यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीत् ..
[प्राणनामकभगवदुपासना]
उपनिषत्
यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीत् म उदंकः शौल्बायनः प्राणो वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छौल्बायनोऽब्रवीत् प्राणो वै ब्रह्मेत्यप्राणतो हि किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट् कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशंकं भवति यां दिशमेति प्राणस्यैव सम्राट् कामाय प्राणो वै सम्राट् परमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥
भाष्यम्
प्राणसंस्थस्य वै विष्णोः सम्प्रीत्यै भोजनं भवेत् ।
तदिच्छयैव चौर्यादि कुर्युरज्ञा अपि ध्रुवम् ॥
तथापि तं न जानीयुः प्राणात्मानं जनार्दनम् । इति प्रवृत्ते ॥
भावबोधटिप्पणी
नन्वयाज्ययाजनाप्रतिग्राह्यप्रतिग्रहचौर्याणि भोजनसाधनान्येव नतु प्राणप्रीति- साधनानि । अतः प्राणस्यैव कामायायाज्यं याजयतीत्यादि कथमुच्यत इत्यतः श्रुतावप्ययाज्ययाजनादीनां परम्परयैव प्राणप्रीतिसाधनत्वं विवक्षितमिति भावेनाऽह-- प्राणेति । तदिच्छया वस्तुतः प्राणस्थविष्णुप्रीतिकरभोजनेच्छया ज्ञानिनो भोजनसाधनमयाज्यया याजनादिकं कुर्युः | अज्ञा अपि भोजनसाधनं चौर्यादि कुर्युरित्यपिशब्दार्थः । तत्र वधाशङ्कं भवतीत्यस्य तात्पर्यं चौर्येति । आदिपदेनाऽयाज्ययाजनाप्रतिग्राह्यप्रतिग्रहयोः ग्रहणम् । चौर्यस्येतरदोषापेक्षया प्रबलत्वाच्छ्रुतिक्रमोल्लञ्चङ्घनं चौर्यादिकरणे किं तेषां स्वातन्त्र्येणेति भावेनोक्तम्- तदिच्छ्यैवेति || प्राणस्थविष्णोरिच्छयैवेत्यर्थः । अनेन प्राणस्यैव कामात द्वितीयवाक्यं व्याख्यातं भवति । ननु प्राणस्थविष्णुप्रीतिकरभोजनेच्छया तदिच्छयैव यदि चौर्यादि कुर्युस्तर्हि ते कथमज्ञा इत्यत आह- तथाऽपीति ॥ यद्यपि वस्तुतः प्राणस्थविष्णुप्रीतिकरभोजनेच्छया तदिच्छयैव चौर्यादि कुर्युः । तथापीत्यर्थः ।। ३ ।