगमनकर्तृजातीय एव असाधुत्वग्रहात् । अस्य तु पङ्कजनिकर्तृजातीये पद्मेऽसाधुत्वग्रहात् । प्रतिपदार्थं च साधुत्वग्रहस्य प्रयोगहेतुत्वे नवे पाचके पाचकपदप्रयोगो न स्यात् ।
न्यायदीपः
ननु नेदं तन्त्रम् । पाचकादियौगिकशब्दे समुदायशक्त्यविषयस्यापि विभक्त्यर्थान्वया२दर्शनाद् यौगिकपदस्य वाक्यरूपतया वृत्त्यभावेनावयव-वृत्तेरप्यविषयत्वात्तत्रावयववृत्तिविषयत्वेन विभक्तयर्थान्वये वा पङ्कजादावपि तथात्वमस्त्वित्यत आह ।। पाचकमिति ।। शक्यतावच्छेदकरूपेणोप-स्थि३तिर्हि प्रकृत्यर्थे प्रत्ययान्वयः । पद्मत्वस्य च समुदाये शक्त्यभावपक्षे ४शक्यतावच्छेदकत्वात्तेन रूपेण कर्मत्वाद्यन्वयो न स्यात् । न चेष्टापत्तिः । अनुभवविरोधादिति भावः ।
।। कर्तृत्वेति ।। जनिकर्तृत्वविशिष्ट इत्यर्थः । नन्वस्त्वेवं यौगिके अवयववृत्त्यभ्युपगमवादिनाम् सिद्धान्तिनां मते । न्यायमते तु कथमित्यत आह ।। येषामिति ।। कुमुदादौ प्रयोगप्रत्यययोरभावान्यथानुपपत्त्या पङ्कजादौ रूढिं साधयति ।। किञ्चयोगेति ।।
ननु कुमुदादौ अवयवशक्तौ सत्यामप्यप्रयोगादिप्रतिबन्धादिति चेत् । तत्किं प्रतिबन्धकं मण्याद्युक्तदिशा नियतपद्मोपस्थितिः वृद्धानां तत्राप्रयोगो वा तत्रासाधुत्वग्रहो वा पङ्कोत्तरजपदादिकं वा । आद्यमाशङ्क्य निराह ।। न चेति ।।
द्वितीयं प्रत्याह ।। नापीति ।। तृतीयं निराह ।। नापीति ।। ग्राम१गामीति ।। तृतीये ‘‘कर्मण्यण्’’ इति सूत्रे कर्मण्युपपदे अण्यप्रत्ययो विहितः कुम्भकार इत्यादिरूपसिद्ध्यर्थम् । २ग्रामगामीत्यादि त्वसाधु । ग्रामं गच्छतीत्यादौ नेत्युक्तत्वादिति भावः ।
ननु जातौ साधुत्वग्रहेपि कुमुदव्यक्तौ तद्ग्रहो नेत्यत आह ।। प्रतिपदार्थं चेति ।। नव इति ।। नूतन इत्यर्थः ।
तर्कताण्डवम्
यत्तु नयविवेके यदिशब्दादिकं विधिशक्तेरिव पङ्कोत्तरजपदादिकं कुमुदेऽवयवशक्तेः प्रतिबन्धकं कप्तस्य योगस्य प्रतिबन्धकत्वरूप-धर्ममात्रकल्पनं हि लघीयः रूढी रूढेः योगप्रतिबन्धकत्वशक्तिश्चेति शक्तिद्वयकल्पना तु गरीयसीत्युक्तम् ।
तन्न । अवयवमात्रव्युत्पन्नस्यापि कुमुदादावप्रयोगापातात् । रूढिं विना पद्मत्वप्रतीतेरनिर्वाहाच्च । अत एव रसे चक्षुष इव कुमुदेऽवयव-शक्तेः कुण्ठनं स्वभावादेवेति निरस्तम् । अवयवमात्रव्युत्पन्नस्यापि कुमुदादावप्रयोगापातात् ।
