एवं कर्तृकर्मणी अपि लकारवाच्ये
५६. अथ सङ्ख्याया वाच्यगामित्वनियमः ।
तर्कताण्डवम्
एवं कर्तृकर्मणी अपि लकारवाच्ये । चैत्रः तण्डुलान् पचति, चैत्रेण पच्यन्ते तण्डुला इत्यादौ कर्तृकर्मणोश्चैत्रतण्डुलयोराख्यातोक्त-सङ्ख्यान्वयनियमदर्शनात् । तस्य चाख्यातार्थत्वं विनानुपपत्तेः । अन्यथा तण्डुलान् पचतीत्यत्र तण्डुलान् पचन्तीति, चैत्रेण पच्यन्ते तण्डुला इत्यत्र च चैत्रेण पच्यत इति च सङ्ख्याविनिमयः स्यात् ।
न्यायदीपः
यत्तु मणौ– ‘‘स्यादेतत् । चैत्रस्तण्डुलं पचति’’ इत्यादिना ‘‘इति वैयाकरणा’’ इत्यन्तेन कर्तृकर्मणोरपि लकारार्थत्वमाशङ्क्य तन्नेत्यादिना दूषितं तदप्ययुक्तमितिभावेनाख्यातार्थनिरूपणप्रसङ्गादाख्यातार्थत्वं कर्त्रादेः साधयति ।। एवमिति ।।
यद्यपि ‘‘लः कर्मणि च भावेचाकर्मकेभ्यः’’ इति सूत्रेण कर्मणि भावे चकारात् कर्तरि लकारा विहिताः । तथापि भावार्थे विवादाभावात् कर्तृकर्मणीत्येवोक्तम् । कुत इत्यत आख्यातोक्तसङ्ख्यान्वयानु-पपत्तिरूपप्रमाणादिति भावेनाह ।। चैत्र इति ।। अनुपपत्तेरिति ।। कुत इत्यत आख्यातावाच्येपि सङ्ख्यान्वयेऽवाच्येष्वनेकेष्वन्वयः स्यात् । एकत्रैवेति नियमो न स्यादिति भावः ।
कर्तृकर्मणोश्चैत्रतण्डुल्योराख्यातोक्तसङ्ख्यान्वयनियम एवासिद्ध इत्यत आह ।। अन्यथेकि ।। प्रागुक्तनियमाभाव इत्यर्थः ।। विनिमय इति ।। आख्यातोक्तसङ्ख्यान्वयस्यावाच्यत्वादिति भावः ।
तर्कताण्डवम्
नन्वाख्यातस्य सङ्ख्यावाचित्वमेव नास्ति । यद्बलात् कर्तृकर्म-वाचित्वं कल्प्येत । प्रथमान्तकर्तृकर्मवाचकपदं विना आख्यात-प्रयोगाभावेन चैत्रः पचतीत्यादौ सुब्विभक्त्यैव सङ्ख्याप्रतीतेरुपपत्तेः । न चैवं विनिगमनाविरहात् सुब्विभक्तेरेव सङ्ख्यावाचित्वं त्यज्यतामिति वाच्यम् । चैत्रो दण्डी इत्यादावाख्याताभावेऽपि सुुब्विभक्त्यैव सङ्ख्याप्रतीतेरिति चेत् । मैवम् ।
‘‘चन्द्रे कङ्कः सुजने दरिद्रता विकासलक्ष्मीः कमलेषु चञ्चला ।
मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम्’’
इत्यादौ बहुत्ववाचकसुब्विभक्तेरभावेऽपि कथयन्तीति तिङ्-विभक्त्यैव बहुत्वप्रतीतेः ।
न्यायदीपः
पक्षधराद्युक्तचोद्योत्तराभ्यामेवाख्यातस्य सङ्ख्यावाचित्वं निर्धारयति ।। नन्वित्यादिना ।। कथं तर्हि सङ्ख्याप्रतीतिरित्यत आह ।। सुब्विभ-क्त्यैवेति ।। आख्यातेनापि सङ्ख्याभिधाने पौनरुक्त्यापत्तेरिति भावः ।
ननु यत्र सुबन्तप्रयोगं विना केवलाख्यातप्रयोगः तत्र कथमित्यत-स्तादृशप्रयोग एव नेति भावेनोक्तं प्रथमान्तेत्यादि । इत्यादावित्यादिपदेन चैत्रेण पच्यन्ते तण्डुला इत्यादिग्रहः ।
