तदिदं ब्रह्म यो हेयत्वादिगुणमेतर्ह्यपि वेद
सर्वस्वरूपत्वं हि दुर्विद्वद्भिरङ्गीरक्रियते
इदंशब्देन परब्रह्मविवक्षायां ब्रह्मशब्दो व्यर्थः स्यात्
अस्मत्पक्षे तु तदात्मानमेवावेदित्यपि ज्ञातव्यमित्येवंशब्दार्थः
अभावे पृथगर्थानां व्याख्यामभ्यासमेव वा
जीवादिभ्यो हरिर्भिन्नस्तं यः स्वगुणभेदतः
एवं स देवानामित्यत्र पूर्वः सम्यग्ज्ञानी परामृश्यते
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः
तत्त्वविद्देवगौः प्रोक्तो नरगौश्चाप्यतत्त्ववित्
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्
तदिदं ब्रह्म यो हेयत्वादिगुणमेतर्ह्यपि वेद
[ 'अहं ब्रह्मास्मि' इति श्रुत्यर्थः ]
भाष्यम्
तदिदं ब्रह्म यो हेयत्वादिगुणमेतर्ह्यपि वेद। अहंशब्दस्याहेयत्वानङ्गीकारे इदं- शब्दोऽपि व्यर्थः ।
भावबोधटिप्पणी
तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मस्मीति वाक्यस्य 'यो यो हेयं परं ब्रह्मा सदैवास्ति' इति मानगम् । इदानीमपि जानातीति व्याख्यानमयुक्तम् । परं ब्रह्मेत्यस्य श्रौतब्रह्मशब्दानुवादपरत्वेन तदिदंशब्दयोर्वैयर्थ्यापातात् । प्रकार- समर्पकशब्दमध्यगतब्रह्मशब्दस्य विशेष्यपरत्वानुपपत्तेश्च । तस्मात्तदिदं यत्सर्वभूता- नुप्रविष्टं ब्रह्मैतर्हि एतस्मिन्नपि काले यः कश्चिद् व्यावृत्तबाह्यौत्सुक्य आत्मानमेवैवं वेदाहं ब्रह्मस्मीति सकलधर्मातीतब्रह्मैवाहमस्मि केवलमिति यो वेद स एतादृक्ब्रह्मज्ञानादविद्याकृतासर्वत्वनिवृत्त्या इदं सर्वं भवतीति व्याख्येयमित्यतः स्वयं तावत्तद्वाक्यं सम्यग्व्याचष्टे - तदिदमिति ॥ तदिदमित्य- नुबादेन ब्रह्मेति व्याख्यातम् । अहं ब्रह्मास्मीत्यस्यार्थः– अहेयत्वादिगुण- मिति । तथाच प्रमाणवाक्ये परं ब्रह्मेत्येतदिदं शब्दार्थकथनपरं ब्रह्मशब्दयोगेन गुणपूर्णत्वार्थकश्चेति भावः । इदानीमपव्याख्यानं दूषयति- अहंशब्दस्येति ॥ अर्थत्वेनेति शेषः । आत्मानमेवेत्यस्य समुच्चयार्थोऽपिशब्दः । तदत्र न श्रूयत इति चेत् । परेण 'तदात्मानमेवावेत्' इति पूर्ववाक्यानुसारेणात्राप्यात्मान- मेवेत्यध्याहृत्य व्याख्यानात् । यद्वा, न केवलं तदात्मानमेवावेदित्यत्र तदात्मान- मिति व्यर्थम् । अत्र वाक्ये इदंशब्दोऽपीति योज्यम् । तच्छब्दसमुच्चयार्थो वा । तथाच अहंशब्दस्याहेयार्थकत्वमनङ्गीकृत्य अस्मदादेशरूपत्वाङ्गीकारे एतर्ह्यपि एवं वेदाहं ब्रह्मास्मीत्येतावता अधिकारिणो ब्रह्मत्वानुसन्धानलाभेन आत्मानमेवेत्यध्याहारः तदिदंशब्दौ च व्यर्थाः स्युरित्यर्थः । अहेयत्वार्थकत्वे तु अहं ब्रह्मास्मीत्येतैर्विशेषणैः किं वेदेति विशेष्याकाङ्क्षानिवर्तकत्वेन तदिदंशब्दौ न व्यर्थाविति भावः ।।