न च यथा धेनुपदे धानकर्मत्वमात्रस्य निमित्तत्वेऽपि गोत्वं शक्तेः प्रयोगस्य चोपाधिः । तथा पद्मत्वमशक्यमेव तयोरुपाधिरिति युक्तम् । कारणादिपदैरिव धेनुपदेनापि विशिष्टस्यैव प्रतीत्या गोत्वविशिष्ट एव तस्य शक्तेः । अन्यथा घटादिपदेपि घटत्वादिरपि तयोरुपाधिः स्यात् ।
न्यायदीपः
चतुर्थं शङ्कते ।। यत्त्विति ।। रूढिरिति ।। कल्प्येति शेषः । शक्ति-श्चेत्यत्रापि कल्प्येति ध्येयम् ।। इत्युक्तमिति ।। नामधेयपादे तथा निर्मथ्य इति दशमेधिकरणे ।। रूढिं विनेति ।। तदुपायानुक्तेरिति भावः ।। कुण्ठन-मिति ।। अभिभवोऽप्रवृत्तिरेव वा ।
ननु कुमुदादावप्रयोगो न प्रतिबन्धात् । येनोक्तदोषः । किं तु पद्मत्वरूपस्य प्रयोगोपाधेरभावाद्वा प्रतीतिनियामकस्य वा प्रयोगग्रहरूपस्य वा सहकारिणोऽभावाद्वेत्यत आद्यमाशङ्क्य निराह ।। न च यथेति ।। धानकर्मत्वस्येति ।। पीयमानत्वरूपपानकर्मत्वस्येत्यर्थः । धेट् पाने इत्यस्य ‘‘धेट इच्च’’ इति धेटो नुप्रत्यये धातोरिकारादेशे च गुणे च सति धेनुरिति रूपात् ।
।। निमित्तत्त्वेपि ।। प्रवृत्तिनिमित्तत्वेपीत्यर्थः । उपाधिर्नियामक इत्यर्थः । अशक्यमेव पङ्कजादिपदशक्त्यविषय एव । तयोः शक्ति-प्रयोगयोर्नियामकः । अतो न कुमुदे तयोः प्रसङ्ग इति भावः । दृष्टान्ता-सम्मत्या दूषयति ।। कारणादीति ।। अनन्यथासिद्धनियमतपूर्ववृत्तित्वादि-विशिष्टमेव कारणकार्यादिपदैः प्रतीयते । यथा गोत्वविशिष्टमेव धेनुपदेन प्रतीयत इति प्रतीतिबलाद्गोत्वविशिष्ट एव धेनुपदस्य शक्तिग्रहादित्यर्थः ।
तर्कताण्डवम्
नच यथाहमादिपदे आत्ममात्रशक्तेपि शक्तिग्रहसहकारितया स्वरूपसन्नेवोच्चारयितृत्वादिकं धीनियामकम् । तथा पद्मत्वमपीति युक्तम् । तत्रानुच्चारयितरि प्रयोगप्रत्यययोः कदाप्यभावादिह त्वपद्मेपि तयोः पङ्कजं कुमुदमिति दर्शनात् ।
न च धातोः प्रकर्षादिबोधने प्रादिरुपसर्ग इव पङ्कजपदस्य पद्मबोधने पद्मे प्रयोगग्रहः स्वरूपसन्नेवोपसन्दानमिति युक्तम् । घटादिशब्देष्वपि तत्प्रसङ्गात् । प्रकर्षादौ तु प्रादिसम्बन्धाद्धातोरेव वा प्रादेरेव वा शक्तिः ।
न्यायदीपः
द्वितीयमाशङ्क्य प्रत्याह ।। न च यथेति ।। धीनियामकमिति ।। तत्तदात्मप्रतीतिनियामकम् । तथा पङ्कजपदात्पङ्कजनिकर्तृप्रतीतौ पद्मत्वं नियामकम् । कुमुदे च तदभावान्न पङ्कजपदात्तादृशकर्तृत्वेन कुमुदप्रतीतिरिति भावः ।
दृष्टान्तवैषम्येण निराह ।। तत्रेति ।। अहमादिपदे ।। दर्शनादिति ।। तथा च व्यभिचारान्नपद्मत्वमुक्तकर्तृत्वधीनियामकमिति भावः ।
