प्रभाकरास्तु– फलानुकूलोऽधः सन्तपनादिरूपव्यापारो धात्वर्थः
५५. अथाख्यातस्य प्राभाकरोक्तसङ्ख्यामात्रवाचित्वभङ्गः
तर्कताण्डवम्
प्रभाकरास्तु– फलानुकूलोऽधः सन्तपनादिरूपव्यापारो धात्वर्थः । आख्यातवाच्या तु सङ्ख्यैव । तेन चैत्रः पचति रथो गच्छतीत्यत्र चैत्ररथयोर्धात्वर्थान्वय एव प्रतीयते न तु कृत्याश्रयत्वं नापि तदनुकूल व्यापाराश्रयत्वमिति सर्वत्रापि धात्वर्थाख्यातार्थौ मुख्यौ । पचतीत्यत्र यत्नधीस्तु धात्वर्थेनाक्षेपादित्यहुः ।
तन्न । चैत्रादेर्धात्वर्थान्वयो हि न तावदाश्रयत्वम् । अधः सन्तपनादेश्चैत्रानाश्रितत्वात् ।
नापि जनकत्वम् । तस्य काष्ठादावपि सत्त्वेन काष्ठानि पचन्तीति प्रयोगस्यापि मुख्यत्वप्रसङ्गात् ।
नापि धात्वर्थजनककृत्याश्रयत्वम् । रथो गच्छतीत्यादौ कृत्य-भावेन गौणत्वप्रसङ्गात् ।
न्यायदीपः
।। प्रभाकरास्विति ।। आहुरित्यन्वयः । एतन्मतमप्याख्यातवादे मणौ एतेनेत्यादिनानूद्य इति गुरुमतमपास्तमित्यादिना दूषितमपि तदुक्त-दूषणायारोचमानः स्वयमनूद्य दूषयतीत्यदोष इति ध्येयम् ।
।। फलेति ।। तण्डुलविक्लित्यादिरूपफलेत्यर्थः । धात्वर्थः पच्यादि-धात्वर्थः । आदिपदेन उत्तरदेशसंयोगादिरूपफलानुकूलश्चलनादिरूपो व्यापारो गम्यादिधात्वर्थ इति ग्राह्यम् । सङ्ख्यैव, सा च कर्तृनिष्ठेति भावः । एवकारेण व्यापारमात्रं व्यावर्त्यं न तु वर्तमानत्वाद्यपि । तेन लडाद्युक्तं वर्तमानत्व मित्यादिवक्ष्यमाणग्रन्थाविरोधः ।
उक्तार्थे हेतुमाह ।। तेनेति ।। आख्यातादेः सङ्ख्यादिवाचित्वेन कारणेनेत्यर्थः ।। सर्वत्रापीति ।। चेतनेऽचेतने चेत्यर्थः ।। धात्वर्थेनेति ।। व्यापाररूपधात्वर्थस्य चेतननिष्ठस्य यत्नेन विनानुपपत्तेस्तेन तदापेक्षपा-दित्यर्थः ।
तर्कताण्डवम्
किं च यदि सङ्ख्यामात्रमाख्यातार्थः स्यात्तदा लडाद्युक्तं वर्तमान-त्वादिकं केनान्वेतु । न तावद्धात्वर्थेन । तथात्वे ह्यधःसन्तपनादिरूपे धात्वर्थेऽनागते तदनुकूले व्यापारे च वर्तमाने पक्ष्यतीत्येव स्यात् । न तु पचतीति । नापि सङ्ख्यया । तथात्वे ह्ययमपाक्षीदित्यादौ कर्तृगतसङ्ख्याया विद्यमानत्वेन पचतीति स्यात् ।
तस्मात्प्रतीत्यनुरोधाद्धात्वर्थानुकूलव्यापार एव आख्यातार्थः । तद्गतमेव च वर्तमानत्वमाख्यातेनोच्यत इति युक्तम् ।
न्यायदीपः
एवं धात्वार्थान्वयं चैत्रादेर्निरस्य सङ्ख्यामात्रवाचित्वं चाख्यातस्य निराह ।। किञ्चेति ।। सङ्ख्या मात्रमिति ।। व्यापारो यदि नाख्यातार्थ इति मात्रपदार्थः । वर्तमानत्वं वर्तमानत्वादीत्यर्थः ।। प्रतीत्यनुरोधादिति ।। व्यापारस्य वर्तमानत्वादेरेव पचतीत्यादिप्रयोगेन प्रतीतेस्तदनुरोधादित्यर्थः ।। धात्वर्थेति ।। फलानुकूलोऽधःसन्तपनादिरूप एव पच्यादिधात्वर्थः । तदनुकूलो व्यापारस्तु शरीरस्पन्दादिरूप एवाख्यातार्थ इत्यर्थः । तथैव धात्वर्थादेरग्रे वक्ष्यमाणत्वात् ।
तर्कताण्डवम्
ननु वर्तमानत्वस्य व्यापारेणान्वये यथा एकैकस्य व्यापारस्य वर्तमानत्वेन पचतीति प्रयोगः तथैकैकस्य व्यापारस्यानागत-त्वेनातीतत्वेन च पचतीति प्रयोगकाल एव पक्ष्यत्यपाक्षीदिति प्रयोगः स्यादिति चेन्न । यावतां मध्य एकैकस्य विद्यमानत्वेन व्यवहारः तावतां सर्वेषां प्रागभावे ध्वंसे च पक्षत्यपाक्षीदिति प्रयोग-व्यवस्थापनात् । व्यवहारानुरोधेन हि सर्वत्र निमित्तकल्पनमिति ।
।। आख्यातस्य प्राभाकरोक्तसङ्ख्यामात्रवाचित्रभङ्गः ।। ५५ ।।
न्यायदीपः
यत्तु मणावथ पाकानुकूलैककृतिकाले पचतीतिवदित्यादिना कृतेराख्या-तार्थत्वे बाधकमाशङ्कितं तद्व्यापारपक्षे सममिति भावेनोक्तार्थे बाधकमाशङ्क्य निराह ।। नन्वित्यादिना ।। एकैकस्येति ।। स्थालीस्थापनमधःसन्तपनं तण्डुलप्रक्षानं स्थाल्यां तण्डुलप्रक्षेपणं दर्व्यापरिलोडनमित्यादिव्यापारे-ष्वेकैकस्येत्यर्थः । एकदा सर्वमेनासम्भवेन सर्वसमुदायस्य वर्तमानत्वेन पचतीतिप्रयोगस्यायोगादेकैकस्येत्युक्तम् । कुत एषा कल्पनेत्यत आह ।। व्यवहारेति ।।
।। आख्यातस्य प्राभाकरोक्तसङ्ख्यामात्रवाचित्वभङ्गः ।। ५५ ।।