पृथिव्यै चैनमग्नेश्च दैवी वागाविशति ..

[ वाणीब्रह्मणोः मुक्तनियामकत्वमस्ति ]

उपनिषत्

पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ २५ ॥

दिवश्चैनमादित्याच्च दैवं मन आविशति तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ २६ ॥

अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति स वै दैवः प्राणो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति स य एवंवित् सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति॥ २७ ॥

भाष्यम्

पृथिव्यादिस्थिता देवा: सरस्वत्यादिकास्त्रयः॥

अधिकावेशतो देवेष्वतो देवा इति स्मृताः ।

यदावेशात्सर्वमुक्तं सत्यं दैवी तु वाग्धि सा ॥

यदावेशान्न दु:खी स्यादानन्दी दैवतं मनः ।

यदावेशात्सर्वकार्येष्वम्लानः प्राण एव सः ।।

सर्वसामर्थ्ययुक्तः स्यान्न म्रियेत कदाचन ।

एवं सप्तान्नविन्मुक्तस्त्रिभिराविष्ट एव तु ॥

सर्वेषु व्याप्तिमन्वेति न दुःखी प्राणिषु स्थिते: ।

सप्तान्नोपासनायोग्या देवा एकान्ततो हि यत् ।

देवां पापं नाऽप्रोति तस्मात्पापं न तस्य तु ।

देवा मनुष्यतामंशैराप्ता ये पुत्रतः फलम् ॥

स्यात्तेषामेव चामुक्तेर्मुक्तानां नतु किञ्चन ।

मुक्तानां दैववागादेरावेशः सम्प्रकीर्तितः ॥

प्राणज्ञानं यथाऽवन्ति रहस्यमिति सर्वदा ।

एवं मुक्तस्वरूपं चाप्यवन्त्येव रहस्यतः ॥

भावबोधटिप्पणी

'अथैनमेते देवा आविशन्ति' इति वागादीनां देवत्वमुक्त्वा 'दैवी वाक् दैवं मनः दैवः प्राणः' इति देवसम्बन्धित्वमुच्यते तद्घटयति - पृथिव्यादीति ॥ आदिशब्देनाग्र्यादित्याप्चन्द्रमसां ग्रहणम् । अनेन 'पृथिव्यै चैनमग्नेश्च दिवश्चैनमादित्याच्च अद्भयश्चैनं चन्द्रमसश्च' इति वाक्यं व्याख्यातम् । संसारदशायां पृथिव्यादिस्थिताः सरस्वत्यादिका मुक्ताः । देवेषु सप्तान्नविन्मुक्तदेवेषु । यद्वा, पृथिव्यादिशब्देन मुक्ताः पृथिव्यादिदेवताः ग्राह्याः । अत्र मुक्तब्रह्मण एव रूपान्तरेणेतरमुक्तमनःप्राणप्रवेशापेक्षया त्रय इत्युक्तम् ।सा दैवी वाग् यया यद् यदेव वदति तत्तद् भवति' इति वाक्यं व्याचष्टे - यदावेशादिति ॥ 'तद्वै दैवं मनो येनाऽनन्द्येव भवत्यथो न शोचति' इत्येतद् व्याचष्टे- यदावेशान्नेति ।। मुक्तो दुःखी न स्याद् आनन्दी च स्यात् ग्राह्यम् ।स वै दैवः प्राणः यः सञ्चरंश्चासश्वरंश्च न व्यथतेऽथो न रिष्यति' इत्येतद् व्याचष्टे- यदावेशात्सर्वकार्येष्विति || अम्लानो मुक्तः । अम्लानत्वं कुत इत्यत उक्तम्- सञ्चरणादिसर्वसामर्थ्ययुक्त इति ॥ न रिष्यतीत्यस्यार्थःन ग्रीयतेति । यदावेशादित्याद्युक्तमुपसंहरन्नथैनमेते देवा इति प्रतिज्ञावाक्यतात्पर्यमाह - एवमिति । एवं त्रिभिराविष्ट इति सम्बन्धः ।स य एवंवित्सर्वेषां भूतानामात्मा भवति' इति वाक्यं व्याचष्टेसर्वेष्विति ॥ सप्तान्नविदित्यनुवर्तते । तर्हि सर्वेषां दुःखे तस्यापि दुःखं स्यादित्याशङ्कापरिहारकतया ' यदु किञ्चेमाः' इति वाक्यं व्याचष्टे - न दुःखीति || अमुं सप्तान्नविद्योपासनेन प्रेरकतया सर्वप्राणिस्थितं प्राणिकृतं पुण्यमेव गच्छति न पापमित्यत्र 'न ह वै देवान्' इति कथं हेतुः देवानां पापास्पर्शेऽपि सर्वप्राणिस्थस्योपासकस्य तत्स्पर्शोपपत्तेरित्याशङ्कां परिहरन् 'न ह वै' इति वाक्यं व्याचष्टे - सप्तान्नेति ॥ तस्योपासकस्य । पापं न त्विति पुण्यमेवेत्यवधारणार्थः । ननु यदि सप्तान्नोपासका देवा एव तर्हि तेषां मृत्यनन्तरं पुत्राणामेवानवस्थानेन तेभ्यः फलाभावात् कथंस यदैवंविदस्माल्लोकात् प्रेत्य' इत्यादिना पुत्रो मुञ्चतीत्यन्तेन तेषां मृत्यनन्तरं पुत्रतः फलमुच्यत इत्यत आह- देवा इति ॥ देवाः अंशैर्मनुष्यतामाप्ता ये तेषामेव पुत्रतः फलं स्यात्पुत्रे जीवति तेषां मरणसम्भवात् । नतु मूलरूपेण देवानामेव । पुत्रे जीवति तेषां मरणासम्भवादिति भावः । एतदपि न सर्वदेत्याह- आमुक्तेरिति ॥ कुत इत्यत आह- मुक्तानामिति || पुत्रतः फलमिति वर्तते । यदि सप्तान्नोपासकस्य मुक्तौ पुत्रतः फलं न तर्हि किं तस्य मुक्तौ तद्विद्यासाध्यफलमित्यत आह- मुक्तानामिति ॥ सप्तान्नविद्याफलतयेति शेषः । ननु वायुरेव सर्वाणि भूतान्यवति नतु तानि वायुम् अवन्ति तत्कथमुच्यते स यथैतां देवतां सर्वाणि भूतान्यवन्ति' इति । किञ्च सप्तान्नविद्यावेत्तुरपि देवत्वेन सर्वभूतकर्तृकावनासम्भवादेवंविदं सर्वाणि भूतान्यवन्तीति च कथमुक्तमित्यतस्तस्याभिप्रायमाह - प्राणज्ञानमिति || सप्तान्नविन्मुक्तस्वरूपज्ञानमित्यर्थः । चशब्देनामुक्तसप्तान्नवित्स्वरूपग्रहणम् । प्राणस्वरूपस्य दैववागाद्यावेशविशिष्टसप्तान्नविन्मुक्तस्वरूपस्य चायोग्येष्व- नुपदेशेनेत्यर्थः ।। २५-२७ ॥