तृतीयमाशङ्क्य पराचष्टे ।। न च धातोरिति ।। उपसन्दानमिति ।। द्योतकरूपं सहकारीत्यर्थः ।। तत्प्रसङ्गादिति ।। तथा च घटपदस्यापि घठे शक्तिर्न स्यादिति भावः ।
न्यायमतरीत्याह ।। धातोरेवेति ।। स्वमतरीत्याह ।। प्रादेरेवेति ।।
तर्कताण्डवम्
विवरणे तु कुमुदसाधारणेनापि योगेन पद्मस्यैव द्राग्धीरनेकार्थेनापि गोशब्दादिना सास्नादिमद्व्यक्ते१रेव प्रयोगप्राचुर्याद्युक्तेत्युक्तम् ।
तदप्यनेनैव निरस्तम् । कर्तृत्वेन बुद्धेर्योगेन द्राक्सिद्धावपि पद्मत्वेन बुद्धेरूढिं विनायोगात् ।
गोशब्दवत् पङ्कजशब्दस्यापि निरुपपदस्यार्थान्तरे प्रयोगापाताच्च ।
सास्नादिमद्व्यक्तावसाधारणस्य रूढस्य शब्दान्तरस्य अभावेन पद्मे तु तादृशस्य पद्मशब्दस्य भावेन वैषम्याच्च ।
न्यायदीपः
पङ्कजपदान्नियमेन पद्मप्रतीतौ नियामकान्तरमनूद्य निराह ।। विवरणे त्विति ।। प्राभाकरग्रन्थे ।। कर्तृत्वेनेति ।। पङ्कजनिकर्तृत्वप्रकारक-बुद्धेरित्यर्थः ।
तर्कताण्डवम्
तस्मात्केवलयौगिकत्वे कुमुदादिषु प्रयोगादिकं दुर्वारम् । तस्मा-त्पद्मोपस्थितिनियमो वा पूर्वपूर्वाप्रयोगो वा कुमुदे पङ्कजशब्दस्या-साधुत्वं वा पङ्कोत्तरजपदादिकं वा प्रतिबन्धकमिति पक्षचतुष्टयं कुमुदेऽ-वयवशक्तेः कुण्ठनं पद्मत्वस्य शक्तिप्रयोगौ प्रत्युपाधित्वं पद्मत्वस्य स्वरूपसत एव धीनियामकत्वं पद्मे प्रयोगग्रहः स्वरूपसन्नेवोपसन्दानं प्रयोगप्राचुर्यात्पद्मस्यैव द्राग्धीरिति पक्षपञ्चकं चायुक्तम् ।
तदेतदभिप्रेत्योक्तं सुधायां ‘‘भेकादिष्वपि प्रयोगप्रसङ्गात्’’ इति ।
अस्य च भेकादिष्ववयवशक्तिप्रतिबन्धार्थं रूढिरङ्गीकार्येति नाभिप्रायो येन प्रतिबन्धकत्वे शक्तित्वं पारिभाषिकं स्यादिति शङ्क्येत । किं तु रूढ्या पद्मत्वमपि बोध्यमेवेति ।
यत्र तु ब्रह्मशब्दादौ योगो नातिप्रसक्तः रूढिबोध्यं धर्मान्तरं च नास्ति तत्रापि तेदव परमं बह्माहुरित्यादिश्रुत्या विष्णुव्यक्तौ रूढिसिद्धिरित्याद्यूह्यम् ।
तस्मात्प्रतिवचनं कोशपाठः सहप्रयोगाभावः समुदायव्युत्पत्त्यपेक्षा योगस्यैवापलापप्रसङ्गः पद्मत्वविशिष्टस्य विभक्त्यर्थान्वयः शाब्दानुभव-प्रवेशो योगमात्रं चेत्कुमुदादावपि प्रयोगप्रसङ्ग इति युक्त्यष्टकेन योगरूढिसिद्धिः ।
न्यायदीपः
निरुपपदस्य कुमुदाद्युपपदरहितस्य । किञ्च योगमात्रं चेत्यादिनोक्तमुप-संहरति ।। तस्मादिति ।। उक्तं सुधायामिति ।। आनुमानिकपादे वृत्तिनिरूपणप्रस्तावे पङ्कजादिशब्दाः केवलयौगिका इति पक्षे ‘‘भेकादिष्वपिप्रयोगप्रसङ्गात्’’ इत्युक्तमित्यर्थः ।
