अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव
[ मुक्तिप्रदः भगवान् विष्णुः]
उपनिषत्
तदेते श्लोका भवन्ति ॥
अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वो विमुक्ताः ॥
भाष्यम्
तत्प्राप्तेः सुखहेतुत्वात् पन्था इति हरिः श्रुतः ।
अणु विततश्चासौ यतोऽन्तर्बहिरेव च ॥
श्रिया स्पृष्टः श्रीपतित्वादनु वित्तस्तथैव च ।
तस्य प्रसादात् संयान्ति तल्लोकं सर्वमोक्षिणः ॥
ऊर्ध्वः स भगवान् सर्वविशिष्टो यत् सदैव हि ।
भावबोधटिप्पणी
इदानीमणुः पन्था इति मन्त्रमन्यथाप्रतीतिनिरासाय व्याचष्टे - तत्प्राप्तेरित्यादिना सदैव हीत्यन्तेन । अनेन पन्था इति ऐकात्म्यज्ञानलक्षणो मार्ग इत्यपहस्तितम् । तस्यानर्थहेतुत्वेन मोक्षहेतुत्वाभावात् । मां स्पृष्ट इत्यस्यार्थः श्रिया स्पृष्ट इति । अनुवित्तो मयैवेत्यस्यार्थोऽनुवित्तस्तयैवेति । तेनेत्यस्यार्थस्तस्य प्रसादादिति । विमुक्ता इति बहुवचनाभिप्रायः सर्वमोक्षिण इति ।। ८ ।।