ॐ उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः

बृहदारण्यकोपनिषद्भाष्यम्

तृतीयोऽध्यायः

अश्वब्राह्मणम्

ॐ उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः । संवत्सरः आत्मा अश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं, पृथिवी पाजस्यं, दिशः पार्श्वे । अवान्तरदिशः पर्शवः । ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा । नक्षत्राण्यस्थीनि नभो मांसान्युवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥

श्रीमदानन्दतीर्थभगवत्पादाचार्यप्रणीतं बृहदारण्यकोपनिषद्भाष्यम् प्राणादेरीशितारं परमसुखनिधिं सर्वदोषव्यपेतं सर्वान्तस्थं सुपूर्णं प्रकृतिपतिमजं सर्वबाह्यं सुनित्यम् । सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजाद्यैः सदा सेव्यमानं विष्णुं वन्दे सदाऽहं सकलजगदनाद्यन्तमानन्ददं तम् ॥ १ ॥

यथा तुष्टाव लक्ष्मीशं सर्गादौ चतुराननः । तथा जगाद सूर्याय याज्ञवल्क्याय सोऽब्रवीत् ॥ २ ॥

वाजिरूपेण सूर्येण प्रोक्तं वाजसनेयकम् । कण्वाय याज्ञवल्क्योऽदात् काण्वं तेन प्रकीर्तितम् ॥ इति वाराहे ।

अश्वस्वरूपो ब्रह्माऽभूदश्वरूपाज्जनार्दनात् । तत्र सन्निहितो विष्णुरश्वरूपः स्वयं प्रभुः ॥ तयोश्च प्रतिमा मेध्यो यतोऽश्वोऽयं श्रुतौ श्रुतः । सर्वं जगत्तदङ्गेषु तस्मात् सन्निहितं स्मृतम् ॥ तयोरङ्गेष्विदं यस्मात् जगत्सर्वं प्रतिष्ठितम् ॥ इति प्रध्याने ।

उच्चैःश्रवाः सन्निहितो मेध्येऽश्वे तत्र केशवः । तस्मिन्निदं जगत्सर्वं ब्रह्मा चोच्चैःश्रवःस्थितः ॥ इति सौपर्णे ।

पर्वताः सिकताश्चैव नद्यः कूपाः सरांसि च । हविः कपालयूपाद्या देवता एव सर्वशः ॥ तत्तन्नामैव नामैषां भिन्नानामभिमानतः । नामानि तान्यपि हरेः स हि सर्वगुणाधिकः ॥ इति नारदीये ।

उषाः शिरो ब्रह्मनाम तत्त्वमस्यादयोऽखिलाः । सप्तम्यर्थाः समुद्दिष्टाः पञ्चम्यर्थास्तथा श्रुताः ॥ षष्ठ्यर्थाश्च चतुर्थ्यर्थास्तृतीयार्थाश्च सर्वशः । तदैक्यवाचिवच्छब्दाः अपि तद्गत्ववाचकाः ॥ ऐक्यार्था नैव ते सर्वे भिन्नरूपाः यतः सदा । ईशाङ्गवाचिनो वा स्युस्तेषामेव तदर्थतः ॥ सप्तसु प्रथमा यस्मात् तत्तद्योग्यार्थता भवेत् ॥ इति ब्रह्मतर्के ।

अङ्गप्रत्यङ्गशो व्याप्तो विष्णुरेव तुरङ्गमे । अतो विष्ण्वङ्गगं सर्वं मेध्याङ्गस्थमुदीरितम् ॥ इति च ।

पुनरप्यश्वस्य मेध्यस्येतिवचनं कस्यचिदश्वस्यैवमासीदितीतिहासरूपेण नोच्यते किन्तु सर्वमेध्यानामेवमिति ज्ञापनार्थम् ।

सर्वव्यक्तिष्वभिव्याप्त्यै तात्पर्याधिक्यवित्तये । प्रतीतानुपपत्तेरप्यभासत्वविवक्षया ॥ पुनर्वचनमुद्दिष्टं शतशोऽपि पृथक् पृथक् ॥ इति च ।

विष्णोः पुरीषस्थानीया काठिन्यात् पृथिवी श्रुता । तत्स्थत्वात् सिकताः सर्वा उवध्यस्थाः प्रकीर्तिताः ॥ उर्व्यास्तु पादगत्वेऽपि नोवध्यत्वं विरुध्यते । यतस्तदभिमानिन्यो देवता अनुकीर्तिताः ॥ तासां च बहुरूपत्वादैश्वर्याच्च परेशितुः । इति च ।

अवान्तरदिशो विष्णोरस्थिपुच्छान्युदाहृताः । पूर्वपश्चार्धभेदेन दिशः पार्श्वे प्रकीर्तिते ॥ शिरश्च पादमूलानि पुच्छं षडृतवः स्मृताः । संवत्सराभिमानी च ब्रह्मा सर्वशरीरगः ॥ क्लोमानश्च यकृच्चैव मांसी गिर्यभिमानिनः । आन्त्रेषु नद्यः सर्वाश्च सोऽयं विष्णुः सनातनः ॥ इति च ।

नभोऽभिमानी विघ्नेशो विष्णोर्मांसाश्रितः सदा । अन्तरिक्षाभिमानी च तत्सूनुरुदरे स्थितः ॥ इति च ॥ १ ॥

अहर्वा अश्वं पुरस्ताद् महिमाऽन्वजायत । तस्य पूर्वे समुद्रे योनौ रात्रिरेनं पश्चान्महिमाऽन्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुर्हयो भूत्वा देवानवहद् वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥॥ इति अश्वब्राह्मणम् ॥

अश्वपूर्वापरौ होम्यौ महिमानौ ग्रहौ स्मृतौ । अहोरात्राभिमन्तारौ तयोरप्यभिमानिनौ ॥ कामश्चाथ रतिश्चैव विष्णुब्रह्मशरीरजौ । समुद्रेकात् समुद्रस्तु विष्णुः पूर्वमुदाहृतः ॥ उपचारेण तूद्रेकादपरश्च चतुर्मुखः । स विष्णुर्हयनामा सन् देववाह्येषु संस्थितः ॥ वाजिनामा तु गन्धर्वेष्वर्वनामाऽसुरेषु च । मनुष्येष्वश्वनामाऽसौ तद्बन्धुः स्वयमेव सः ॥ तस्मादेवोत्थितिस्तस्य रूपभेदो न तस्य च । ऐश्वर्यात् स तथापीशो व्यक्तिभावं गमिष्यति ॥ हत्वा याति यतः शत्रून् हरिस्तस्मात् हयः स्मृतः । सर्वदा युद्धकर्तृत्वाद्वाजी चापि प्रकीर्तितः ॥ अर्वाऽभिगमनादुक्त आशुत्वादश्व उच्यते ॥ इति वैहायसे ।

तेषां तेषां वाहनेषु स्थित्वा तत्तत्कर्मकर्तृत्वात् तत्तन्नामा ।

पतन्ति नियतं हन्तुं देवाश्वाः शत्रुमूर्धसु । वेगाधिका आसुराश्वा वेगमात्रं नृवाहनः ॥ इति स्कान्दे ।

गन्धर्वास्तु सदा युद्धरता देवानुगा यतः । तदशक्तौ तु देवानां युध्यन्ते स्वामिनो यतः ॥ केचिद् गानरता नित्यं गन्धर्वा नर्तकाः परे । केचिद् वाद्यरता नित्यं चारणा देवचारकाः ॥ इति च ॥