प्राचीनतार्किकरीत्या रूढ्युपादानमिति भ्रमनिरासाय तस्य वाक्यस्य तात्पर्यमाह ।। अस्य चेति ।। पारिभाषिकं न्यायमत इवेति भावः ।। पद्मत्वमपीति ।। न केवलं योगेन पङ्कजनिकर्तृत्वमित्यपेरर्थः । नन्वेवं ब्रह्मादिपदे रूढता न स्यात् ।
अवयवशक्तेरन्यत्र१ प्रसङ्गेन तत्प्रतिबन्धरूपस्य धर्मान्तरबोधरूपस्य वा रूढिफलस्याभावादित्यत आह ।। यत्रेति ।। धर्मान्तरं चेति ।। न च गुणपूर्तितोऽवयवार्थादन्यद्विष्णुत्वमेव पद्मत्वमिव ब्रह्मपदबोध्यमिति शङ्क्यम् । विष्णुत्वस्यापि गुणपूर्णत्वादिरूपत्वेनाखण्डधर्मत्वाभावात् । इति भावः । ‘‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’’ इति श्रुतिगत-पदानामन्वयमुखेनायमनुवाद इति न क्रमव्यत्यासदोषः शङ्क्यः ।
।। आहुरिति ।। प्रयोगबाहु•येन समुदायशक्तेरनुमानाच्छ्रुत्या रूढि-सिद्धिरित्युक्तम् । यद्वा प्रयोगबाहुल्यं रूढिरिति मताभिप्रायेण श्रुत्येत्युक्तम् । एवं विष्णुशब्दाक्षरादिशब्देष्वपि द्रष्टव्यमित्याह ।। इत्याद्यूह्यमिति ।।
उक्तं सर्वं बुद्ध्यारोहाय सङ्ग्रहेणानुवदन्नुपसंहरति ।। तस्मादिति ।। किं पङ्कजपदशक्यमिति प्रश्ने पद्ममिति प्रतिवचनमित्यर्थः । किं चास्या-पाचकपदवदित्यादिनोक्तमाह ।। समुदायव्युत्पत्त्यपेक्षेति ।। किञ्च त्वदुक्तिरितिद्वयेनोक्तमाह ।। योगस्यैवेति ।। अपि च पद्मत्वेत्यादिनोक्तमाह ।। पद्मत्वेति ।। शाब्दानुभवप्रवेश इत्यत्रापि प्रकृत्यर्थस्येत्यनुकर्षः । तथाच युक्त्यष्टकेनेति युक्तम् । किञ्च योगमात्रं चेत्यादिनोक्तमाह ।। योगमात्रं चेदिति ।।
तर्कताण्डवम्
नन्वयववृत्तिर्योगो रूढिस्त्वखण्डवृत्तिस्ते चैकस्य शब्दस्यैक-स्मिन्नर्थे विरुद्धे इत्यसमाहाररूपं वृत्त्यन्तरमेवेदमस्त्विति चेन्न ।
योगरूढ्योर्यथाक्रमं कर्तृत्वपद्मत्वरूपभिन्नधर्मनियतयोरपि तद्द्वारै-कस्मिन्धर्मिणि सैन्धवशब्दवृत्त्योरिव समाहारसम्भवात् । उभयकार्य-दर्शनस्य समाहारेणैवोपपत्तौ वृत्त्यन्तरकल्पने गौरवाच्च ।
नचैवमसिद्धिबाधसमाहारोपि हेत्वाभासान्तरं स्यादिति वाच्यम् । तत्रैकैकेनैवोद्देशस्य१ दुष्टत्वबोधस्य सिद्धेः । इह तु पङ्कजपदेनोद्देशस्य कर्तृत्वविशिष्टपद्मत्वबोधस्यैकैकेन असिद्धेः ।
न्यायदीपः
सुधोक्तं योगरूढिसमाहाराक्षेपमनूद्य समाधत्ते ।। नन्वित्यादिना ।। कर्तृत्वेति पङ्कजनकर्तृत्वेत्यर्थः ।। सैन्धवेति ।। सिन्धुसम्बन्धित्वाश्वत्वादि-धर्मनियतयोरप्यवयवाखण्डवृत्त्योर्घर्मद्वारैकस्मिन्धर्मिणि समाहारस्तथेत्यर्थः ।