ननु पौनरुक्त्यभयादन्यतस्य सङ्ख्यावाचित्वत्यागेऽवश्यम्भाविन्याख्या-तस्यैव तत् कुत इत्याशङ्क्य निराह ।। न चैवमिति ।। चन्द्र इति ।। विधातुः स्रष्टुः यशः खण्डितं प्रतिहतं कथयन्ति । चन्द्रगतकङ्कादयो यशोहानिं कथयन्ति, अकुशलोऽयं विधाता चन्द्रादिष्वनर्हमेव कङ्कादिक-मकरोदित्यादिरूपेणेत्यर्थः ।
तर्कताण्डवम्
किं च कर्तुराख्यातवाच्यत्वे तस्य प्रातिपदिकार्थेन चैत्रेण सह चैत्रो दण्डीत्यादिवदभेदान्वयः सम्भवति । कर्तुरवाच्यत्वे त्वा-ख्यातोक्ताकेवलैव सङ्क्या प्रातिपदिकार्थेन चैत्रेणान्वेतीति वाच्यम् ।
न च तद्युक्तम् । चैत्रस्यादावेवान्तरङ्गसुब्विभक्त्यैव सङ्ख्यान्वित-त्वेनोक्ततया इतरानाकाङ्क्षत्वेनाख्यातोक्तसङ्ख्यानन्वयापातात् ।
न च सुब्विभक्त्याख्याताभ्यामेकैव सङ्ख्याप्रतीयते । तथा च सुब्विभक्त्युक्तया सङ्ख्ययैवान्वयः । न तु तिङि्वभक्त्युक्तयान्वय इति विभागो न युक्त इति वाच्यम् । एकस्याः सङ्ख्यायाः शीघ्रया सुब्विभक्त्यैवाभिहितत्वेन मन्थरायाः तिङ्विभक्तेर्वैयर्थ्यप्रसङ्गात् ।
न च समूहालम्बनायाः सर्वपदार्थस्मृतेरेकत्वेन पूर्वापरभावाभावान्न वैयर्थ्यमिति वाच्यम् ।
‘‘यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते ।
तेन तेनान्वितः स्वार्थः पदैरेवाभिधीयते’’
इति न्यायेन सुब्विभक्तिप्रातिपदिकार्थयोः प्रथममन्वयात् । अन्यथाऽवान्तरवाक्यार्थज्ञानाभावेन शास्त्रपाठादिकं न स्यात् । शैघ््रयमन्थरत्वाभ्यां श्रुतिवाक्यादेर्बलाबलव्युत्पादनं च न स्यात् ।
न च पचति चैत्र इत्यत्राख्यातेनैव प्रथमं सङ्ख्योपस्थापितेति वाच्यम् । एवमपि चैत्रः पचतीत्यत्राख्यातसङ्ख्यानन्वयासमाधानात् । मन्मते तु प्रातिपदिकाख्यातार्थयोः चैत्रकर्त्रोरभेदान्वय उभयत्राप्य-बाधितः ।
न्यायदीपः
न चात्र सुब्विभक्तेरश्रवणेप्येते पदार्था इत्यध्याहृतसुब्विभक्तिरस्तीति वाच्यम् । तिङि्वभक्त्या बहुत्वप्रतीत्यैव बहुवचनान्तपदाध्याहारादिति भावः । अभेदान्वयानुपपत्त्या च कर्त्राद्यर्थत्वं लकारस्येत्याह ।। किं चेति ।। सुब्विभक्त्या सङ्ख्यान्वितत्वेनोक्तत्वे बीजमन्तरङ्गेति ।
सङ्ख्याद्वयं नेत्याशङ्क्य पररीत्या निराह ।। न चेति ।। मन्थराया इति ।। पृथक्पदोपात्तत्वेन कर्तृगतसङ्ख्यावाचित्वस्य विलम्बितत्वादिति भावः । पौर्वापर्यमेवास्तीत्याह ।। यद्यदिति ।। इति न्यायेनेति ।। मीमांसकन्यायेनेत्यर्थः ।
