स यथा सर्वासामपां समुद्र एकायतनमेवं ..
उपनिषत्
स यथा सर्वासामपां समुद्र एकायतनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां गन्धानां नासिकैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वानां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनमेवम् ॥ ११ ॥
भाष्यम्
तदेव दर्शयति । स यथाऽऽर्द्रैधाग्नेः स यथा सर्वासामपामित्यादिना । नह्यग्निरेव धूमः । नचाप एव समुद्रः । नह्यपामाप एवाश्रयः । किन्तु वरुणोऽपां खातो वा । स एव च समुद्र इत्युच्यते ।
भावबोधटिप्पणी
मायावादिभिः ‘उत्पत्तिकाले जगतो ब्रह्मात्मकत्वमवगमयितुं कार्याणामुत्पत्तेः प्राक् कारणादभिन्नत्वे दृष्टान्तमाह । स यथाद्वैधाग्नेः' इति प्रलयकालेऽप्यस्य प्रपञ्चस्य ब्रह्मात्मकत्वमिति दृष्टान्तपूर्वकमाह - स यथा सर्वासामपामिति ॥ उत्तरप्रकरणतात्पर्यमुक्तम् । तदसदिति भावेन तत्तात्पर्यमाह - तदेवेति ।। भगवज्जन्यत्वं भगवदधीनत्वं चेत्यर्थः । एवकारेण परोक्ततात्पर्यं व्यावर्तयति । कुतो व्यावर्तनीयमित्यत आह- नह्यग्निरेवेति || ननूदकराशिरेव समुद्र इत्युच्यत इति नचाप एव समुद्र इति कथमुक्तमित्यत आह- नहीति ।। यदि समुद्रशब्देनोदकराशिरेवोच्येत तर्हि सर्वासामपां समुद्र एकायनमिति समुद्रस्या- बाश्रयत्वोक्तिर्विरुद्ध्येत । अपामेव अबाश्रयत्वाभावादित्यर्थः कस्तर्ह्यपामाश्रय इति पृच्छति - किन्त्विति || उत्तरमाह - वरुण इति ॥ वरुणस्य सर्वप्रत्यक्षत्वाभावात् सर्वप्रत्यक्षसिद्धमेवाऽश्रयं दर्शयितुमपां खातो वेत्युक्तं तर्हि श्रुतौ वरुण एकायनमित्याद्युक्तिः स्यादित्यत आह- स एवेति ॥