एवं विकत्त्यादिरूपफलजनकोऽधःसन्तपनादिव्यापार एव..

५८. अथ धातोर्मण्डनोक्तफलवाचित्वभङ्गः

तर्कताण्डवम्

एवं विकत्त्यादिरूपफलजनकोऽधःसन्तपनादिव्यापार एव पच्यादिधात्वर्थः । उक्तधात्वर्थानुकूलशरीरस्पन्दादिराख्यातार्थः ।

मण्डनस्तु– विकत्तिरेव धात्वर्थः । तज्जनकोऽधःसन्तपनादि-रेवाख्यातार्थः । तथाहि । व्यापारमात्रस्य पच्यादिधात्वर्थत्वे गमना-दावपि पच्यादिप्रयोगः स्यात् । विकत्त्यादिफलोपहितस्य तु धात्वर्थत्वे फलमुपलक्षणं चेदुपलक्ष्यताव्चछेदकानतिप्रसक्तरूपाभावात्स एवातिप्रसङ्गः । विशेषणं चेन्नागृहीतविशेषणान्यायेन प्रथमोप-स्थितत्वाल्लाघवाच्च फलमेव धात्वर्थः ।

न च व्यापारविगमे फलदशायां पचतीति स्यान्न त्वपाक्षीदिति तदा धात्वर्थस्य फलस्य सत्त्वादिति वाच्यम् । तदा धात्वर्थस्य सत्त्वे-प्याख्यातार्थस्य धात्वार्थानुकूलव्यापारस्य अतीतत्वेन तदा पचतीत्यादिव्यापारवर्तमानत्ववाचकाख्यातप्रयोगस्य अनुचितत्वात् । प्रत्युत व्यापारस्य अतीतत्वादपाक्षीदित्यतीताख्यातप्रयोग एवोचितः ।

न्यायदीपः

परोक्तं निरसितुं स्वमतं निष्कृष्य दर्शयति ।। एवं चेति ।। विकत्ति-स्तण्डुलोदरवयवशिथिलता ।। मण्डनस्त्विति ।। आहेति वक्ष्यमाणे-नान्वयः ।

।। धात्वर्थः फलमिति ।। मण्डनाचार्या इत्यादिनानूद्यैतन्मतं मणौ निरस्तमपि व्युत्पादनार्थमधिकदोषोक्त्यर्थं च पुनरत्रोपन्यस्तमित्यदोषः । तत्र परिशेषरूपयुक्तिं वक्तुमाह ।। तथाहीति ।।

धात्वर्थः फलं न चेत्तर्हि स किं व्यापारमात्रं फलोपरक्तो वा । तत्रापि फलोपलक्षितव्यापारो वा फलविशिष्टव्यापारो वेति हृदि विकल्प्याद्य आह ।। व्यापारमात्रस्येति ।। द्वितीयमनूद्य तत्राप्याद्यं निराह ।। विकत्यादि-फलेति ।। स एवेति ।। गमनादावपीत्युक्त एव । द्वितीय आह ।। विशेषणं चेदिति ।। फलस्य धात्वर्थत्वे बाधकमाशङ्क्य निराह ।। न चेति ।।

तर्कताण्डवम्

एतेनाकाशस्य स्पन्दजन्यसंयोगविभागरूपधात्वर्थाश्रयत्वादाकाशो गच्छति पतति त्यजतीति स्यादिति निरस्तम् । आकाशे धात्वर्थस्य सत्त्वेपि व्यापाराभावेन व्यापारवर्तमानत्वाद्यर्थकस्य गच्छत्यगच्छ-दित्याद्याख्यातप्रयोगस्य अप्रसङ्गात् ।

न्यायदीपः

नन्वेवं तुल्यन्यायतया गच्छतीति गमिधातोरुत्तरदेशसंयोगः, पततीति धातोरधोदेशसंयोगः, त्यजतीति धातोर्विभागोर्थ इति स्यात् । तथाच गगनेप्युक्तसंयोगादिसम्भवेन गच्छतीत्यादिप्रयोगः स्याद्विवक्षितधात्वर्थस्य तत्रापि सत्त्वादित्यत आह ।। एतेनेति ।। एतेनेत्युक्तं व्यनक्ति ।। आकाश इत्यादिना ।। व्यापारेति ।। परिस्पन्दादिरूपव्यापाराभावनेत्यर्थः ।