।। शास्त्रपाठादिकमिति ।। एकस्मिन्नेव दिने कृत्स्नशास्त्रपाठायोगेन प्रतिदिनं खण्डशः खण्डश एव पाठ्यत्वादिति भावः ।। शैघ्रयेति ।। अन्यथेत्यनुषङ्गः । तृतीयेध्याये श्रुतिलिङ्गवाक्यप्रकरणस्थान समाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षादित्यधिकरणे
‘‘प्रत्यक्षे चानुमाने च यथा लोके बलाबलं ।
शीघ्रमन्थरगामित्वात्तथैव श्रुतिलिङ्गयोः’’ ।
इति वार्तिकोक्तदिशेति भावः । श्रुतिलिङ्गादेरितिवक्तव्ये श्रुतिवाक्ययो-रित्युक्तिः प्रकृताभिप्रायेण । चैत्रप्रातिपदिकगतसुब्विभक्त्युक्तसङ्ख्यान्वयस्य प्रकृतिप्रत्ययसमभिव्याहाररूपपदश्रुतिगम्यत्वादाख्यातोक्तसङ्ख्यान्वयस्य पदान्तरसमभिव्याहाररूपवाक्यगम्यत्वादिति भावः ।
।। इत्यत्रेति ।। पूर्वमाख्यातश्रवणादिति भावः । कथं तर्हि त्वन्मतेप्युभयवाच्यसङ्ख्याया एकत्वाद्वैयर्थ्यमन्यतरस्येत्यत आह ।। मन्मते त्विति ।। कर्त्रादिरप्याख्यातार्थ इति मन्मत इत्यर्थः ।। उभयत्रेति ।। सुब्विभक्त्या पूर्वं सङ्ख्याबोध इति पक्षे आख्यातेन पूर्वं सङ्ख्याबोध इति पक्षे चेत्यर्थः । आख्यातेन सङ्ख्याविशिष्टकर्तृसामान्ये बोधिते सति चैत्रादिपदेन तद्विशेषबोधेन सामान्यविशेषयोः समभिव्याहारेणाभेदावगतावेकैव सङ्ख्या पर्यवस्यति । कर्ता चैत्र इत्यादाविवेति भावः ।
तर्कताण्डवम्
ननु– कर्तुराख्यातवाच्यत्वे कर्तृत्वमेव प्रवृत्तिनिमित्तं वाच्यम् । कर्तृत्वं च मन्मते कृतिमत्वम् । त्वन्मते व्यापारवत्वम् । उभयथापि कृतिव्यापारयोः विषयितया पाकादिधात्वर्थान्वयो न स्यात् । १प्रवृत्तिभूतनिमित्तभूतयोः तयोः पदार्थैकदेशत्वेनान्वयाप्रतियोगित्वादिति चेन्न । त्वयापि पक्ता पाचकः पाककर्तेत्यादौ कृतेः पदार्थैकदेशत्वेऽपि धात्वार्थान्वयस्य स्वीकृतत्वेन तद्वत्पचतीत्यत्रापि धात्वर्थान्वयस्य सम्भवात् ।
यदि च पाचक इत्यादेः पाकविषयककृतिमानिति नार्थः किं तु कृतिमान् पाकस्येति । तर्हि पचतीत्यस्यापि स एवार्थोस्तु ।
न्यायदीपः
यत्तु मणौ वस्तुतः पचीत्यत्र यत्नवतः शक्यत्वे धात्वर्थस्य विषयत्वेन कृतावन्वयो न स्यादित्यादिनोक्तं बाधकं तदाशङ्कते ।। नन्विति ।। विषयितयेति ।। धात्वर्थविषयकतयेत्यर्थः ।। पदार्थैकदेशत्वेनेति ।। कृतिमतो वा व्यापारवतो वा आख्यातार्थत्वेन कृत्यादेरेकदेशत्वादित्यर्थः । पदार्थः पदार्थेनान्वेति न तु तदेकदेशेनेति न्यायात् । अन्यथा राजपुरुषमान-येत्यादौ राज्ञोप्यानयनान्वयापत्तेरिति भावः ।
।। पक्ता पाचक इति ।। ‘‘ण्वुल्त्रृचौ’’ इति सूत्रेण कर्तरि तृच्प््रात्य-यस्य ण्वुल्प््रात्ययस्य च विधानेन तत्र कर्त्रर्थत्वावश्यम्भावात् ।
