सृष्टिकथनं च प्राधान्यार्थम्

[श्रीहरिसर्वोत्तमत्वज्ञापनार्थं सृष्टिनिरूपणम् ]

भाष्यम्

सृष्टिकथनं च प्राधान्यार्थम् । त्रीणि रूपाणीत्येव सत्यमित्यपि प्राधा- न्यार्थमेवाभिमानिदेवतापेक्षया ।

भावबोधटिप्पणी

ननु यदि विकारमिथ्यात्वमत्र न प्रतिपाद्यं स्यात्तदा 'सदेव सोम्येदमग्र आसीत् तत्तेजोऽसृजत सन्मूला: सोम्येमाः सर्वाः प्रजाः' इत्यादिना यदादौ ब्रह्ममात्रावस्थानं तस्मादेव जगतः सृष्टिः सदायतनत्वमित्याद्युक्तं तदसङ्गतं स्यात् । तद्धि जगतो ब्रह्मविवर्तत्वोपपादनेन कार्यस्य पृथगसत्वपरं भवतीत्यत आह- सृष्टीति ।। आदौ ब्रह्ममात्रावस्थानादिसमुच्चयार्थश्वशब्दः । अवधारणार्थकः प्राधान्यार्थमेवेति वा सम्बद्ध्यते । प्राधान्यज्ञापनार्थमित्यर्थः । स्यादिदमसङ्गतं सृष्ट्यादिकथनमस्मन्मते यदि ब्रह्मविवर्तादिपरं तत्स्यात् । नचैवम् । किं नाम? यद्वाचारम्भणादिदृष्टान्तेन प्राधान्याद् ब्रह्मज्ञानेनाप्रधानप्रपञ्चज्ञानमुक्तं तत्र कथं जगदपेक्षया ब्रह्मण: प्राधान्यमित्यपेक्षायां जगन्निमित्तकारणत्वादिना तज्ज्ञापनार्थमेवेति कथमसङ्गतिरिति भावः । ननु 'अपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्' इत्युत्तरवाक्ये विकारमिध्यात्वमुक्त्वोपादानभूततेजोबन्नानां त्रयाणामेव सत्यत्वोक्त्या कारण- व्यतिरेकेण कार्याभावावगमात् । तदनुसारेण वाचारम्भणमिति पूर्ववाक्यत्रयस्यापि तदर्थत्वमेव युक्तम् । नतु प्रधाने परिज्ञाते गुणभूतं ज्ञातमिव भवतीत्यत्र दृष्टान्तकथनपरत्वमित्यत आह- त्रीणीति ॥ यद्वा, प्राधान्यज्ञापनार्थं सृष्टिकथनमिति न युक्तम् ।अपागादग्नेरग्नित्वम्इत्युत्तरवाक्ये विकारमिथ्यात्व- मुक्त्वोपादानभूततेजोवन्नानां त्रयाणामेव सत्यत्वोक्त्या 'तत्तेजोऽसृजत' इत्यादि- कथनस्य कारणव्यतिरेकेण कार्यासत्वे तात्पर्यावगमादित्यतस्तद्वाक्यस्य तात्पर्यमाह-- त्रीणीति । किमपेक्षया विष्णोः प्राधान्यज्ञापनार्थमिदं वाक्यमित्यत उक्तम्- अभिमानिदेवतापेक्षयेति ॥

Load More