।। उभयेति ।। अवयवशक्तिसमुदायशक्तिरूपोभयकार्यस्य कर्तृत्वस्मृति-पद्मत्वस्मृतिरूपस्य यद्दर्शनं तस्येत्यर्थः ।
तर्कताण्डवम्
अत एव–
‘‘.................विद्वद्रूढिं च तत्रगाम् ।
बहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम्’’
इत्यनुव्याख्याने रूढेर्योगसाहित्यं सनिरुक्तिकमित्यनेनोक्तम् ।
सन्न्यायरत्नावल्यामपि न चावयववृत्त्यखण्डवृत्त्योरेकस्य शब्दस्यै-कस्मिन्नर्थे विरुद्धत्वाद्योगरूढिर्नाम वृत्तिः नास्तीति वाच्यम् । तस्याः पङ्कजादिशब्देषु दृष्टत्वादिति समाहार एवोक्तः ।
यत्तु सुधायां न हि योगरूढ्योः समाहारो योगरूढिर्येन विरोधः स्यात् । किं नाम रूढलक्षणालक्षणामात्रादिवेयं योगरूढिवृत्तिर्योग-मात्रात्प्रयोगबाहुळ्याद्भिन्ना तृतीया वृत्तिरित्युक्तम् । तत् प्रयोगमात्र-बाहु•यमित्यनुव्याख्यानस्थबाहु•यशब्दस्य प्रयोजनं वक्तुम्, अनेनापि प्रकारेण वृत्तित्रित्वसिद्धिरित्यभिप्रेत्य वा एकत्रधर्मे समाहारो नेत्यभिप्रेत्य वेति द्रष्टव्यम् ।
अत एव सुधायां ‘‘विद्वद्रूढिं च तत्रगाम्’’ इत्यनुव्याख्यान-व्याख्यानावसरे सनिरुक्तिकं योगवृत्तिसाहित्येन तत्र गां परमेश्वर-विषयां सर्वशब्दानां विद्वद्रूढिं दर्शयतीत्युक्तम् । इति ।
।। इति योगरूढिसमर्थनम् ।। ६१ ।।
न्यायदीपः
वृत्तिद्वयसमाहारो योगरूढिरित्यत्रानुमानिकपादीयाचार्योक्तिं संवादयति ।। अतएवेति ।। योगरूढेः समाहाररूपत्वादेवेत्यर्थः । तत्र गाम् विष्णुनिष्ठां तं यच्छतं वर्षाण्यभ्यार्चदित्यादिका ऐतरेयोपनिषत् सनिरुक्तिकं योगवृत्तिसाहित्येन दर्शयतीत्यर्थः ।
।। सन्न्यायत्नावल्यामिति ।। पुरातनानुव्याख्यानटीकायाम् । सुधा-विरोधमाशङ्क्य समाधत्ते ।। यत्त्विति ।। इयमिति ।। पङ्कजादिपदनिष्ठा १योगवृत्तिः कुम्भकारादियोगमात्राद्भिन्ना । कुतः । प्रयोगबाहुळ्याद्धेतोरित्यर्थः ।। इत्यनुव्याख्यानस्थेति ।। तत्रोक्तरूढिलक्षणस्यैवाधिकप्रक्षेपेण योगरूढिलक्षणत्वेनोक्तेरिति भावः ।
।। अनेनेति ।। योगसहितप्रयोगबाहु•यरूपेणापि प्रकारेणेत्यर्थः । न केवलं योगसहितसमुदायशक्तिरूपेणेत्यपेरर्थः ।। वृत्तित्रित्वेति ।। मुख्यवृत्तित्रित्वेत्यर्थः । एवं तात्पर्यकल्पने ज्ञापकमाह ।। अत एवेति ।। एतच्चोपलक्षणम् । समाहारवृत्तयो हि ता इत्यानन्दमयाधिकणान्त्य-भागसुधावाक्यमपि ज्ञापकं ध्येयम् । एतेन पूर्वोत्तरविरोधोपि प्रत्युक्तः ।
।। इति योगरूढिसमर्थनम् ।। ६१ ।।