न च तत्रापि कृतिरेवार्थ इतिवाच्यम् । व्युत्पत्तिप्रतीतिव्यवहाराणां कर्तर्येव सत्त्वेन तद्विरोधात् । पाककर्तेत्यादौ सर्वथाप्यपरिहाराच्चेति भावः ।। पाकस्येतीति ।। पाकसम्बन्धीत्यर्थः । तथा च पदार्थस्यैव पदार्थे-नान्वयो न तु तदेकदेशेनेति भावः ।
तर्कताण्डवम्
किं च न वयं व्यापारविशिष्टे एकैव शक्तिरिति ब्रूमः । येन व्यापारस्य पदार्थैकदेशत्वेनान्वयो न स्यात् । किं तु व्यापारे आश्रये च शक्तिद्वयम् । व्यापाराश्रयत्वं त्वन्वयतया भाति । न च शक्तिद्वय-कल्पने गौरवम् । आख्यातत्वेन व्यापारे भावकर्मविहिताख्या-तभिन्नाख्यातत्वेन कर्तरि च शक्तिरिति शक्ततावच्छेदकभेदेन शक्ति-भेदस्यावश्यकत्वात् । अन्यथा त्वन्मतेप्याख्यातत्वेन कृतौ लट्त्वेन वर्तमानत्वे शक्तिर्न स्यात् ।
तस्माद्व्यापारस्य शक्त्यन्तरेण स्वातन्त्र्येणोपस्थितत्वाद् धात्वर्थेन सह विषयितया कर्त्रा चाधेयतयान्वय इति न किं चिदनुपपन्नम् ।
एतेन कर्तुर्वाच्यत्वं विना न सङ्ख्यान्वयानुपपत्तिः । यथा कर्तुर्वाच्यत्वे तस्य प्रथमान्तचैत्रपदोपस्थाप्येनैव अन्वयनियमः । तथा सङ्ख्याया अपि तदन्वयनियमसम्भवादिति निरस्तम् । अम्बायां भीष्म इवाख्यातोक्तसङ्ख्यायां प्रातिपदिकार्थो निराकाङ्क्ष इत्युक्तत्वात् ।
एतेनैवाख्यातोक्तसङ्ख्यायाः स्वभावादेव प्रथमान्तोक्तान्वय इति निरस्तम् । नैराकाङ्क्ष्यस्योक्तत्वात् । उक्तरीत्या अन्यथैवोपपत्तौ स्वभावकल्पनायोगाच्च ।
न्यायदीपः
ननु पचतीत्यादौ धात्वर्थविषयकत्वस्याख्यातार्थे व्यापारेऽनुभवादि-सिद्धत्वात्कथं सम्बन्धमात्राङ्गीकार इत्यतः तथैव समाधिमाह ।। किञ्चेति ।। कथं तर्हि व्यापारवैशिष्ट्यधीरित्यत आह ।। व्यापाराश्रयत्वं त्विति ।। आख्यातत्वेन भावकर्मान्याख्यातत्वेन च वाच्ययोर्व्यापारव्यापारिणो-वैशिष्ट्यमन्वयविधया भातीत्यर्थः । यत्तु सङ्ख्यान्वयानुपपत्त्या कर्तुराख्यात-वाच्यत्वमित्युक्तं तत्र मण्युक्तान्यथासिद्धिमनूद्य निराह ।। एतेनेति ।। उक्तत्वादिति ।। चैत्रस्यादावेवान्तरङ्गसुब्विभक्त्यैवेत्यादिना ग्रन्थेनोक्त-त्वादित्यर्थः ।। उक्तरीत्येति ।। मन्मते त्वित्यादिनोक्तरीत्येत्यर्थः ।
तर्कताण्डवम्
अथ कर्तुरवाच्यत्वेऽपि न सङ्ख्यान्वयनियमानुपपत्तिः । समान-पदोपात्तभावनान्वयिनैव सङ्ख्यान्वयात् । भावना च व्यापारतया न व्यापारवन्तमाकाङ्क्षतीति चैत्रः तण्डुलान् पचतीत्यत्र तण्डुलानां द्वितीयान्तशब्दोपात्तत्वेन कर्मकारकतया व्यापार१त्वेनोपस्थापितत्वा-त्तान्विहाय प्रथमान्तशब्दोपस्थितेन शुद्धेन चैत्रेणैवान्वेति ।
