ननु सन्निधानापरपर्यायासत्तिर्न तावन्मण्युक्तरीत्या ..
आसत्तिनिरूपणम्
तर्कताण्डवम्
ननु सन्निधानापरपर्यायासत्तिर्न तावन्मण्युक्तरीत्या अव्यवधानेन पदार्थस्मृतिः । वाक्ये पदार्थस्मृतिरेव नेति वक्ष्यमाणत्वात् । अनासन्ने आसत्तिभ्रमेणान्वयबोधस्थे त्वत्पक्षे पदार्थोपस्थितेर्विशेषणज्ञानत्वेन शाब्दबोधहेतुत्वात् हेतोश्चाव्यवहितत्वनियमेनासत्तेरेव सत्त्वेनासत्ति-भ्रमानुपपत्तेश्च । पदार्थस्मृतौ सत्यां स्मृतिविषयकज्ञानविलम्बेन शाब्दबोधविलम्बादर्शनेनासत्तिज्ञानस्य हेतुत्वानुपपत्तेश्च । न चेयं स्वरूपसत्येव हेतुः । तद्भ्रमेण शाब्दभ्रमायोगात् ।
न्यायदीपः
प्रमाणपद्घतौ ‘‘आकाङ्क्षायोग्यतासन्निधिमन्ति पदानि वाक्यम्’’ इत्युक्तेः सन्निधिनिरूपणं विनाऽसत्तिनिरूपणमयुक्तमित्यत आह ।। सन्निधानापर-पर्यायेति ।। यद्यपि साक्षादाकाङ्क्षायोग्यतेति निर्देशक्रमेण योग्यतैवाकाङ्क्षो-क्त्यनन्तरं निरूपणीया । तथाऽप्यासत्तिनिरूपणस्याल्पत्वात् सूचीकटाह-न्यायेनासत्तेः पूर्वमुक्तिरित्येके ।।
वस्तुतस्तु शाब्दप्रमायामाकाङ्क्षासत्ती एव हेतू न पुनर्योग्यताऽपीति तयोरेव पूर्वमुक्तिर्युक्ता । अत एव पद्घतावासत्तिस्वरूपोक्त्यनन्तरमेव योग्यतोक्तिः । अतस्तत्क्रममनुसृत्यात्र निरूपणमिति । क्वचिदाकाङ्क्षा-सन्निधियोग्यतावतां पदानां समूहो वाक्यमिति पद्घत्यनुरोधे पूर्वनिर्देशा-त्तथैवास्त्विति यथान्यास एव क्रमः ।।
आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः । सा च स्मृतिर्नानुभव इति मण्युक्तं निष्कृष्यानुवदति ।। अव्यवधानेन पदार्थस्मृतिरिति ।। अन्वयविरोधिव्यवधानाभावेनेत्यर्थः ।। पदार्थेति ।। सङ्केतस्मरणवाक्यार्थ-बोधयोर्मध्ये पदार्थस्मृतिरेव नास्ति, कुतोऽव्यवधानत्वं तस्या इत्यर्थः ।। वक्ष्यमाणत्वात् ।। अन्विताभिधानोक्तिवाद इत्यर्थः ।।
पक्षधराद्यूहितदोषमाह ।। अनासन्नेति ।। सप्तम्यन्तानामासत्तेरेव सत्त्वेनेत्यन्वयः ।। आसत्तिभ्रमेणेति ।। अन्वयविरोधिव्यवधानेपि तदभावभ्रमेणेत्यर्थः । गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यादौ व्यवहितपदोपेततया आसत्तिहीनवाक्ये पदानामव्यवहितत्वभ्रान्त्या पदार्थानामुपस्थितौ गिरिरग्निमान् देवदत्तेन भुक्तमित्यन्वयबोधदर्शनात्तत्र स्थे पदार्थे स्मृते-र्व्यवहितत्वस्यावश्यकत्त्वात्तत्रातिव्याप्तिरिति भावः ।
विशेषणज्ञानत्वेनेत्युपलक्षणम् । पदार्थस्मृतित्वेन हेतुत्वेप्येष दोषः सम एव । असम्भवं चास्य लक्षणस्याह ।। पदार्थस्मृताविति ।। न चेयमिति ।। आसत्तिरित्यर्थः । अपसिद्धान्ते सत्यपि दोषान्तरमाह ।। तद्भ्रमेणेति ।।