ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते

बृहदारण्यकोपनिषद्भाष्यम्

सप्तमोऽध्यायः

प्रथमं ब्राह्मणम्

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः । पूर्णं च तत्परं रूपं पूर्णात् पूर्णाः समुद्गताः ॥ परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः । न देशकालसामथ्यैः पारावर्यं कथञ्चन ॥ पूर्वरूपस्य पूर्णस्य पूर्णं यदवतारगम् । रूपं तदात्मन्यादाय पूर्णमेवावतिष्ठते ॥ लौकिकव्यवहारो यो भूभारक्षपणादिकः । तददृष्टिं विना नान्यो लयः कृष्णादिनां क्वचित् ॥

ॐ खं ब्रह्म खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदेनैन यद्वेदितव्यम् ॥

॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये प्रथमं ब्राह्मणम् ॥

॥ इति बृहद्भाष्ये प्रथमं ब्राह्मणम् ॥ १ ॥

ओताः सर्वगुणाः यस्मादस्मिन्नों विष्णुरुच्यते । खं प्रकाशस्वरूपत्वात् ब्रह्मतद्व्याप्तरूपतः ॥ पुनः खं सुखरूपत्वम् पुराणं तदनादितः ॥ वायोश्च रतिदं यस्माद्वायुरं ब्रह्म तत्परम् । ख्यातत्वाच्चापि तत्खं स्याद्रौहिणेयस्तथाऽवदत् ॥ वेदोऽयं ज्ञानरूपत्वादिति यं ब्राह्मणा विदुः । निर्दोषत्वाद इत्युक्तस्तेन वेद्यं सदाऽखिलम् ॥ इति च ।

बाह्लीकसुता हि रोहिणी । अतो बलभद्रः कौरव्यायणीपुत्रः ॥