तर्कताण्डवम्

एतेनैव फलस्य विकत्यादेर्धात्वर्थत्वे तस्य धात्वर्थस्य अक्रियात्वा- त्तण्डुलादेः क्रियाजन्यफलभागित्वरूपं कर्मत्वं न स्यादिति निरस्तम् । परसमवेतव्यापारजन्यफलभागित्वमेव हि कर्मत्वम् । स च व्यापार-स्त्वाख्यातार्थो वा धात्वर्थो वेत्यन्यदेतत् । तस्मात्फलमेव धात्वर्थ इत्याह ।

तन्न– फलस्य धात्वर्थत्वे हि ओदनकामः पचेतेत्यत्र विधिप्रत्ययेन विकत्तिरूपधात्वर्थ एवेष्टसाधनत्वं बोधनीयम् । न च तद्युक्तम् । फलस्य स्वयमिष्टत्वेन तत्साधनत्वायोगात् । प्रवृत्त्यविषयत्वाच्च । न ह्युपायमकृत्वा फलं साक्षात् साधयितुं शक्यम् ।

तस्मात् फलसाधने प्रवृत्तिविषयेऽधःसन्तपनादिव्यापार एव विधिप्रत्येयेनष्टसाधनत्वं बोध्यमिति फलानुकूलव्यापार एव धात्वर्थः ।

न्यायदीपः

बाधकान्तरं च प्रत्याह ।। एतेनैवेति ।। क्रियात्वादिति ।। अन्यथा तद्वाचिनो धातुत्वं न स्यात् । ‘‘भूवादयो धातव’’ इत्यत्र क्रियावाचिनामेव धातुत्वोक्तेरिति भावः । सिद्धान्तरीत्याह ।। धात्वर्थो वेति ।।

।। अन्यदेतदिति ।। तथाचाख्यातार्थभूताधःसन्तपनादिव्यापारजन्य-विकत्त्यादिफलाधारत्वात् तण्डुलानां कर्मत्वं युक्तमेवेति भावः ।

इष्टसाधनत्वं विधिप्रत्ययार्थ इत्युपपादितत्वात्तदन्वयाद्ययोगरूप-बाधकमाह ।। फलस्य धात्वतर्थत्व इति ।। पचतेः स्वरितेत्त्वा-त्कतृगामिक्रियाफले सति ‘‘स्वरितञितः कर्त्रभिप्राये क्रियाफले’’ इति पचेतेत्यात्मनेपदम् ।

।। प्रवृत्त्यविषयत्वाच्चेति ।। फलस्येत्यनुषङ्गः । प्रवृत्तिविषयस्यैव विधिप्रत्ययेनेष्टसाधनतया बोधनीयत्वात्प्रवृत्तिहेतुत्वात्तद् बोधस्येति भावः । प्रवृत्त्यविषयत्वं व्यनक्ति ।। नहीति ।।

तर्कताण्डवम्

नन्विष्टसाधनत्वं न धात्वर्थे बोध्यते । किं तु लडर्थभूत-वर्तमानत्ववदाख्यातार्थेऽधःसन्तपनादौ बोध्यते । नचाख्यातार्थस्य व्यापारस्य धात्वर्थेन फलेन सह जनकतया अन्वितत्वेनेष्टसाधनत्वस्य लाभाद्विधिप्रत्ययवैयर्थ्यं स्यादिति वाच्यम् । अन्वयतया तल्लाभेपि प्रकारत्वेन तल्लाभार्थत्वाद् विधेः ।

इष्टसाधनत्वप्रकारकमेव हि ज्ञानं प्रवर्तकमिति चेन्न । एवं हीष्टसाधनत्वान्वितस्याधःसन्तपनादेः प्रथमान्तोक्तचैत्रेण आधेय-त्वेनान्वयो नास्तीति चैत्रः पचतीति न स्यात् । जन्यतया अन्वयमात्रेण तथात्वे तु काष्ठं पचतीत्यपि स्यात् ।

तस्मात्फलानुकूलोऽधःसन्तपनादिः धात्वर्थः । तदनुकूल-स्पन्दादिश्चाख्यातार्थः । स च कर्त्राधेयतयान्वेतीत्येव युक्तम् ।