एवं चैत्रेण तण्डुलाः पच्यन्त इत्यत्र चैत्रस्य तृतीयान्तशब्देन कर्तृ-कारकतया व्यापारवत्त्वेनोपस्थितत्वात्तं विहाय प्रथमान्तशब्दोपस्थितैः तण्डुलैरेवान्वेति । अत एव यं यं भावनाऽनुधावति तं तं सङ्ख्यापीति-स्थितिरिति चेन्न ।
न्यायदीपः
सम्प्रदायस्त्वित्यादिना मण्युक्तान्यथासिद्धिं चाशङ्कते ।। अथेति ।। समानेति ।। एकपदोपात्ता या भावना तयान्वयि यद्वर्तते तेनान्वेतीत्यर्थः ।
भावना नाम साधनकलापगोचरो यत्नविशेषः । तदन्वयि किम् । येन सङ्ख्यान्वेतीत्युक्तमित्यत आह ।। भावना चेति ।। शुद्धेन चैत्रेणैवान्वे-तीति सम्बन्धः । तत्र हेतुर्व्यापारवन्तं नाकाङ्क्षतीति । इति शब्दो हेतौ । तत्र हेतुर्व्यापारतयेति । भावनाया व्यापाररूपतया व्यापारयुक्तं नाकाङ्क्षतीति कृत्वा शुद्धेन व्यापाररहितेन चैत्रेणैवान्वेतीति ।
कुत्रेत्यत उक्तम् ।। चैत्रः तण्डुलान् पचतीत्यत्रेति ।। कर्मकारकेण कुतो नान्वेतीत्यत उक्तम् ।। द्वितीयान्तेति ।। ‘‘कर्मणि द्वितीय’’ इति कर्मकारके द्वितीया विहिता क्रियां कुर्वद्धि कारकं व्यापारवदेव च क्रियां कुर्वद्भवतीति कर्मकारकं व्यापारयुक्तत्वेनैवोपस्थाप्यत इति कर्मभूतान् तण्डुलान्विहायेत्यर्थः । शुद्धेनेत्यत्र हेतुः प्रथमान्तशब्दोपस्थापितेनेति । ‘‘प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथम’’ इति शुद्धे प्रातिपदिकार्थ एव प्रथमाया अनुशासनादिति भावः । कर्ममि प्रयोगेप्याह ।। एवमिति ।। तृतीयान्तेति ।। ‘‘कर्तृकरणयोर्स्तृतीय’’ इति कर्तरि तृतीयाविधानादिति भावः ।
तर्कताण्डवम्
भावनानीताया अपि सङ्ख्याया निराकाङ्क्षेण प्रातिपदिकार्थेना-नन्वयस्योक्तत्वात् ।
किं चैवं चैत्रः तण्डुलान् पचतीत्यत्रापि तण्डुलानां भावनाविषय-भूतपाकविषयतया परम्परया भवानान्वयेन सङ्ख्यान्वयः स्यात् ।
न च सङ्ख्या साक्षाद्भावनान्वयिनान्वेतीति वाच्यम् । धात्वर्थे-नाप्यन्वयापातात् ।
न चाश्रयत्वेन भावनान्वयिनान्वेतीति वाच्यम् । तण्डुलाः पच्यन्त इत्यत्र तण्डुलानन्वयप्रसङ्गात् ।
न्यायदीपः
।। भावनानीताया इति ।। भावनया आनीता भावनानीता तस्याः । भावना यत्र गच्छति तत्र सङ्ख्यामपि नयतीत्युक्तत्वाद्भावनानीताया इत्युक्तम् ।। उक्तत्वादिति ।। चैत्रस्यादावेवान्तरङ्गेत्यादिना ग्रन्थेनोक्तत्वादित्यर्थः । सङ्ख्यापि कि यथाकथं चिद्भावनान्वयिनान्वेत्युत साक्षात्तदन्वयिना, अथ आश्रयत्वेन भावनान्वयिना, यद्वा भावनां प्रति विशेष्येण ।
आद्य आह ।। किं चेति ।। द्वितीयमाशङ्क्य निराह ।। न चेति ।। अन्वयापातादिति ।। सङ्ख्याया इति योज्यम् । तृतीयमाशङ्क्य निराह ।। न चाश्रयत्वेनेति ।। आश्रयश्च कर्तैव । न तु कर्मेति भावः ।
