अथ का योग्यता ? न तावत्सजातीयेऽन्वयदर्शनं योग्यता
एकत्वापरत्वयोः पदार्थविशेषणत्वे प्रमेयत्वे प्रमेयत्वमित्यादाव-व्याप्तेः
अत्यन्ताभावस्य प्रतियोगिविरोधित्वेन व्याप्यवृत्तित्वेन वा ..
ननु तर्ह्युभयधीरपि प्रत्येकं शाब्दबोधहेतुः
इयं हि विषयसत्त्वरूपा योग्यता ..
वस्तुतस्तु अयोग्यतानिश्चयविरहोपि न शाब्दधीहेतुः
ननु प्रकृतप्रमाणविरोधरूपप्रतियोगिनोऽप्रामाणिकत्वात् ..
यत्तु प्रमाणलक्षणटीकायामन्योन्यान्वययोग्यतावदर्थाभिधायकत्वं योग्यत्वमित्युक्तम्
अथ का योग्यता ? न तावत्सजातीयेऽन्वयदर्शनं योग्यता
अथ योग्यतानिरूपणम् ।
तर्कताण्डवम्
अथ का योग्यता ? न तावत्सजातीयेऽन्वयदर्शनं योग्यता । पयसा सिञ्चति इत्यनाप्तवाक्येऽतिव्याप्तेः । किञ्च यथाकथञ्चित् साजात्यमयोग्यसाधारणम् । पदार्थतावच्छेदकधर्मेण वा तात्पर्य-विषयीभूतान्वयप्रतियोगितावच्छेदकधर्मेण वा साजात्यं तु अद्यजातः पयः पिबतीत्यादावव्याप्तम् ।।
नापि समभिव्याहृतपदार्थसंसर्गाभावव्याप्यधर्मशून्यत्वं योग्यता । प्रमेयमभिधेयमित्यादौ संसर्गाभावस्याप्रसिद्ध्या न्यायमते तत्राव्याप्तेः । समभिव्याहृतपदार्थसंसर्गो योग्यता इत्येतावतैव पूर्णत्वेन शेष-वैयर्थ्याच्च । अनाप्तवाक्ये अतिव्याप्तेश्च ।।
एतेनैव समभिव्याहृतपदार्थसंसर्गव्याप्यधर्मवत्त्वं वा, अन्वय-प्रतियोगितावच्छेकधर्मवत्त्वं वा योग्यतेति निरस्तम् । उक्तरीत्या शेषवैयर्थ्यात् । अनाप्तवाक्येऽतिव्याप्तेश्च ।
न्यायदीपः
‘‘प्रतीतान्वयस्य प्रमाणविरोधाभावो योग्यता’’ इति प्रमाणपद्धत्युक्तिं समर्थयमानः प्रसक्तपक्षान्पूर्ववादिमुखेन प्रत्याख्याति ।। अथेत्यादिना ।। सजातीय इति ।। दृष्टान्वयसजातीयत्वं योग्यतेत्यर्थः । मण्युक्तमपि दोषमाह ।। किञ्चेति ।। अयोग्यतेति ।। अग्निना सिञ्चेदित्यादावपि शब्दार्थत्वादिना साजात्यस्य सत्त्वादिति भावः । मणिव्याख्यातृभिरुक्तमाह ।। तात्पर्यविषयेति ।। अद्यजात इति ।। अद्यजातत्वेन रूपेण तदन्वय-स्येतः पूर्वं क्वाप्यदर्शनादिति भावः ।
।। समभिव्याहृतेति ।। समभिव्याहृतं यत्पदं तदर्थनिरूपितसंसर्गस्य योऽभावस्तद्व्याप्यधर्मशून्यत्वम् । यथा जलेन सिञ्चतीत्यादौ समभिव्याहृत-सेकरूपपदार्थसंसर्गाभावव्याप्यो धर्मोऽग्नित्वादिः, तथा समभिव्याहृतजल-पदार्थसंसर्गाभावव्याप्यो दाहत्वादिस्तादृशधर्मशून्यत्वमस्ति । अग्निना सिञ्चतीति जलेन दहतीत्यादौ तु तादृशधर्मवत्त्वादयोग्यतेत्यर्थः ।।
सिद्धान्ते धर्ममात्रस्य व्यतिरेकित्वाद्घटनिष्ठप्रमेयत्वादेः पटे तन्निष्ठ-प्रमेयत्वादेर्घटेऽसत्त्वेन प्रमेयत्वादिसंसर्गाभावस्यापि प्रसिद्धत्वादाह ।। न्यायमत इति ।। तन्मते तस्य केवलान्वयित्वादिति भावः । सिद्धान्ते तु कथमित्यतो दोषान्तरमाह ।। समभिव्याहृतेति ।। अनाप्तेति ।। पयसा सिञ्चतीत्याद्यनाप्तवाक्य इत्यर्थः । क्रमेण पक्षद्वये दोषमाह ।। उक्तरीत्येति ।। समभिव्याहृतपदार्थसंसर्ग इत्येव पूर्तेरिति भावः ।