न्यायदीपः

यदि विधिप्रत्ययबोध्यमिष्टसाधनत्वं धात्वर्थान्वयि स्यात्तदा स्यादयं दोषः । न चैवम् । किन्त्वाख्यातार्थान्वयीति शङ्कते ।। नन्विति ।। बाधकमाशङ्क्य निराह ।। नचेति ।। अन्वयतयेति ।। प्रकृतिप्रत्यय-समभिव्याहारलभ्यस्यान्वयरूपत्वादेकप्रत्ययश्रुत्या विशेषणविशेष्यभावापन्नता-बोधितयोः प्रकारप्रकारिरूपत्वादिति भावः ।

किम्प्रकारत्वज्ञानेनेत्यत आह ।। इष्टसाधनत्वेति ।। अन्वयो-नास्तीति ।। अधः सन्तपनादेः व्यापारस्य चैत्राधारकत्वाभावादिति भावः । तर्हि जनकाकाङ्क्षया तदन्वयोस्त्वित्यत आह ।। जन्यतयेति ।।

तर्कताण्डवम्

नच फलमनन्तर्भाव्यव्यापारमात्रस्य शक्यत्वे त्यजतिगच्छत्यो-रेकार्थत्वापत्तिः, फलस्य धात्वर्थप्रवेशे तु फलस्य शक्यत्वपक्ष इवेष्टसाधनत्वान्वयानुपपत्तिः, न हि फलविशिष्टं फलसाधनं भवतीति वाच्यम् । फलस्य प्रवृत्तिनिमित्तत्वेन विशेष्यतया धात्ववाच्यत्वात् । विशेष्य एव चापरपदार्थान्वयात् । केवलव्यापारस्यैव च विशेष्यत्वात् ।

न्यायदीपः

प्रथमान्तेनाधेयतयान्वयार्थं सन्तपनादिव्यापारामात्रस्य धातुवाच्यत्वे बाधकमाशङ्क्य निराह ।। न च फलमिति ।। एकार्थत्वेति ।। परिस्पन्दादि- व्यापारमात्रस्योभयत्रतुल्यत्वादिति भावः ।। फलस्येति ।। उत्तरदेश-संयोगजनकपरिस्पन्दो गमिधात्वर्थः । विभागजनकपरिस्पन्दस्त्यजिधात्वर्थः । इत्येवंरूपेण धात्वर्थप्रवेशे त्वित्यर्थः ।

ननु प्रवृत्तिनिमित्तस्यापि वाच्यत्वं पूर्वं शक्तिग्रहवादे साधितमित्यत आह ।। विशेष्यतया धात्ववाच्यत्वादिति ।। ननु यथाकथञ्चिदपि धातुवाच्यत्वात्फलविशिष्टेपि व्यापारे कथं विधिप्रत्ययोक्तेष्टसाधनत्वान्वय इत्यतो विशेषणे फले नास्त्येवेत्याह ।। विशेष्य एवेति ।। अपर-पदार्थेति ।। अपरशब्दार्थेत्यर्थः ।

तर्कताण्डवम्

किञ्च यदि १च फलस्य धातुवाच्यत्वं,२ फलाभावे व्यापारकाले पाको वर्तत इति न स्यात् । तदाख्यातस्य अप्रयुक्तत्वेन तदर्थ-व्यापारवर्तमानत्वमादाय वर्तत इति प्रयोगनिर्वाहासम्भवात् । न चाद्यापि फले शक्तिः कप्ता । येन पाको वर्तत इत्यत्र पाकशब्दो लाक्षणिकः स्यात् ।

किं चैवं व्यापारविगमे फलकाले पाको वर्तत इति कदाचित्प्रयोगः स्यात् । पाकशब्दमुख्यार्थस्य विकत्तेः सत्त्वादिति ।

।। धातोर्मण्डनोक्तफलवाचित्वभङ्गः ।। ५८ ।।

न्यायदीपः

केवलं फलमेव धात्वर्थ इति पक्षे व्यापारे प्रयोगान्वयव्यतिरेकरूपं बाधकमाह ।। किञ्चेति ।। नन्वेतच्चोद्यं न च व्यापारविगम इत्यादि-ग्रन्थोक्तदिशा तुल्यन्यायतया परिहृतमित्यत आह ।। तदाख्यातस्येति ।। तर्हि पाक इति प्रयोगः पाकानुकूलव्यापारे लाक्षणिकोस्त्वित्यत आह ।। न चाद्यापीति ।। अन्वयमुक्त्वा व्यतिरेकं चाह ।। किञ्चैवमिति ।।

।। धातोर्मण्डनोक्तफलवाचित्वभङ्गः ।। ५८ ।।