पुरुष एवेदं सर्वं भूतं भव्यं भवच्च यत्
[ पुरुष एवेदं सर्वं इत्यपि भेदपरम् ]
भाष्यम्
पुरुष एवेदं सर्वं भूतं भव्यं भवच्च यत् ।
इत्युच्यते तदीयत्वान्नतु सर्वस्वरूपतः ॥
भूतभव्यादिजातस्य मुक्तानामपि चेश्वरः ।
इत्युच्यते श्रुतौ विष्णुः सर्वदा पुरुषोत्तमः । इति भारते ॥
भावबोधटिप्पणी
ननूक्तं ' पुरुष एवेदं सर्वम्' इत्यत्रैक्यमुक्तमिति तत्राऽह - पुरुष इति ॥ यद्भूतं यच्च भव्यं यच्च भवदमुक्तमिदं सर्वं पुरुष एव पुरुषाधीनमेवेति पुरुषस्यामुक्तसर्वेशितृत्वमेवोक्तं नतु सर्वैक्यमित्यर्थः । कुत इत्यत आह— उतेति ।। उत्तरार्धे मुक्तेशानत्वस्योक्तत्वात् पूर्वार्धेऽमुक्तसर्वेशितृत्वमेवोच्यते नतु सर्वत्वम् । नहि कोऽपि वादी मुक्तौ भेदममुक्तावभेदमङ्गीकरोति । नापि युज्यते । पूर्वमभिन्नस्य पश्चाद्भेदायोगात् । किञ्च यदि पूर्वार्धे सर्वत्वमुक्तं
स्यात्तर्ह्यत्तरार्धे उतशब्दो व्यर्थः स्यात् । अमुक्तसमुच्चयार्थो हि उतशब्दः । नच द्वयोरीशत्वस्यानुक्तौ तत्समुच्चयोक्तेरवकाशोऽस्तीति भावः । अर्थान्तरस्या- सम्भवात् । ईशानश्चेत्यन्वये भिन्नक्रमत्वप्रसङ्गात् । अत एवामृतत्वस्येशान इत्येवोदाहर्तव्ये उतशब्दसाहित्येन तदुदाहरणम् । न केवलमुक्तयुक्त्या पुरुष एवेदमित्यस्योक्तार्थत्वं किन्तु भारते तथा व्याख्यातत्वादपीत्याह पुरुष इति ॥ अपि चेति चशब्दो यस्मादित्यर्थे । यस्माद् भूतभव्यादि- जातस्यामुक्तवर्गस्येश्वरः तस्मान्मुक्तानामपीश्वर इति । संसारे स्वाधीनं जगद्यदि मुक्तौ स्वाधीनतां जह्यात् तदा प्रेक्षावान्न मोचयेत् । अतो मुक्तावपि तदधीनमेव । श्रुतौ ‘उतामृतत्वस्येशानो यदन्नेनातिरोहति’इत्यस्याम् अनेन यद्यस्मादेवमन्नेनान्नम् अदनीयम् अमुक्तवर्गमतिरोहत्यतिक्रामति अमुक्ताधिपतिरिति यावत् । तस्मादमृतत्वस्योत भावभवित्रोरभेदेन मुक्तवर्गस्यापि ईशान इति श्रुतिर्व्याख्याता भवति ।