एष आत्मा निष्क्रामतीति जीवाङ्गीकारे ..

[मरणं भगवदधीनम् ]

भाष्यम्

एष आत्मा निष्क्रामतीति जीवाङ्गीकारे 'शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते' इत्यादिकमयुक्तं स्यात् । नहि जीवः शरीरं निहन्तययाविद्यां गमयति रूपान्तरं वा करोति । नच सर्वमयत्वं जीवस्य । ब्रह्मेति विशेषणाच्च ।

भावबोधटिप्पणी

ननु तेन प्रद्योतेनैष आत्मा जीवो निष्क्रामतीत्येवार्थः किन्न स्यात् । बाधकाभावात् । अतः किं विष्णुपरतया व्याख्यानेनेत्यतस्तत्र बाधकमाहएष इति ।। यद्यत्रात्मशब्दो जीवपरस्तर्ह्यत्तरत्रापि अयमात्मेदं शरीरं निहत्येत्यत्र स वा अयमात्मा ब्रह्मेत्यत्र चात्मशब्दो जीवपर इत्यङ्गीकारापातेन इदं शरीरं निहत्येत्यादिकमपि जीवकर्तृकमित्यङ्गीकर्तव्यं स्यात् । नच तद् युक्तमित्यर्थः । कुतो न युक्तमित्यत आह- नहीति । स वा अयमात्मा ब्रह्मेत्यत्रात्मशब्दस्य जीवपरत्वायोगे हेतुमाह - नचेति || अत्रात्मशब्दस्य जीवपरत्वे विज्ञानमयत्वादेः कथञ्चित्तस्मिन् सम्भवेऽपि सर्वमय इत्युक्तं सर्वप्राधान्यं जीवस्य कथमपि न युज्यते । नच सर्वमय इति सर्वस्वरूपत्वमुच्यत इति वाच्यम् । त्वयापि जीवस्य विशिष्टस्य सर्वस्वरूपत्वानङ्गीकारात् ।जीवचैतन्यस्य सर्वचैतन्याभेदार्थत्वे च लक्षणापातात् । अतो नायमात्मशब्दो जीवपर इत्यर्थः । तत्रैव हेत्वन्तरमाह - ब्रह्मेति ॥

Load More