तर्कताण्डवम्
न च भावनां प्रति विशेष्येणान्वेतीति नियमः तण्डुलानां च भावनानाश्रयत्वेऽपि पाककृतिविषयाः तण्डुला इति प्रतीतेर्विशेष्यत्व-मस्तीति वाच्यम् । चैत्रो जानातीच्छति प्रयतत इत्यादौ चैत्रे धात्वर्थातिरिक्तभावनान्वयाभावेन सङ्ख्यानन्वयापातात् ।
तस्मादाख्यातादाश्रयत्वेन कर्तुरुपस्थितौ तस्य सङ्ख्यान्वये च सति समानाधिकरणप्रातिपदिकार्थेनाभेदान्वय इति युक्तम् ।
अत एव सुप्यते चैत्रेणेत्यादौ सङ्ख्यान्वययोग्ययोः सतोरपि कर्तृ-कर्मणोरवाच्यत्वान्न सङ्ख्यान्वयप्रत्ययः । प्रत्ययो वा शाब्देन स्वापेनैवान्वयो वाच्य इति स्वापद्वित्वबहुत्वाभ्यां द्विवचनबहुवचने स्याताम् । न च तत्र द्विवचनबहुवचनयोरसाधुत्वादेवाप्रयोगः । अर्थस्य सत्त्वेन असाधुत्वस्य वाङ्मात्रत्वात् ।
किं च स्वापे सङ्ख्यान्वयप्रत्ययेऽपि भावोत्पन्नलकारेण आश्रयत्वेन धात्वर्थरूपभावोपस्थितौ तत्र सङ्ख्यान्वये च सति सङ्ख्यावतार्थेन भावेन धात्वर्थस्य स्वापस्याभेदान्वय इति न सङ्ख्यायाः वाच्य-गामित्वनियमभङ्गः ।
।। १सङ्ख्याया वाच्यगामित्वनियमः ।। ५६ ।।
न्यायदीपः
उक्तदोषपरिजिहीर्षया परिहारं व्यञ्जयन् चतुर्थमाशङ्क्य प्रत्याह ।। न च भावनां प्रतीति ।। धात्वर्थातिरिक्तेति ।। ज्ञानेच्छाप्रयत्नविषयभावनाया एवाभावादिति भावः । कथं तर्ह्यन्वय इत्यत आह ।। तस्मादिति ।। आश्रत्वेनेति ।। भावनाश्रयत्वेन व्यापारश्रयत्वेन वेत्यर्थः । यद्वा कर्त्रर्था-श्रयेण लकारविधानादाश्रयत्वेन लकाराद्युत्पत्तिनिमित्तत्वेनेत्यर्थः । वाच्यत्वे-नेति यावत् । यद्वा सङ्ख्यां प्रत्याश्रयत्वेनेत्यर्थः ।
आख्यातोपस्थितकर्तर्येव सङ्ख्यान्वय इत्यत्र हेतुमाह ।। अत एवेति ।। सङ्ख्याया वाच्यार्थगामित्वनियमादेवेत्यर्थः ।। सुप्यत इति ।। ञिष्वप् शय इत्यस्य भावे रूपं सुप्यते चैत्रेणेति । इत्यादावित्यादिपदेन सकर्मकर्तरिप्रयोगग्रहः । अत एव सतोरपि कर्तृकर्मणोरित्युक्तिः । यद्वा आद्यस्य चतुर्थे पादे गतिबुद्धीत्यत्र
‘‘कालभावाध्वगन्तव्याः कर्मसज्ज्ञा ह्यकर्मणाम्’’ ।
इति मञ्जर्याद्युक्तेस्तदभिप्रायेण कर्मोक्तिः । प्रत्ययः प्रतीतिः ।। भावो-त्पन्नेति ।। ‘‘लः कर्मणि च भाव चाकर्मकेभ्य’’ इति भावार्थ विहित-लट्प््रात्ययरूपलकारेणेत्यर्थः । भावो नाम–
‘‘धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयत’’
इत्युक्तेर्धात्वर्थ एव ।। आश्रयत्वेनेति ।। पूर्ववदेव सङ्ख्यां प्रतीत्यर्थो ध्येयः ।
।। सङ्ख्याया वाच्यगामित्वनियमः ।। ५६ ।।