मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये ..

[जीवह्रद्द्रत भगवद्रूपम् ]

उपनिषत्

मनोमयोऽयं पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा वो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥

इति अष्टमं ब्राह्मणम्

भाष्यम्

मनोमयो ज्ञानमयः प्रधानं मय उच्यते ।

महाज्ञानात्मकश्चैव भारूपः सद्गुणात्मकः ॥

सर्वप्रकाशको विष्णुः…………………………….

भावबोधटिप्पणी

एवमादित्याक्षिस्थत्वेन भगवदुपासनामुक्त्वा हृत्स्थत्वेनापि तदुपासनं कर्तव्यमिति भावेन तद्गुणानाह - मनोमय इति ब्राह्मणेन ॥ तत्र मनोमय इति मनोविकारित्व- मुच्यत इति प्रतीतिनिरासाय तदनूद्य व्याचष्टे - मनोमय इति । 'मन अवबोधने' इति धातोर्मनःशब्दस्य ज्ञानवाचित्वाज्ज्ञानमय इत्युक्तम् । मयटो विकारार्थत्व- प्रतीतिनिरासायार्थमाहप्रधानमिति । तादात्म्यं चेति ग्राह्यम् । वक्ष्यमाणश्च- शब्दोऽत्र सम्बद्ध्यते । तेन वा तादात्म्यसमुच्चयः । अस्त्वेवं मयटोऽर्थद्वयं ततो ज्ञानमय इत्यस्य कोऽर्थो लभ्यत इत्यत आह- महाज्ञानात्मक इति । एवकारो विकारार्थत्वनिवारणार्थः । भारूपः प्रकाशरूपः सत्य इत्यस्य व्याख्यानं सद्गुणात्मक इति । सर्वमिदं प्रशास्ति यदिदं किञ्चेत्यस्यार्थः सर्वप्रशासको विष्णुरिति ॥

खण्डार्थः

अयं पुरुषः पूर्णषड्गुणो भगवान् मनोमयो महाज्ञानात्मकः भाः प्रकाशरूपस्सत्यः सद्गुणात्मकः व्रीहिर्वा यवो वा यथा यत्प्रमाणः तथा तत्परिमाणः सन् तस्मिन् प्रसिद्धेऽन्तर्हृदये हृदयान्तस्तिष्ठति योगिभिर्दृश्यते वा स एष हृत्स्थः परमात्मा सर्वस्येशानः सर्वस्याधिपतिः यदिदं प्रसिद्धं किञ्चेदं सर्वं जगत्प्रशास्तीत्यर्थः ॥ इति अष्टमं ब्राह्मणम् ।। ७.८ ।।