नन्विष्टसाधनत्वमात्रस्य विध्यर्थत्वे ..
३७. अथ स्वमते श्येनाग्नीषोमीयवैषम्यम् ।
तर्कताण्डवम्
नन्विष्टसाधनत्वमात्रस्य विध्यर्थत्वे तस्य विषसम्पृक्तमधुभोजन इव निषेधवाक्यार्थेनानिष्टसाधनत्वेन सहाविरोधादग्नीषोमीयहिंसाया-मुभयसम्भवा१न्मा हिंस्यादिति निषेधः तदतिरिक्तविषयत्वेन न व्यवस्थाप्यः स्यादिति चेन्न । निन्दार्थवादप्रायश्चित्तोपदेशाद्यशबलित-विधेयत्वस्यानिष्टासाधनत्वेन व्याप्ततया पर्यवस्यद्विध्यर्थेन सह विरोधात् । श्येनेनाभिचरन्यजेतेति विधिस्तु
‘‘विष्ठा वार्धुषिकस्यान्नमभिचाररतस्य च’’ ।।
इति निन्दार्थवादेन ‘‘त्रिभिः कृच्छ्रैर्व्यपोहति’’ इति प्रायश्चित्तोप-देशेन च शबलितो अग्नीषोमीयविधिस्तु तदशबलित इति वैषम्यम् ।
न्यायदीपः
यदि मण्याद्युक्तरीत्या विशिष्टेष्टसाधनत्वं न लिङाद्यर्थः तदा बाधकमाशङ्क्य निराह ।। नन्वित्यादिना ।। मात्रपदेन बलवदनिष्टाननु-बन्धित्वादिविशेषणव्यावृत्तिः ।। भोजन इवेति ।। तत्र तात्कालिकतृप्ति-रूपेष्टसाधनत्वस्य सत्त्वात्तस्य चानिष्टसाधनत्वेन यथा न विरोधस्तद्वद-विरोधादिति भावः ।। निषेधेति ।। ‘‘न हिंस्यात्’’ इत्यत्रनञ्युक्तलिङः पर्युदासेनानिष्टसाधनत्वमर्थ इति मण्याद्युक्तविध्यर्थभङ्गे कथितत्वेन निषेधवाक्यार्थो हिंसाया अनिष्टसाधनत्वम् । तच्चाग्नीषोमीयादिहिंसायां लिङादिबोधितेष्टसाधनत्वस्याविरोधीति तत्रोभयसम्भवादित्यर्थः ।
साक्षाल्लिङाद्यर्थेनाविरोधेऽपि न हिंस्यादित्यस्याविनाभावलब्धविधि-वाक्यार्थेन विरोधोस्तीत्याह ।। निन्दार्थवादेति ।। पर्यवस्यन् यत्र निन्दाद्यशबलितविधेयत्वं तत्रानिष्टासाधनत्वमिति व्याप्तिबलेन लभ्यो यो विध्यर्थः अनिष्टसाधनत्वासमानाधिकरणेष्टसाधनत्वरूपस्तेन सह विरोधा-त्तद्व्यतिरिक्तत्वेन व्यवस्थाप्यः । अग्निषोमीयादिविधिश्च निन्दाद्यशबलित इति वक्ष्यत भावः ।
कथं तर्हि ‘‘श्येनेनाभिचरन् यजेत’’ इत्यत्र निषेधविषयत्वम् । तत्रापि ‘‘लक्षणहेत्वोः क्रियाया’’ इति हेतौ विहितशत्रन्ताभिचारपदेनाभिचार-शब्दितशत्रुवधकाम इत्यर्थलाभेन शत्रुवधरूपेष्टसाधनत्वस्य श्येननामकयागे लिङा बोधितत्वेऽपि पर्यवसितविध्यर्थेन विरोधस्य वक्तुं शक्यत्वेन तदन्य-विषयत्वेन व्यवस्थापयितुं शक्यत्वादित्यत आह ।। श्येनेनेति ।। वार्धुषिकस्य वृद्ध्युपजीविन इत्यर्थः । ‘‘वृद्धिजीवस्तु वार्धुषिः’’ इत्यमरोक्तेः ।।
‘‘समर्धं धनमाहृत्य महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम सर्वकर्मबहिष्कृतः ।
इति स्मृत्युक्तलक्षणस्य वेत्यर्थः ।। कृच्छ्रैरिति ।।
‘‘त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
त्र्यहं पयश्च नाश्नीयाद् व्रतमेतत्प्रजापतेः’’ ।।
इत्युक्तलक्षणप्राजापत्यकृच्छ्रनामकद्वादशदिवसनिवर्त्त्यव्रतविशेषैः त्रिभिर्व्यपोहति । अभिचारदोषं परिहरतीत्यर्थः ।। शबलित इति ।। युक्त इत्यर्थः । तथा च पर्यवस्यद्विध्यर्थोपीष्टसाधनत्वमात्रमेव न त्वनिष्टा-साधनत्वसमानाधिकरणम् । येन विरोधेन तदन्यविषयताऽपि व्यवस्थाप्यत इति भावः ।